By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: काङ्गड़ा-जनपदस्य बोह-उपत्यकायां प्रभावितेभ्यः २५ परिवारेभ्यः गृह-निर्माणाय लप्स्यन्ते सार्ध-अष्ट-लक्ष-रूप्यकाणि – मुख्यमंत्री सुक्खुः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > काङ्गड़ा-जनपदस्य बोह-उपत्यकायां प्रभावितेभ्यः २५ परिवारेभ्यः गृह-निर्माणाय लप्स्यन्ते सार्ध-अष्ट-लक्ष-रूप्यकाणि – मुख्यमंत्री सुक्खुः
हिमाचलवार्ता

काङ्गड़ा-जनपदस्य बोह-उपत्यकायां प्रभावितेभ्यः २५ परिवारेभ्यः गृह-निर्माणाय लप्स्यन्ते सार्ध-अष्ट-लक्ष-रूप्यकाणि – मुख्यमंत्री सुक्खुः

डॉ मनोज शैल
Last updated: 2026/07/26 at 10:25 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

काङ्गड़ा-जनपदस्य बोह-उपत्यकायां प्रभावितेभ्यः २५ परिवारेभ्यः गृह-निर्माणाय लप्स्यन्ते सार्ध-अष्ट-लक्ष-रूप्यकाणि

परिवारेभ्यः गृह-निर्माणाय सर्वकारीय-भूमिः उपलब्धा कारयिष्यते: – मुख्यमंत्री सुक्खुः

हिमसंस्कृतवार्ता: — काङ्गड़ा।

हिमाचलप्रदेश-सर्वकारस्य मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुना रविवासरे काङ्गड़ा-जनपदस्य शाहपुर-क्षेत्रस्य बोह-क्षेत्रे मेघस्फोटस्य (बादल फटने) घटनया प्रभावितानां क्षेत्राणां प्रवासं कृत्वा आश्रय-पुनर्वास-कार्याणां निरीक्षणं कृतम्। अस्मिन् अवसरे तेन राजकीय-वरिष्ठ-माध्यमिक-विद्यालये, बोह-स्थाने स्थापिते आश्रय-शिविरे निरीक्षणं कृतं तत्र च स्थापितेभ्यः प्रभावितेभ्यः परिवारेभ्यः मेलनं कृत्वा तेषां कुशलक्षेमं ज्ञातम्। मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खू महोदयेन प्रोक्तं यत् येषां २५ परिवाराणां गृहाणि अस्यां आपदि पूर्णतया विनष्टानि संजातानि, तेभ्यः गृह-निर्माणाय ७.५० लक्ष-रूप्यकाणाम् आर्थिक-साहाय्यं प्रदास्यते। एतदतिरिच्य, वस्त्राणां, पात्राणां (बर्तन) अन्येषाम आवश्यकानां गृह-वस्तूनां क्रयणाय एकलक्ष-रूप्यकाणां साहाय्यं अपि प्रदास्यते। तेन कथितं यत् येषां प्रभावितानां परिवाराणां पार्श्वे वासाय भूमिः उपलब्धा नास्ति, तेभ्यः सर्वकारः आवश्यकतानुसारं सर्वकारीयां भूमिम् अपि उपलब्धं कारयिष्यति।

स्मर्तव्यम् अस्ति यत् शाहपुरस्य बोह-घाट्याम् मेघस्फोटनेन घुड़घुं, भङ्गार, सपेड़ा इति ग्रामाणाम् आहत्य २५ परिवाराः अस्याः आपद: पूर्णतया प्रभाविताः अभवन्। सुरक्षां सर्वोच्च-प्राथमिकतां दत्त्वा सपेड़ा-ग्रामस्य १३ गृहाणि ‘सङ्कट-क्षेत्रम्’ (Danger Zone) इति घोषितानि। मुख्यमन्त्रिणा प्रोक्तं यत् येषां परिवाराणां धेनुः महिषी वा आपदि मृता, तेभ्यः ५५ सहस्र-रूप्यकाणि प्रति-पशु तथा च येषां अजा: मृताः, तेभ्यः १५ सहस्र-रूप्यकाणि प्रति-अजा साहाय्य-राशिः दीयते। येषु गृहेषु आप्लवनस्य आपदो वा जलस्य प्रवेशेन हानिः संजाता, तेभ्यः एकलक्ष-रूप्यकाणां साहाय्यं प्रदास्यते। एतेनैव प्रकारेण, क्षतिग्रस्ताभ्यः विपणिभ्यः हान्याः आधारे ५० सहस्रतः एकलक्ष-रूप्यकाणि यावत् साहाय्यं दीयते। तेन कथितं यत् येषां कृषकाणां सस्यानां (फसलों की) हानिः संजाता, तेभ्यः ५ सहस्र-रूप्यकाणि प्रति-कनाल-आधारेण क्षतिपूर्तिः दीयते। येभ्यः परिवारेभ्यः अस्थायी-रूपेण भाटके गृहेषु स्थातव्यं भविष्यति, तेभ्यः ५ सहस्र-रूप्यकाणि प्रतिमासं भाटक-साहाय्यं प्रदास्यते। एतदतिरिच्य, प्रभावितेभ्यः परिवारेभ्यः षण्मासानां धान्यं (राशन) अपि निःशुल्कम् उपलब्धं कारयिष्यते। मुख्यमन्त्रिणा ज्ञापितं यत् प्रभावितेभ्यः परिवारेभ्यः सद्यः साहाय्यं यच्छता २५ परिवारेभ्यः २५-२५ सहस्र-रूप्यकाणि तथा च १६ अन्येभ्यः परिवारेभ्यः १०-१० सहस्र-रूप्यकाणि यावत् मध्यवर्ति-साहाय्य-राशिः प्रसारिता अस्ति। पुनर्वास-कार्येषु अपि प्रशासनं वेगेन संलग्नं वर्तते।

अस्मिन् अवसरे मुख्यमन्त्रिणा रिडकमार-प्राथमिक-स्वास्थ्य-केन्द्रस्य (PHC) सामुदायिक-स्वास्थ्य-केन्द्ररूपेण (CHC) पदोन्नतेः घोषणा अपि कृता। येन क्षेत्रे स्वास्थ्य-सेवानां इतोऽपि सुदृढीकरणं विधातुं शक्ष्यते। अस्मिन् अवसरे शाहपुरस्य विधायकः उप-मुख्य-सचेतकः च केवलसिंहपठानिया, हिमाचलप्रदेश-राज्य-आपदा-प्रबन्धन-प्राधिकरणस्य उपाध्यक्षः दीपकराठौरः, ऊर्ण-सङ्घस्य (Wool Federation) अध्यक्षः मनोजकुमारः, स्थानीय-पञ्चायत-प्रधाना नीलमकुमारी, उपायुक्तः काङ्गड़ा हेमराजबैरवा, आरक्षणाधीक्षकः कुलभूषणवर्मा विविधानां विभागानां च अधिकारिणः उपस्थिताः आसन्।

You Might Also Like

शिक्षक-दिवसात् पूर्वं नूतन-परिसर-प्रणाल्याम् भविष्यति निर्णयः, मुख्यमंत्रिण: सुक्खो: बृहती घोषणा

त्यागपत्रात् अग्रे…………. ! राष्ट्रीय-शिक्षा-परिष्कारात् राष्ट्र-हितं यावत् – श्रीनिवास: वरखेड़ी

जंतर-मंतर-आन्दोलनस्य समर्थनम्: शिमला-नगरे निसृता सिक्थदीप-यात्रा (कैंडल-मार्च), मुख्यमन्त्री सुक्खू: अपि सम्मीलितः; दत्ता श्रद्धाञ्जलिः

मुकेशअग्निहोत्री अवदत्— जलशक्तिविभागे अस्मिन् वित्तवर्षे पूरयिष्यन्ते ४,००० पदानि, भविष्यति जलशुद्धीकरणम्

विदेशात् एम.बी.बी.एस. (MBBS) कृतवतां स्नातकानाम् ‘इंटर्नशिप’-अवधिः एकवर्षं भविष्यति, मुख्यमंत्री सुक्खू-महोदयेन दत्ताः निर्देशाः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article शिक्षक-दिवसात् पूर्वं नूतन-परिसर-प्रणाल्याम् भविष्यति निर्णयः, मुख्यमंत्रिण: सुक्खो: बृहती घोषणा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?