HP NEWS – निजी-विद्यालयेषु गणवेश-टाई-उपानहानां विक्रये कृते निरंस्यते मान्यता, शिक्षा-निदेशालयेन प्रसारिताः आदेशाः
हिमसंस्कृतवार्ता: — शिमला।
हिमाचलप्रदेशे विद्यालयीय-शिक्षा-निदेशालयेन निजी-विद्यालयान् प्रति स्पष्टः सन्देशः दत्तः यत् शिक्षणं कुर्वन्तु, व्यापारं न। निदेशालयेन सर्वान् मण्डल-उपनिदेशकान् निर्देशान् प्रसार्य निजी-विद्यालयेषु गणवेश (वर्दी), टाई, पट्टिका (बेल्ट), लाञ्छन (बैज) उपानह (जूते) सदृशानाम् वस्तूनां विक्रये सद्यः रोधं सुनिश्चितं कर्तुं कथितम्। नियमानाम् अवहेलनां कुर्वतां विद्यालयानां विरुद्धं कठोरा कार्यविधि: विधास्यते आवश्यकतायां सत्यां तेषां मान्यता अनुमतिः वा अपि निरस्तीकर्तुं शक्यते। शिक्षा-निदेशालयेन प्रसारितेषु आदेशेषु स्पष्टीकृतं यत् विद्यालय-परिसरे व्यावसायिक-गतिविधीनाम् अनुमतिः दातुं न शक्यते। हिमाचलप्रदेश-स्कूल-शिक्षा-बोर्डस्य सम्बद्धता-नियम १६.३.१२ (ए) इत्यस्य अन्तर्गतं बोर्डेन निर्धारितानां पाठ्यपुस्तकानां प्रायोगिक-पुस्तकानां च विक्रयः व्यावसायिक-गतिविधेः श्रेण्यां न रक्षितः, परन्तु गणवेशस्य अन्यासाम् विद्यालय-सामग्रीणां च विक्रयः पूर्णतया व्यावसायिक-गतिविधिः परिगणिष्यते।
प्रदेशे सुदीर्घकालात् निजी-विद्यालयैः निर्धारितेभ्यः आपणेभ्यः (दुकानों से) एव गणवेशस्य अन्य-सामग्र्याः च क्रयणस्य प्रभाव-सन्दर्भे उपालम्भा: सम्मुखम् आगच्छन्त्यः आसन्। बहुषु प्रकरणेषु अभिभावकाः विपणि-दरात् (मार्केट रेट से) अधिक-मूल्येन वस्तूनि क्रेतुं विवशाः भवन्ति स्म। शिक्षा-निदेशालयस्य मतम् अस्ति यत् अस्याः व्यवस्थायाः अभिभावकेषु अनावश्यकः आर्थिकभारः पतति। निदेशालयेन स्पष्टीकृतं यत् कस्यापि निजी-विद्यालयस्य परिसरे गणवेश-टाई-पट्टिका-लाञ्छन-उपानहानां वा अन्य-व्यावसायिक-वस्तूनां विक्रये कृते सति एतत् नियमानाम् उल्लङ्घनं परिगणिष्यते सम्बद्ध-विद्यालयस्य विरुद्धं च कार्यविधि: विधास्यते।
पूर्वम् अपि प्रसारिताः सन्ति निर्देशाः
निदेशालयेन सचेतना दत्ता यत् भविष्ये यदि अस्मिन् सन्दर्भे किमपि उपालम्भ: सत्या प्राप्स्यते तर्हि सम्बद्ध-विद्यालयस्य अनुमति-प्रमाणपत्रम् अपि निरस्तीकर्तुं शक्यते, यस्य सम्पूर्णं उत्तरदायित्वं विद्यालय-प्रबन्धनस्य भविष्यति। निदेशालयेन ज्ञापितं यत् अस्मिन् सन्दर्भे २७ जनवरी तथा च २७ फरवरी २०२६ दिनाङ्के अपि निर्देशाः प्रसारिताः सन्ति। एतदतिरिच्य हिमाचलप्रदेश-स्कूल-शिक्षा-बोर्ड-धर्मशालायाः सचिवेन १० फरवरी २०२६ दिनाङ्के प्रेषितस्य पत्रस्य आधारेण अपि विद्यालयाः नियमानां सूचनां प्रापिताः आसन्।
