By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: त्यागपत्रात् अग्रे…………. ! राष्ट्रीय-शिक्षा-परिष्कारात् राष्ट्र-हितं यावत् – श्रीनिवास: वरखेड़ी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > त्यागपत्रात् अग्रे…………. ! राष्ट्रीय-शिक्षा-परिष्कारात् राष्ट्र-हितं यावत् – श्रीनिवास: वरखेड़ी
राष्ट्रीयवार्ताःसंस्कृतगतिविधयः

त्यागपत्रात् अग्रे…………. ! राष्ट्रीय-शिक्षा-परिष्कारात् राष्ट्र-हितं यावत् – श्रीनिवास: वरखेड़ी

डॉ मनोज शैल
Last updated: 2026/07/26 at 3:41 PM
डॉ मनोज शैल
Share
7 Min Read
SHARE

त्यागपत्रात् अग्रे…………. ! राष्ट्रीय-शिक्षा-परिष्कारात् राष्ट्र-हितं यावत् – श्रीनिवास: वरखेड़ी

हिमसंस्कृतवार्ता:। केन्द्रीयशिक्षामन्त्रिण: धर्मेन्द्रप्रधानस्य त्यागपत्रस्य सन्दर्भे केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपति: स्वीये विश्लेषणात्मके वक्तव्ये अकथयत् यत् – अहं वैयक्तिकरूपेण तस्याः दुर्भाग्यपूर्णायाः घटनायाः कारणात् अत्यन्तं दुःखितः अस्मि, यस्याः परिणामस्वरूपेण एकः निष्ठावान् समर्पितश्च नेता श्रीधर्मेन्द्रप्रधानवर्यः त्यागपत्रं दत्तवान्। मम विश्वासः अस्ति यत् शिक्षाक्षेत्रे तस्य योगदानं इतिहासः सदैव स्मरिष्यति।

एतत् अतीव दुर्भाग्यपूर्णम् अस्ति यत् अस्याः खेदजनकघटनायाः कारणेन शिक्षाजगत् तादृशं नेतारं त्यक्तवत्, येन गतेषु चतुर्षु वर्षेषु राष्ट्रिय-शिक्षा-नीतेः (एन.ई.पी.) प्रभाविनः त्वरितस्य च कार्यान्वयनस्य कृते असाधारण-प्रतिबद्धतया सह कार्यं कृतम्। तेन केवलं नीतिः न निर्मिता, अपितु तां धरातले अवतारयितुं कार्यम् अपि विहितम्। तेन स्वकीयः निर्णयः गृहीतः; इतिहासः स्वयं निश्चेष्यति यत् कः सम्यक् आसीत् कश्च असम्यक्। परन्तु केवलम् एकस्य मन्त्रिणः त्यागपत्रेण शिक्षाव्यवस्थायाम् आमूलचूलं परिवर्तनं न आगमिष्यति, न च तस्याः संरचनात्मकानि आह्वानानि (चुनौतियाँ) समाप्तानि भविष्यन्ति।

सर्वे वयम्, ये शिक्षाव्यवस्थायाः अङ्गीभूताः स्मः—शिक्षकाः, विश्वविद्यालय-प्रशासकाः, नीति-निर्मातारः, शोधकर्तारः, छात्राः, अभिभावकाश्च—अस्माभिः शिक्षायां सार्थकमहापरिवर्तनस्य आनयनाय सामूहिकम् उत्तरदायित्वं स्वीकारणीयं भविष्यति। परिष्कार: केवलं सर्वकारस्य स्कन्धयोः न त्यक्तुं शक्यते।

 

शिक्षाप्रणाल्याः गभीर-आत्ममन्थनम्

परीक्षा-प्रश्नपत्र-प्रकटनस्य (लीक) घटनाः अपि गभीर-आत्ममन्थनस्य याचनां कुर्वन्ति। निःसंशयम्, ‘राष्ट्रीय परीक्षा एजेंसी’ (एन.टी.ए.) सदृशीनां संस्थानां कार्यप्रणाल्याः, संरचनायाः, उत्तरदायित्वस्य, मानक-सञ्चालन-प्रक्रियाणां (एस.ओ.पी.) च व्यापिका समीक्षा आवश्यकी अस्ति। किन्तु अस्माभिः एकस्य अप्रिय-सत्यस्य अपि सम्मुखीकरणं करणीयम् यत् एतादृशेषु अनेकेषु अपराधेषु स्वयं शिक्षणसमुदायस्य केचन सदस्याः अपि संलिप्ताः प्राप्ताः सन्ति। यदा शिक्षकाः एव स्वकीय-नैतिक-दायित्वात् सन्धिं कुर्वन्ति, तदा तस्य दुष्परिणामः केवलम् एकां परीक्षां यावत् सीमितः न तिष्ठति, अपितु सम्पूर्ण-राष्ट्रस्य शिक्षाव्यवस्थायाः विश्वसनीयतायां प्रश्नचिह्नम् उत्थाप्यते। सर्वकारेण तत्कालं राजनैतिकं मूल्यं अवश्यं दातव्यं स्यात्, परन्तु वास्तविकी क्षतिः राष्ट्रस्य तस्य शिक्षाप्रणाल्याः विश्वसनीयतायाः च संजाता अस्ति। अधुना अस्माभिः एतत् विचारणीयं भविष्यति यत् अस्य वास्तविकं मूल्यं केन प्रत्यर्पितम्।

अनेन सह एव अस्माभिः अस्य सङ्कटस्य एकस्मिन् अन्यस्मिन् अतीव चिन्ताजनके पक्षे अपि विचारः करणीयः। परीक्षायाः अत्यधिक-मानसिक-प्रभावस्य कारणेन अनेके छात्राः स्वप्राणान् अपि अत्यजन्। एतत् अस्माकं सम्मुखे मूलभूतान् प्रश्नान् उत्थापयति। अस्माकं शिक्षाव्यवस्था छात्रेभ्यः कान् मूल्यान् यच्छन्ती अस्ति? वयं कीदृशानां युवा-मनसां निर्माणं कुर्वन्तः स्मः? किं वयं तेभ्यः मानसिक-दृढतां, भावनात्मक-सन्तुलनं, असफलतानां सम्मुखीकरणं कर्तुं क्षमतां च प्रयच्छन्तः स्मः, उत तादृशीं सन्ततिं सज्जीकुर्वन्तः स्मः या परीक्षायाः परिणामान् एव स्वजीवनस्य मूल्यं मन्यते? अस्य मानसिक-अवसादस्य कृते अभिभावकानाम् अपि समाना उत्तरदायिता अस्ति।

 

परीक्षाप्रणाल्यां पुनर्विचारस्य आवश्यकता

अस्माकं परीक्षाप्रणाल्याम् अपि गभीर-पुनर्विचारस्य आवश्यकता अस्ति। एकत्र वयं अस्वस्थ-प्रतिस्पर्धां न्यूनीकर्तुं समग्र-शिक्षायाः च वार्तां कुर्मः, अपरत्र अस्माकं सम्पूर्णा व्यवस्था अत्यधिक-प्रतिस्पर्धात्मकासु उच्च-पक्ष-युक्तासु प्रवेशपरीक्षासु एव आधारिता अस्ति। एषः विरोधाभासः अस्माकं शिक्षाप्रणालीं तस्याः एव संरचनायां संयोजितवान् अस्ति। अधुना केवलं वारं वारं उत्पद्यमानानां समस्यानां समाधानं पर्याप्तं न भविष्यति; अस्माभिः सम्पूर्णायाः व्यवस्थायाः संरचनायां पुनर्विचारं कृत्वा तस्याः पुनर्निर्माणं करणीयं भविष्यति।

भारतस्य शिक्षाव्यवस्था विश्वस्य विशालतमासु व्यवस्थासु एका अस्ति। एषा एकेन विशाल-पोतेन (जहाज) समाना अस्ति। कश्चिद् अपि पोतपतिः (कप्तान), कामं सः कियान् अपि सक्षमः न भवेत्, एकाकी-रात्रौ तस्य दिशाम् परिवर्तयितुं न शक्नोति। अनेकेषु क्रमेषु पोतपतेः श्रेष्ठतम-प्रयासानां सत्यपि पोतः शिलाभिः सह ताडितः भवितुं शक्नोति। दिशा-परिवर्तनं भवेत् वा तस्मिन्नेव मार्गे अग्रे सरणं भवेत्—द्वयोः अपि स्थित्योः कठोराः निर्णयाः संकटाश्च अपरिहार्याः सन्ति। स्थायि-परिष्काराय धैर्यं, निरन्तरता, संस्थागत-सहयोगः, जनविश्वासश्च आवश्यकः भवति।

 

अद्यतनः युवावर्गः, यं वयं ‘जेन झी’ (Gen Z) इति वदामः, सोशल-मीडिया, राजनैतिक-विमर्शैः, सहचराणां प्रभावैः, भावनात्मक-उत्तेजनाभिः च सह अनेकाभिः शक्तिभिः प्रभावितः भवति। तेषां भावनात्मक-प्रतिक्रियाः स्वाभाविकाः सन्ति। किन्तु अस्माभिः, अभिभावकैः, शिक्षकैः, शिक्षाजगतः नेतृत्वकर्तृभिश्च, स्वस्मात् एकः कठिनः प्रश्नः प्रष्टव्यः—यदि वयं स्वगृहेषु एव स्वबालकेभ्यः सम्यक् दिशानयने बहुवारं सङ्घर्षं कुर्मः, तर्हि केवलं सर्वकारेभ्यः एषा अपेक्षा कथं कर्तुं शक्यते यत् ते रथ्यासु समागच्छतां भावनात्मकानाम् आन्दोलनानाम् एकाकिनः प्रभावी-रूपेण सञ्चालनं कुर्युः?

 

एक: अनुत्तरित: प्रश्न:

प्रधानमन्त्रिणा शिक्षामन्त्रिणा च जनतायाः चिन्तानां प्रति संवेदनशीलता प्रदर्शिता तथा च यूनाम् ध्वनि: श्रुता। तथापि एकः महत्त्वपूर्णः प्रश्नः अद्य अपि अनुत्तरितः अस्ति—अन्ते अस्य आन्दोलनस्य नेतृत्वं केन कृतम्? वास्तवतः छात्राणां प्रतिनिधित्वं केन कृतम्? सार्वजनिक-विमर्शः शीघ्रमेव एकस्यामेव याचनायां सीमितः अभवत्—शिक्षामन्त्रिणः त्यागपत्रम्। परन्तु तस्मात् परं किम् अभवत्? शिक्षापरिष्कारस्य विस्तृतं नियोजनं कुत्र आसीत्? परीक्षाप्रणालीं सुदृढां विधातुं, प्रशासनिक-व्यवस्थायां परिष्कारम् आनेतुम्, वैश्विक-श्रेष्ठतम-अभ्यासान् (Best Practices) अङ्गीकर्तुं तथा च जनतायाः विश्वासं पुनर्स्थापयितुं गभीरा चर्चा कुत्र अभवत्?

तेषु निर्णायकेषु दिनेषु प्रदर्शनानि, घोषाः, विरोधाश्च व्यापकं प्रचारं प्राप्नुवन्। किन्तु एषः प्रश्नः उत्तिष्ठति यत् किं तावती एव ऊर्जा शिक्षाविशेषज्ञैः, मनोवैज्ञानिकैः, परीक्षाविशेषज्ञैः, प्रविधि-विशेषज्ञैः, नीति-निर्मातृभिश्च सह व्यावहारिक-समाधानस्य अन्वेषणाय गभीर-सार्वजनिक-संवादस्य आयोजने नियोजिता? किं वयम् सामूहिकरूपेण एतत् ज्ञातुं प्रयासम् अकुर्म यत् विश्वस्य श्रेष्ठतमाभ्यः परीक्षाप्रणालीभ्यः भारतं किं शिक्षितुं शक्नोति? किं वयम् अस्मिन् विचारविमर्शम् अकुर्म यत् भारतं कथम् अधिक-विश्वसनीयं, मानवीयं, भविष्यस्य आवश्यकतानाम् अनुरूपं च मूल्याङ्कनप्रणालीं विकसितं कर्तुं शक्नोति? केनापि टी.वी.-प्रसारणेन अस्य दायित्वस्य निर्वहणम् न कृतम्। स्वयम् बृहत्-परिष्कारकान् दर्शयद्भिः प्रदर्शनकर्तृभिः केनापि अस्मिन् विषये एकघण्टायाः गभीरचर्चायाः प्रयासः न कृतः। अधिकांशः जनाः विपक्षी-राजनैतिक-दलानां समर्थन-सङ्ग्रहणे सफलीभावस्य श्रेय-ग्रहणे च अधिकाः व्यग्राः अदृश्यन्त।

विश्वविद्यालयैः अपि आत्ममन्थनं करणीयम्। किं ते केवलं तादृशाः मञ्चाः भवन्तः सन्ति यत्र राजनैतिक-विचाराणां पुनरावृत्तिः प्रचारश्च क्रियते? उत ते शिक्षापरिष्कारेषु तथ्याधारितम्, अनुसन्धानपरकं, सार्थकं च विमर्शम् आरभ्य स्वकीयस्य वास्तविक-शैक्षणिक-दायित्वस्य निर्वहणं कुर्वन्तः सन्ति? उच्चशिक्षा-संस्थाभिः केवलं राजनैतिक-घटनासु प्रतिक्रिया-प्रदानात् ऋते राष्ट्रिय-शिक्षा-नीतौ परिष्कारेषु च नेतृत्वकारी भूमिका निर्वोढव्या।

अद्य प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः नेतृत्वयुक्तात् सर्वकारात् देशस्य आशा अस्ति। “मोदी अस्ति तर्हि सम्भवम् अस्ति” केवलम् एकः घोषः न, अपितु एषः विश्वासः यत् एषः परिष्काराणाम् उपयुक्तः समयः अस्ति। अस्माभिः सर्वकारः परिस्थितीनां मृगया न भवितुं दातव्यः।

प्रत्येकं सङ्कटं स्वेन सह शिक्षणस्य अवसरम् आनेतम्। एतत् दुर्भाग्यपूर्णं प्रकरणं केवलं दोषारोपणं वा राजनैतिक-विजयस्य उत्सवं यावत् सीमितं न भवेत्। अस्य स्थाने एतत् व्यापक-शिक्षा-परिष्काराणां माध्यमं भवेत्, येन संस्थागता निष्ठा सुदृढा भवेत्, नैतिक-व्यवहारः प्रोत्साहनं लभेत्, अनावश्यकः शैक्षणिक-प्रभावः न्यूनः भवेत् तथा च अधिक-सुदृढायाः, न्यायसङ्गतायाः, मानवीयायाः च शिक्षाव्यवस्थायाः निर्माणं भवितुं शक्येत।

केचन राजनैतिक-दलानि सी.जे.पी.-नेतारश्च अस्य घटनाक्रमस्य स्वकीय-विजयरूपेण उत्सवं मानयन्तः सन्ति। केचन राजनीतिज्ञाः सिक्थदीपयात्रा (कैंडल-मार्च) निष्कासनाय आह्वानं कुर्वन्तः सन्ति। एतदपि राजनीति-प्रकारः एव। सहमतित: परं केनापि दलेन निन्दायाः सङ्घर्षस्य च राजनीतिः न करणीया। तेषाम उद्देश्यं व्यवस्थायाः परिष्कार: न, अपितु व्यवस्थायाः अस्थिरीकरणम् प्रतीयते। अस्माभिः तेषां प्रयासाः सफलाः न भवितुं दातव्याः। अस्माभिः स्वराष्ट्रस्य स्वकीय-युवसन्ततय: च भविष्यस्य रक्षणं करणीयं भविष्यति।

 

शिक्षापरिष्काराणां सङ्कल्पः, व्यवस्थायाः च पुनरीक्षणस्य आह्वानम्

यदि वयं वास्तवतः भारतीय-शिक्षायाः भविष्यस्य प्रति गभीराः स्मः, तर्हि अस्माकं प्रतिक्रिया केवलं कस्यापि त्यागपत्रं यावत् सीमिता न भवेत्। अस्माभिः तादृश्याः शिक्षाव्यवस्थायाः निर्माणं करणीयं भविष्यति या अधिक-सुदृढा, अधिक-पारदर्शिका, अधिक-मानवीया तथा च भविष्यस्य आह्वानानां सम्मुखीकरणे अधिक-सक्षमा भवेत्। आगच्छन्तु, वयं स्वराष्ट्रं राष्ट्रविरोधि-शक्तीनाम् आक्रमणेभ्यः सुरक्षितां कुर्मः।

अहं प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः नेतृत्वयुक्तेन सर्वकारेण गृहीतानां तेषां सोपानानां प्रशंसां करोमि, येषु ते स्वकीय-वचनानुसारम् व्यक्तिगत-प्रतिष्ठायाः उपरि “राष्ट्रं प्रथमम्” इति स्थानं दत्तवन्तः। ते सम्पूर्णदेशस्य कृते एकम् अनुकरणीयम् उदाहरणं प्रस्तुतवन्तः सन्ति।

प्रो. श्रीनिवास वरखेडी

कुलपतिः, केन्द्रीय संस्कृत विश्वविद्यालयः, नवदिल्ली

You Might Also Like

काङ्गड़ा-जनपदस्य बोह-उपत्यकायां प्रभावितेभ्यः २५ परिवारेभ्यः गृह-निर्माणाय लप्स्यन्ते सार्ध-अष्ट-लक्ष-रूप्यकाणि – मुख्यमंत्री सुक्खुः

शिक्षक-दिवसात् पूर्वं नूतन-परिसर-प्रणाल्याम् भविष्यति निर्णयः, मुख्यमंत्रिण: सुक्खो: बृहती घोषणा

राष्ट्रमण्डल-क्रीडासु मीराबाई-चानू-वर्गायाः स्वर्णिमं प्रदर्शनम्

परीक्षा-परिष्काराय नन्दन-निलेकणि-महोदयस्य अध्यक्षतायां उच्च-स्तरीय-समित्याः गठनम्: प्रधानमन्त्री नरेन्द्रमोदी

‘मन की बात’ भारतं स्वस्य वैज्ञानिकीं प्राविधिकीं क्षमतां निरन्तरं वर्धयति-प्रधानमन्त्री

TAGGED: Central Sanskrit University, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, केन्द्रीय संस्कृत विश्वविद्यालय, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, श्रीनिवास वरखेड़ी, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article भारतीयज्ञानपरम्परायां संवादस्य भूमिका महत्त्वपूर्णा : विद्वज्जनानां मतम्
Next Article ‘विकसित-वाइब्रेंट-विलेज-कार्यक्रम-२०२६’ इत्यस्य सहभागिभिः सह प्रधानमन्त्रिणः संवादः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?