By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलप्रदेश-उच्च-न्यायालयः पूरयिष्यति ३८८ पदानि, जानन्तु ‘ऑनलाइन’-आवेदनस्य अन्तिमां तिथिम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलप्रदेश-उच्च-न्यायालयः पूरयिष्यति ३८८ पदानि, जानन्तु ‘ऑनलाइन’-आवेदनस्य अन्तिमां तिथिम्
हिमाचलवार्ता

हिमाचलप्रदेश-उच्च-न्यायालयः पूरयिष्यति ३८८ पदानि, जानन्तु ‘ऑनलाइन’-आवेदनस्य अन्तिमां तिथिम्

डॉ मनोज शैल
Last updated: 2026/08/09 at 3:40 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचलप्रदेश-उच्च-न्यायालयः पूरयिष्यति ३८८ पदानि, जानन्तु ‘ऑनलाइन’-आवेदनस्य अन्तिमां तिथिम्

हिमसंस्कृतवार्ता: — शिमला ।

हिमाचलप्रदेश-उच्च-न्यायालयः मण्डल-न्यायपालिकासु विविध-पदेषु नियुक्तये अधिसूचनां प्रसारितवान्। आहत्य ३८८ रिक्तताः पूरयितुं पात्र-अभ्यर्थिभ्यः ‘ऑनलाइन’-नियुक्ति-आवेदनम् आमन्त्रितम् अस्ति। आवदेनानि हिमाचलप्रदेश-उच्च-न्यायालयस्य ‘जालपुटम्’ https://highcourt.hp.gov.in/ इत्यस्याः ‘नियुक्तिपटल’-माध्यमेन कर्तुं शक्यन्ते। आवेदन-प्रक्रिया १० अगस्त-दिनाङ्कात् प्रारभ्य १० सितम्बर २०२६ दिनाङ्के रात्रौ ११:५९ वादने समाप्ता भविष्यति। अस्मिन् विषये उच्च-न्यायालयस्य पक्षतः नियुक्तये विज्ञप्तिः (Notice) प्रसारिता अस्ति।

 

कस्यां श्रेण्यां कति पदानि

एतेषु पदेषु ‘कोर्ट-मैनेजर’, लिपिकः (Clerk), ‘स्टेनोग्राफर’-तृतीय-श्रेणी, चालकः (Driver), ‘प्रोसेस-सर्वर’ तथा च भृत्यः/ऑर्डरली/द्वारपाल:/सफाई-कर्मचारी इत्येते सम्मिलिताः सन्ति। ‘कोर्ट-मैनेजर’-इत्यस्य पञ्च पदानि नियमित-आधारेण पूरयिष्यन्ते, येषां कृते वेतन-स्तर-१६ इत्यस्य अन्तर्गतं ४८,७०० तः १,५४,३०० रूप्यकाणां वेतनमानं निर्धारितम् अस्ति। लिपिकस्य १४१ पदानि सन्ति, येषु ८४ नियमित-आधारेण ५७ अनुबन्ध-आधारेण च पूरयिष्यन्ते। ‘स्टेनोग्राफर’-तृतीय-श्रेण्याः ७९ पदानि सन्ति, येषु ४८ नियमित-आधारेण ३१ अनुबन्ध-आधारेण च पूरयिष्यन्ते। चालकस्य नव पदानि (चत्वारि नियमित-आधारेण, पञ्च दैनिक-वेतन-भोगी) तथा च ‘प्रोसेस-सर्वर’-इत्यस्य ६५ पदानि (६१ नियमित-आधारेण, एकम् अनुबन्ध-आधारेण, त्रीणि दैनिक-वेतन-भोगी) सन्ति। भृत्यः/ऑर्डरली/द्वारपाल:/स्वच्छता-कर्मचारी इत्येतेषां ८९ पदानि सन्ति, येषु ६९ नियमित-आधारेण २० दैनिक-वेतन-भोगी-आधारेण च पूरयिष्यन्ते।

 

आवेदन-शुल्कं योग्यता च

आवेदन-शुल्कम् अनारक्षित-वर्गाय ४५० रूप्यकाणि आरक्षित-श्रेणीभ्यः ३०० रूप्यकाणि अस्ति। अभ्यर्थिभिः केवलम् ‘ऑनलाइन’-माध्यमेन एव आवेदनं करणीयम्। ‘कोर्ट-मैनेजर’-पदाय अभ्यर्थिनः पार्श्वे ‘एम.बी.ए.’-उपाधिना सह स्नातक-उपाधिः त्रयाणां वर्षाणाम् अनुभवश्च भवेत्। अस्य पदस्य कृते वयः-सीमा २५ तः ३५ वर्षाणि निर्धारिता अस्ति। लिपिकाय ‘स्टेनोग्राफर’-तृतीय-श्रेण्याश्च स्नातक-उपाधिः आवश्यकी अस्ति। लिपिकाय आङ्ग्लभाषायां ३० शब्दाः प्रतिनिमिषं (शब्द प्रति मिनट) हिन्दीभाषायां च २५ शब्दाः प्रतिनिमिषं ‘टाइपिंग’-गतिः अनिवार्या अस्ति। ‘स्टेनोग्राफर’-तृतीय-श्रेण्याः कृते आङ्ग्लभाषायाम् ८० शब्दाः प्रतिनिमिषं शीघ्रलिपिः (Shorthand) ४० शब्दाः प्रतिनिमिषं ‘टाइपिंग’-गतिः, हिन्दीभाषायां ३० शब्दाः प्रतिनिमिषं ‘टाइपिंग’-गतिः भवेत्। चालक-पदाय दशमी-कक्षा-उत्तीर्णता त्रयाणां वर्षाणां वैधः लघु-मोटर-यान-चालन-अनुज्ञापत्रम् (Driving License) अनिवार्यम् अस्ति। ‘प्रोसेस-सर्वर’ तथा च भृत्यः सदृशेभ्यः ‘डी’-वर्ग-पदेभ्यः द्वादशी-परीक्षा उत्तीर्णता भवेत्।

You Might Also Like

विद्यालयेषु छात्राणां सङ्ख्या-आधारे नियुक्ष्यन्ते जे.बी.टी.-शिक्षकाः, शिक्षा-विभागेन आरब्धं युक्तीकरणम्

भूस्खलनेन १५३ मार्गाः अवरुद्धा:, किन्नौर-कैलाश-यात्रा द्वितीय-दिने अपि स्थगिता, एक-सप्ताहं यावत् वृष्टिः भविष्यति

२०१६ वर्षात् अनुबन्धे नियुक्तेभ्यः टी.जी.टी.-शिक्षकेभ्यः संशोधित-वेतन-लाभः

हिमाचलप्रदेशस्य चम्बा-मण्डले गतदिवसे प्रातः निज-बस दुर्घटनायां सप्त जनाः मृताः

वैध-बीमां विना न लप्स्यते इन्धनम्!, सर्वोच्च-न्यायालयः ‘IRDAI’-संस्थायै प्रेषितवान् प्रस्तावम्

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article ‘मालामाल वीकली २’ इति चलच्चित्रस्य सज्जीकरणम् आरब्धम्, परिणीतिचोपडा रवीनाटण्डन् च अस्य अंशः सञ्जाते
Next Article २०१६ वर्षात् अनुबन्धे नियुक्तेभ्यः टी.जी.टी.-शिक्षकेभ्यः संशोधित-वेतन-लाभः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?