By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP HIGH COURT – द्वितीया पत्नी अपि पारिवारिक-पेंशन-लाभस्य अधिकारिणी, उच्चन्यायालये सर्वकारस्य याचिका निरस्ता
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP HIGH COURT – द्वितीया पत्नी अपि पारिवारिक-पेंशन-लाभस्य अधिकारिणी, उच्चन्यायालये सर्वकारस्य याचिका निरस्ता
हिमाचलवार्ता

HP HIGH COURT – द्वितीया पत्नी अपि पारिवारिक-पेंशन-लाभस्य अधिकारिणी, उच्चन्यायालये सर्वकारस्य याचिका निरस्ता

डॉ मनोज शैल
Last updated: 2026/07/20 at 9:15 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HP HIGH COURT – द्वितीया पत्नी अपि पारिवारिक-पेंशन-लाभस्य अधिकारिणी, उच्चन्यायालये सर्वकारस्य याचिका निरस्ता

 

हिमसंस्कृतवार्ता: — शिमला ।

हिमाचलप्रदेश-उच्चन्यायालयेन पारिवारिक-पेंशन विषये एकः महत्त्वपूर्णः निर्णयः प्रदत्तः। न्यायालयेन प्रतिपादितं यत् विशेष-परिस्थितिषु एकस्य सर्वकारीय-कर्मचारिणः द्वितीया पत्नी अपि पारिवारिक-पेंशनं प्राप्तुम् अधिकारिणी वर्तते। मुख्यन्यायाधीशस्य गुरमीतसिंहसन्धावालिया महोदयस्य तथा च न्यायाधीशस्य बिपिनचन्द्रनेगी महोदयस्य खण्डपीठेन राज्यसर्वकारस्य याचिकां निरस्तीकृत्य एकल-न्यायाधीशस्य (Single Judge) तस्य निर्णयस्य पुष्टीकरणं विहितं, यस्मिन् याचिकाकर्त्र्यै उर्मिलादेव्यै पारिवारिक-पेंशनं प्रदातुम् आदेशाः दत्ताः आसन्।

 

महिलानां वास्तविक-सशक्तीकरणाय तासाम् आर्थिक-आत्मनिर्भरता अनिवार्या – उच्चन्यायालयः

खण्डपीठेन पेंशन-नियमानां केवलं तान्त्रिक-व्याख्या-करणस्य प्रवृत्तौ तीव्रा आपत्तिः प्रकटीकृता। न्यायालयेन प्रोक्तं यत् यदा विषयः पेंशन-सदृशानां सामाजिक-कल्याणकारी-लाभानां भवति, तदा अधिकारिभिः न्यायालयैश्च एकः संवेदनशीलः सकारात्मकश्च दृष्टिकोणः आश्रयणीयः। महिलानां वास्तविक-सशक्तीकरणाय तासाम् आर्थिकरूपेण आत्मनिर्भरता अनिवार्या वर्तते। सर्वोच्चन्यायालयस्य (Supreme Court) ऐतिहासिक-निर्णयानां सन्दर्भं ददता खण्डपीठेन स्पष्टीकृतं यत् ‘हिन्दू विवाह अधिनियम १९५५’ इत्यस्य अन्तर्गतं यद्यपि प्रथमपत्न्याः जीवनावधौ विहितः द्वितीयविवाहः विधिकरूपेण शून्यः (अवैधः) भवितुं शक्नोति, तथापि एषः अनैतिकः इति वक्तुं न शक्यते।

 

असहायायाः महिलायाः आश्रयहीनतायाः रक्षणम् एव पारिवारिक-पेंशनस्य मुख्यमुद्देश्यम्

न्यायालयेन स्पष्टशब्देषु कथितं यत् पारिवारिक-पेंशन-प्रदानस्य उद्देश्यं समाजस्य आर्थिकरूपेण दुर्बलस्य आश्रितस्य च जनस्य कृते जीवनवृत्त्याः (गुज़ारा भत्ता) उद्देश्यात् भिन्नं नास्ति। अस्य मुख्यमुद्देश्यं कस्याश्चित् असहायायाः महिलायाः आश्रयहीनतायाः (बेसहारा होने से) रक्षणं वर्तते। न्यायालयेन स्वीकृतं यत् यदि द्वौ पक्षौ सुदीर्घकालं यावत् पति-पत्नी इव एकत्र निवसतः, तर्हि विधिकरूपेण तयोः विवाहस्य वैधतायाः पक्षे एकं दृढम् अनुमानम् उत्पद्यते।

सर्वकारेण एकल-न्यायाधीशस्य निर्णयः आह्वानास्पदः कृतः आसीत्

न्यायालयः अमन्यत यत् अस्मिन् प्रकरणे द्वितीयविवाहात् जाताः पुत्राः अपि अधुना वयस्काः संजाताः, प्रथमपत्न्याश्च कापि सन्ततिः नासीत्, येन कस्यापि अन्यपक्षस्य अधिकाराणां हननं न भवति स्म। उल्लेखनीयं वर्तते यत् राज्यसर्वकारेण एकल-न्यायाधीशस्य तस्य निर्णयस्य कृते आह्वानं (चुनौती) दत्तम् आसीत्, यस्मिन् उर्मिलादेव्याः पक्षे पेंशन-वितरणस्य आदेशः आसीत्।

निश्चितसमये अवशिष्टधनाप्रदाने प्रतिवर्षं षट्प्रतिशतं (6%) व्याजम् अपि दातव्यं भविष्यति

अनेन सह, निश्चित-समयसीमाभ्यन्तरे अवशिष्टधनस्य (बकाया राशि) अप्रदाने सर्वकारेण प्रतिवर्षं षट्प्रतिशतं (६%) दरेण व्याजम् अपि देयं भविष्यति। सर्वकारस्य तर्कः आसीत् यत् कर्मचारिणः द्वितीयविवाहः वर्षे १९८७ मध्ये तस्य प्रथमपत्न्याः (रेशमूदेव्याः) जीवनावधौ अभवत्। अतः, ‘केन्द्रीय सिविल सेवा (पेंशन) नियम १९७२’ इत्यस्य अन्तर्गतम् अस्य द्वितीयविवाहस्य मान्यता न दातुं शक्यते तस्याः आवेदनस्य निरस्तीकरणं च न्यायसङ्गतम् आसीत्।

You Might Also Like

होर्मुज-स्ट्रेट (Strait of Hormuz) क्षेत्रे प्राणांस्त्यक्तवतः आदित्यशर्मणः परिजनैः मुख्यमंत्रिणा सह मेलनम्, न्यायस्य याचना कृता

KANGRA NEWS – भाजपादलस्य सीमादेवी काङ्गड़ाजिलापरिषदः अध्यक्षा, अभिमन्युकँवरः च उपाध्यक्षः

भारतं लब्धवान् स्वकीयं प्रथमं डेंगु-सूच्यौषधम्, डी.सी.जी.आई. संस्थायाः स्वीकृति:, ४ तः ६० वर्षपर्यन्ताः जनाः ग्रहीतुं शक्ष्यन्ति मात्राम्

HP CABINET DECISIONS – हिमाचल-मन्त्रिमण्डलस्य उपवेशने बहवः प्रमुखाः निर्णयाः, स्वास्थ्य-शिक्षा-जीविका-क्षेत्रेषु सर्वकारस्य महत्यः उद्घोषणाः

आकस्मिक-जलप्लावेन (फ्लैश फ्लड) मलिनावशेषेण च उत्पन्ने सङ्कटे हिमाचल-उच्चन्यायालयः दृढः, किन्नौर-मण्डलस्य उपायुक्तः वैयक्तिकरूपेण न्यायालयं प्रति आक्षिप्तः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, High court, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP High Court, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल उच्च न्यायालय, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP CABINET DECISIONS – हिमाचल-मन्त्रिमण्डलस्य उपवेशने बहवः प्रमुखाः निर्णयाः, स्वास्थ्य-शिक्षा-जीविका-क्षेत्रेषु सर्वकारस्य महत्यः उद्घोषणाः
Next Article भारतं लब्धवान् स्वकीयं प्रथमं डेंगु-सूच्यौषधम्, डी.सी.जी.आई. संस्थायाः स्वीकृति:, ४ तः ६० वर्षपर्यन्ताः जनाः ग्रहीतुं शक्ष्यन्ति मात्राम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?