नीट्-प्रश्नपत्र-रहस्योद्घाटन-विवादस्य मध्ये हिमाचलस्य सर्वकारीय-विद्यालयेषु बृहत्-निर्णयः
हिमसंस्कृतवार्ता: — शिमला।
हिमाचलप्रदेशस्य सर्वकारीय-वरिष्ठ-माध्यमिक-विद्यालयेषु शिक्षाव्यवस्थां इतोऽपि पारदर्शिकां, उत्तरदायिनीं, तान्त्रिक-कौशल-आधारितां च विधातुं दिशि ‘स्कूल-शिक्षा-निदेशालयेन’ महत् पदं स्वीकृतम्। निदेशालयेन सर्वेषु सर्वकारीय-वरिष्ठ-माध्यमिक-विद्यालयेषु ‘ऑडियो-वीडियो’ युक्त-सी.सी.टी.वी. (CCTV) कैमेरा-यन्त्राणां संस्थापनम् अनिवार्यं विहितम्। साकमेव शिमला-मण्डलस्य षट्-सर्वकारीय-विद्यालयेभ्यः ‘ऑन-लाइन’ निरीक्षणस्य अर्थात् ‘वर्चुअल-इंस्पेक्शन’ इत्यस्य आरम्भः अपि कृतः। नूतन-व्यवस्थायाः अन्तर्गतं शिक्षा-निदेशकः अधुना निदेशालयात् एव कस्यापि विद्यालयस्य ‘सजीव- निरीक्षणं करोति, छात्राणां शिक्षकाणां च उपस्थित्या सह शिक्षण-गतिविधिषु अपि दृष्टिः रक्ष्यते।
प्रदेशस्य राजधान्याः शिमलायाः राजकीय-वरिष्ठ-माध्यमिक-विद्यालयेषु छोटा-शिमला, लक्कड़-बाजार, लालपानी, मशोबरा, पोर्टमोर, संजौली इत्येतेषु ‘ऑडियो-वीडियो’ सी.सी.टी.वी. कैमेरा-यन्त्राणि संस्थापितानि सन्ति। एतेषां सर्वेषां विद्यालयानां ‘लाइव-एक्सेस’ साक्षात् ‘स्कूल-शिक्षा-निदेशालयस्य’ पार्श्वे अस्ति। शिक्षा-मन्त्रिणा रोहितठाकुरेण आरब्धस्य ‘वर्चुअल-इंटरैक्शन’ (Virtual Interaction App) अनुप्रयोगस्य माध्यमेन एतेषां विद्यालयानां ‘ऑन-लाइन’ निरीक्षणं क्रियते, विभागस्य अनुसारम् अस्याः प्रणाल्याः सर्वाणि परीक्षणानि (Trials) सफलानि अभवन्। नूतनव्यवस्थायाः अन्तर्गतं कक्षासु, कर्मचारी-कक्षेषु (Staff Room), विद्यालय-परिसरेषु अन्येषु च प्रमुखेषु स्थानेषु लग्नानां कैमेरा-यन्त्राणां ‘लाइव-फीड’ साक्षात् निदेशालयं प्राप्स्यति। अनेन अध्ययनस्य, अनुशासनस्य, शिक्षकाणां छात्राणां च उपस्थित्याः, विद्यालयानां कार्यप्रणाल्याश्च नियमित-निरीक्षणं सम्भविष्यति। विभागस्य मतम् अस्ति यत् अनेन शिक्षाव्यवस्थायां पारदर्शिता वर्धिष्यते उत्तरदायित्वं च सुनिश्चितं भविष्यति।
परीक्षा-केन्द्राणां स्वीकृति-प्राप्तौ सी.सी.टी.वी. अनिवार्यम्
‘विद्यालयीय-शिक्षा-निदेशालयेन’ स्पष्टीकृतं यत् येषु वरिष्ठ-माध्यमिक-विद्यालयेषु निर्धारितानां मानकानाम् अनुसारं ‘ऑडियो-वीडियो’ सी.सी.टी.वी. कैमेरा-यन्त्राणि न संस्थापयिष्यन्ते, तेभ्यः बोर्ड-परीक्षाणां परीक्षा-केन्द्ररूपेण स्वीकृति: न प्रदास्यते। अस्य निर्णयस्य उद्देश्यं परीक्षा-प्रणालीं पूर्णतया पारदर्शिकाम, निष्पक्षां, छद्मलेखन-मुक्तां (नकल-मुक्त) च विधातुम् अस्ति। प्रदेशे वर्तमान-समये प्रायः १,९५० सर्वकारीयाः वरिष्ठ-माध्यमिकाः विद्यालयाः सञ्चालिताः सन्ति। निदेशालयस्य लक्ष्यं वर्तते यत् चरणबद्ध-रूपेण सर्वान् विद्यालयान अस्मिन् ‘ऑन-लाइन’ निरीक्षण-प्रणाल्या सह योजनीयम्। अस्य कृते सर्वैः मण्डल-उपनिदेशकैः १५ दिनानाम् अभ्यन्तरे अनुपालन-प्रतिवेदनं (Compliance Report) याचितम्, यदा च सर्वे प्रधानाचार्याः निर्दिष्टाः यत् विद्यालयेषु संस्थापितानां सी.सी.टी.वी. यन्त्राणां ‘लाइव-एक्सेस’ साक्षात् स्कूल-शिक्षा-निदेशालयेन सह योजनीयम्।
