By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: मानसूने मण्डलप्रशासनं तीव्रसतर्कतायां स्थापयितुं निर्देशाः, मुख्यसचिवः अधिकारिभिः सह कृतवान् उपवेशनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > मानसूने मण्डलप्रशासनं तीव्रसतर्कतायां स्थापयितुं निर्देशाः, मुख्यसचिवः अधिकारिभिः सह कृतवान् उपवेशनम्
हिमाचलवार्ता

मानसूने मण्डलप्रशासनं तीव्रसतर्कतायां स्थापयितुं निर्देशाः, मुख्यसचिवः अधिकारिभिः सह कृतवान् उपवेशनम्

डॉ मनोज शैल
Last updated: 2026/07/22 at 9:37 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

मानसूने मण्डलप्रशासनं तीव्रसतर्कतायां स्थापयितुं निर्देशाः, मुख्यसचिवः अधिकारिभिः सह कृतवान् उपवेशनम्

हिमसंस्कृतवार्ता: – शिमला।

मुख्यसचिवेन के.के. पन्तेन सर्वे उपायुक्ताः मानसून-ऋतोः कारणात् उच्चस्तरीयसज्जतां स्थापयितुं निर्दिष्टाः। तेन अतिवृष्टिः, अकस्मात् प्लावनम् (बाढ़), भूस्खलनं वा मेघविस्फोटसदृश्याः कस्याश्चिद् अपि आपत्स्थितेः सद्यः प्रतिक्रिया सुनिश्चितं कर्तुं कथितम्। तेन मण्डलप्रशासनानि तीव्रसतर्कतायां स्थापयितुं बलमददात्। संवेदनशीलानां स्थानानां सूक्ष्मतापूर्वकं निरीक्षणं कर्तुं राज्येन तथा सर्वैः सम्बद्धविभागैः सह सामञ्जस्यं स्थापयितुं च प्रोक्तम्।

हिमाचलप्रदेशे मानसूनस्य वर्तमानस्थितेः समीक्षायै मुख्यसचिवस्य कमलेशकुमारपन्तस्य अध्यक्षतायाम् एकम् उच्चस्तरीयोपवेशनम् आयोजितम्। इयं गोष्ठी शिमलास्थितात् हिमाचलप्रदेशसचिवालायात् आभासीयमाध्यमेन (वर्चुअल माध्यम से) आयोजिता अभवत्। अस्मिन् प्रदेशस्य सर्वे उपायुक्ताः सम्प्रवृत्ताः।

उपवेशनस्य अवधौ मुख्यसचिवेन राज्ये मानसूनस्य समग्रस्थितेः समीक्षा कृता। मुख्यसचिवः वृष्टिजन्यघटनानां, आश्रयकार्याणां तथा आवश्यकीनां सेवानां पुनश्चालनस्य स्थितेः विस्तृतां समीक्षाम् अकरोत्। तेन मार्गसम्पर्कः, विद्युत्-पेयजल-आपूर्तिभिः सह मण्डलप्रशासनानां सज्जनानाम् अपि विस्तृतं विवरणं गृहीतम्। उपायुक्ताः स्व-स्व-जनपदानां वर्तमानस्थितेः सूचनां दत्तवन्तः। ते मानसून-सम्बन्धि-आपदां प्रभावं न्यूनीकर्तुं क्रियमाणानाम् उपयानाम् अपि परिचयं कारितवन्तः। एतदतिरिच्य, अन्येषां मानसून-सम्बन्धि-घटनानां निवारणाय अपि सज्जतायां बलम् अददात्।

मुख्यसचिवेन उपायुक्ताः बाधितानाम् आवश्यकीनां सेवानां समये पुनश्चालनं सुनिश्चितं कर्तुं निर्दिष्टाः। एतेषु मार्गाः, विद्युत्, पेयजल-आपूर्तिः तथा सञ्चार-जालं (संचार नेटवर्क) सम्प्रवृत्ताः सन्ति। तेन ऋतु-पूर्वानुमानानां तथा सार्वजनिक-परामर्शानां समये प्रसारणे अपि बलम् अददात्। तेन उक्तं यत् अस्य उद्देश्यं जनजागरूकतां वर्धयितुं तथा जनधनस्य संकटं न्यूनीकर्तुं वर्तते। राज्यसर्वकारः जनसुरक्षां सुनिश्चितं कर्तुं पूर्णतया कटिबद्धः अस्ति। सः मानसून-सम्बन्धि-आपदां प्रभावं न्यूनीकर्तुं प्रयतते। इदं सर्वेषां विभागानां मण्डलप्रशासनानां च समन्वितप्रयासैः भविष्यति। सर्वकारस्य लक्ष्यं जनधनस्य हानिं न्यूनातिन्यूनं स्थापयितुमस्ति।

You Might Also Like

नीट-प्रकरणे कठोरा कार्यविधि: अभवत्, हिमाचलसर्वकारेण प्रश्नपत्र-प्रकटनस्य दोषिणः पुरस्कृताः – जयरामठाकुरः

नीट-विषये (NEET) केन्द्रसर्वकारः चर्चायै सज्जः, विरोधाभासे विपक्षे दृश्यते भेदः

HP NEWS – निर्धनपरिवारेभ्यः ३०० यूनिट् परिमिता निःशुल्का विद्युत् प्राप्स्यते

होर्मुज-स्ट्रेट (Strait of Hormuz) क्षेत्रे प्राणांस्त्यक्तवतः आदित्यशर्मणः परिजनैः मुख्यमंत्रिणा सह मेलनम्, न्यायस्य याचना कृता

KANGRA NEWS – भाजपादलस्य सीमादेवी काङ्गड़ाजिलापरिषदः अध्यक्षा, अभिमन्युकँवरः च उपाध्यक्षः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article बालभारती पब्लिकविद्यालये भारत-स्काउट्स-गाइड्स तथा कनिष्ठ-रक्त-क्रॉस-इकायोः भव्योद्घाटनम्
Next Article HP NEWS – निर्धनपरिवारेभ्यः ३०० यूनिट् परिमिता निःशुल्का विद्युत् प्राप्स्यते
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?