अवशिष्टांश-(एरियर)-सूत्रे हरियाणा-राज्यम् सहमतम्, पञ्जाबस्य विरोधः
हिमसंस्कृतवार्ता: — शिमला ।
भाखड़ा-ब्यास-प्रबन्धन-मण्डलस्य (BBMB) अवशिष्ट-भुक्ति-सम्बद्धस्य प्रकरणस्य श्रवणं गुरुवासरे सर्वोच्च-न्यायालयस्य भारतस्य मुख्य-न्यायाधीशस्य न्यायमूर्ति-सूर्यकान्तस्य, न्यायमूर्ति-जॉयमाल्य-बागच्याः तथा च न्यायमूर्ति-वी.-मोहनाया: पीठस्य सम्मुखम् अभवत्। श्रवण-काले भारतस्य महान्यायवादिना (Attorney General) केन्द्रसर्वकारेण सम्बद्ध-राज्यैश्च सह बहु-स्तरीय-चर्चायाः परं सज्जीकृतः प्रस्तावः न्यायालयस्य सम्मुखं प्रस्तुतम्। महान्यायवादिना न्यायालयं ज्ञापितं यत् प्रस्तावस्य अन्तर्गतं बी.बी.एम्.बी.-संस्थायाः अवशिष्ट-राशेः भुक्ति: विद्युत्-रूपेण कर्तुं परामर्शः दत्तः अस्ति। तेन उक्तं यत् प्रस्तावं रचयन् सर्वैः सम्बद्ध-पक्षैः विचारः कृतः अस्ति। मुख्य-न्यायाधीशः अस्मिन् सर्वेभ्यः पक्षेभ्यः स्वकीयां सहमतिं दातुं प्रोक्तवान्। हिमाचलप्रदेशः हरियाणा-राज्यं च प्रस्तावे सिद्धान्ततः सहमतिम् अकुरुताम्, यदा च पञ्जाब-राज्येन अस्य विरोधः कृतः। पञ्जाब-पक्षतः तर्कः दत्तः यत् प्रस्तावे हिमाचलप्रदेशस्य उपरि पूँजीगत-व्ययस्य (Capital Cost) तथा च सञ्चालन-संरक्षण-(O&M) शुल्कस्य देयता न समाविष्टा।
अतः अस्मिन् पुनः विचारः करणीयः। अस्मिन् मुख्य-न्यायाधीशः पञ्जाब-राज्यम् अवदत् यत् अस्मिन् प्रकरणे डिक्री (Decree) पूर्वमेव हिमाचलप्रदेशस्य पक्षे संजाता अस्ति अस्य च १५ वर्षाणि व्यतीतानि। तादृशे न्यायालये महान्यायवादिनः प्रस्तावस्य प्रवर्तनाय सम्बद्धे स्वकीय-निर्णयस्य ग्रहणाय विचारं करिष्यति। हिमाचलप्रदेशस्य पक्षतः वरिष्ठ-अधिवक्ता कपिलसिब्बलः न्यायालये प्रोक्तवान् यत् यदा पञ्जाब-हरियाणा-राज्यैः स्वयं कदापि भारतसर्वकाराय पूँजीगत-व्ययस्य भुक्ति: न कृता, तर्हि हिमाचलप्रदेशात् तादृशायाः राशेः याचनायाः कश्चिद् औचित्यं नास्ति। तेन एतदपि उक्तं यत् सञ्चालनस्य अन्यानां व्ययानां च महान्यायवादिनः प्रस्तावे पूर्वमेव समावेशः कृतः अस्ति। सर्वेषां पक्षाणां तर्काणि श्रुत्वा सर्वोच्च-न्यायालयः पञ्जाब-राज्यं स्वकीय-दृष्टिकोणे पुनः विचारं कर्तुं निर्दिष्टवान् प्रकरणस्य च अग्रेतनी श्रवण-तिथिः १२ अगस्त २०२६ इति निर्धारिता। उल्लेखनीयम् अस्ति यत् बी.बी.एम्.बी.-एरियर-विषयं किशाऊ-परियोजनया सह योजयन् मुख्यमन्त्रिणा सुक्खू-महोदयेन हरियाणा-सम्मुखं य: समय: स्थापित: आसीत्, हरियाणा-राज्ये तस्य महान् प्रभावः अभवत्।
