शिमलायाः विश्वेशनेगी ईरान-देशे भारतस्य राजदूतः संजातः, बी.सी.एस.-क्षेत्रे हर्षातिरेकस्य वातावरणम्
हिमसंस्कृतवार्ता: — शिमला।
हिमाचलप्रदेशस्य राजधान्याः शिमलायाः ‘बिशप-कॉटन-स्कूल’ (BCS) इत्यस्य पूर्वतनः छात्रः विश्वेशनेगी-महोदयः केन्द्रसर्वकारेण ‘इस्लामिक-रिपब्लिक-ऑफ-ईरान’-देशे भारतस्य राजदूतः नियुक्तः अस्ति। अस्याम् उपलब्धौ विद्यालये हर्षातिरेकस्य वातावरणम् अस्ति। विद्यालय-प्रबन्धनस्य अनुसारं विश्वेशनेगी-महोदयः १९९४ तमस्य वर्षस्य गणस्य (Batch) छात्रः आसीत्।
सः २००२ तमस्य वर्षस्य गणस्य (Batch) भारतीय-विदेश-सेवा-अधिकारी (IFS) अस्ति। विद्यालय-प्रबन्धनस्य अनुसारं संस्थायाः कृते एतद् गौरवस्य क्षणम् अस्ति। प्रधानाचार्यः मैथ्यू-पी.-जॉन-महोदयः, शिक्षकाः, छात्राः, पूर्वतनाः छात्राश्च विश्वेशनेगी-महोदयाय वर्धापनानि यच्छन्तः तस्मै सफल-कार्यकालस्य मङ्गलकामनाः प्रेषितवन्तः।
