हिमाचले अधुना ‘द्वीप’-आनन्दः, प्रदेशस्य अस्मिन् मण्डले सज्जीभविष्यति परियोजना
हिमसंस्कृतवार्ता: — बिलासपुरम्।
हिमाचलप्रदेशस्य प्रथमा ‘द्वीप-पर्यटन-परियोजना’ (Island Tourism Project) बिलापुरमण्डलस्य गोविन्दसागर-सरसि स्थिते ज्योरीपत्तन-स्थाने आगामि-एकमासाभ्यन्तरे पर्यटकेभ्यः आरप्स्यते। अस्याः महत्त्वाकाङ्क्षि-परियोजनायाः माध्यमेन बिलासपुर-क्षेत्रं ‘इको-टूरिज्म’, ‘वॉटर-स्पोर्ट्स’, ‘एयरो-स्पोर्ट्स’ तथा च ‘एडवेंचर-टूरिज्म’ इत्येतेषां प्रमुखकेन्द्ररूपेण विकसितं करिष्यते।
इयं सूचना उपायुक्तः राहुलकुमारः शनिवासरे ‘सोसायटी फॉर टूरिज्म, स्पोर्ट्स, ट्रेड एण्ड एम्प्लॉयमेंट जेनरेशन’ इत्यस्याः समीक्षा-उपवेशनस्य अध्यक्षतां कुर्वन् अददत्। उपायुक्तेन उक्तं यत् द्वीप-पर्यटन-परियोजनायाः अन्तर्गतं गोविन्दसागर-सरसः मध्ये स्थिताः प्राकृतिकाः द्वीपाः विश्वस्तरीय-पर्यटनस्थलरूपेण विकस्यन्ते। अत्र पर्यटकानां कृते आधुनिका विश्रामदा च आवासव्यवस्था भविष्यति, यत्र ते प्राकृतिक-वातावरणे शान्तिमयं समयं यापयितुं शक्ष्यन्ति। पर्यटकेभ्यः अल्पाहारः, मध्याह्नभोजनं, रात्रिभोजनं च उपलप्स्यते, यस्मिन् स्थानीय-व्यञ्जनानि विशेषरूपेण समाविष्टानि करिष्यन्ते, येन ते बिलासपुरस्य समृद्ध-भोजनसंस्कृतेः अनुभवं कर्तुं शक्नुयुः। तेन प्रोक्तं यत् पर्यटकाः अत्र ‘प्री-वेडिंग-शूट्’, मत्स्यग्रहणम् (फिशिंग), स्थानीय-दर्शनीयस्थलानां भ्रमणं तथा च प्रकृतेः अङ्के विविधानां साहसिक-मनोरञ्जक-गतिविधिनाम् आनन्दं ग्रहीतुं शक्ष्यन्ति। स्थानीय-कलाकारैः लोकसङ्गीतं सांस्कृतिकाः कार्यक्रमाश्च अपि प्रस्तोष्यन्ते, येन पर्यटकाः हिमाचलस्य समृद्ध-लोकसंस्कृतेः परम्पराणां च परिचयं प्राप्स्यन्ति। स्थानीय-हस्तशिल्पस्य, कृषि-उत्पादानां तथा च अन्यासां पारम्परिक-वस्तूनां विक्रयाय अपि विशेषा व्यवस्था विधास्यते। अनेन स्वयंसहायता-समूहेभ्यः, स्थानीय-कलाकारेभ्यः, शिल्पकारेभ्यः, उद्यमिभ्यश्च स्वकीय-उत्पादान् साक्षात् पर्यटकान् यावत् प्रापयितुं अवसरः लप्स्यते।
इयं परियोजना स्थानीय-जीविकां, स्वाजीविकां, ग्रामीण-अर्थव्यवस्थां च नूतनां गतिं प्रदातुं महतीं भूमिकां निर्वक्ष्यति। तेन ज्ञापितं यत् बिलासपुरे गोविन्दसागर-सरसः प्रमुख-द्वीपाः ज्योरीपत्तनं, धररसानी, भोलू च अण्डमान-निकोबार-द्वीपसमूहस्य शैल्यां विकस्यन्ते। एष: हिमाचलप्रदेशस्य स्वकीये रूपे प्रथमा पर्यटन-प्रयास: भविष्यति, या राज्यस्य पर्यटनक्षेत्रे एकं नूतनम् अध्यायं योक्ष्यति। उपवेशने मण्डी-भराड़ी-क्षेत्रे प्रस्तावित-जलक्रीड़ा-गतिविधिनाम् (वॉटर-स्पोर्ट्स) अपि समीक्षा कृता। हितधारकै: जलक्रीड़ा-गतिविधिभिः सम्बद्धाः स्थानीयस्तरे समागच्छन्त्यः समस्याः ज्ञापिताः। उपायुक्तेन झण्डूता-क्षेत्रस्य उपमण्डलाधिकारी (SDM) जलक्रीड़ानां कृते उपयुक्तां भूमिं चिह्नितां कर्तुं निर्दिष्टः। साकमेव प्रोक्तं यत् अस्मिन् सन्दर्भे बी.बी.एम्.बी. (BBMB) इत्यस्य अधिकारिभिः सह पृथक् उपवेशनम् आयोज्य स्थायी-समाधानं सुनिश्चितं करिष्यते, येन पर्यटन-गतिविधिभ्यः प्रोत्साहनं ददतः उद्यमिनः कस्यापि प्रकारस्य कठिनतायाः सम्मुखीकरणं न कुर्युः।
