By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP CABINET DECISIONS – हिमाचल-मन्त्रिमण्डलस्य उपवेशने बहवः प्रमुखाः निर्णयाः, स्वास्थ्य-शिक्षा-जीविका-क्षेत्रेषु सर्वकारस्य महत्यः उद्घोषणाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP CABINET DECISIONS – हिमाचल-मन्त्रिमण्डलस्य उपवेशने बहवः प्रमुखाः निर्णयाः, स्वास्थ्य-शिक्षा-जीविका-क्षेत्रेषु सर्वकारस्य महत्यः उद्घोषणाः
हिमाचलवार्ता

HP CABINET DECISIONS – हिमाचल-मन्त्रिमण्डलस्य उपवेशने बहवः प्रमुखाः निर्णयाः, स्वास्थ्य-शिक्षा-जीविका-क्षेत्रेषु सर्वकारस्य महत्यः उद्घोषणाः

डॉ मनोज शैल
Last updated: 2026/07/20 at 9:10 PM
डॉ मनोज शैल
Share
4 Min Read
SHARE

HP CABINET DECISIONS – हिमाचल-मन्त्रिमण्डलस्य उपवेशने बहवः प्रमुखाः निर्णयाः, स्वास्थ्य-शिक्षा-जीविका-क्षेत्रेषु सर्वकारस्य महत्यः उद्घोषणाः

हिमसंस्कृतवार्ता: — शिमला ।

हिमाचलप्रदेशमन्त्रिमण्डलस्य उपवेशनं सोमवासरे मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खू महोदयस्य अध्यक्षतायाम् अभवत्, यस्मिन् जनहिताय बहवः प्रमुखाः निर्णयाः गृहीताः। मन्त्रिमण्डलेन चिकित्सा-शिक्षा-अनुसन्धानविभागे कार्यरत-सुपर-स्पेशलिटी-सङ्कायसदस्येभ्यः (DM, MCh, DRNB) ‘नॉन-प्रैक्टिसिंग अलाउंस’ (NPA) प्रदातुं निर्णयः विहितः। साकमेव चिकित्सा-विभागे पी.जी. (PG) छात्राणां मासिक-वृत्तिकायां (Stipend) महती वृद्धिः कृता। नूतनानुसारं प्रथमवर्षस्य छात्रेभ्यः ४०,००० स्थाने ५०,००० रूप्यकाणि, द्वितीयवर्षस्य छात्रेभ्यः ४५,००० स्थाने ६०,००० रूप्यकाणि तथा च तृतीयवर्षस्य छात्रेभ्यः ५०,००० स्थाने ६५,००० रूप्यकाणि प्रतिमासं प्राप्स्यन्ते।

 

शिक्षकेभ्यः नकद-पुरस्कार-राशौ वृद्धिः

मन्त्रिमण्डलेन शिक्षकपुरस्कारनीतेः अन्तर्गतं राष्ट्रिय-राज्य-पुरस्कारप्राप्तशिक्षकाणां नकद-राशौ उल्लेखनीयः विस्तारः विहितः। अधुना राष्ट्रियपुरस्कारप्राप्तशिक्षकाय ६०,००० स्थाने १.५० लक्षरूप्यकाणि, राज्यपुरस्कारप्राप्तशिक्षकाय च ४०,००० स्थाने एकलक्षं रूप्यकाणि नकदत्वेन प्रदास्यन्ते। परं पुरस्कारप्राप्तकर्मचारिभ्यः सेवाविस्तारः (Service Extension) न प्रदीयेत।

 

आशाकार्यकर्त्रीणां, नम्बरदाराणां, प्रतिहारीणां च मानदेये वृद्धि:

उपवेशने नम्बरदाराणां मासिकमानदेयं ५०० रूप्यकाणि वर्धयित्वा ५,००० रूप्यकाणि कृतम्। स्वास्थ्यसेवानां सुदृढीकरणाय आशाकार्यकर्त्रीणां मासिकमानदेयं १ अप्रैल २०२६ दिनाङ्कात् ५,८०० रूप्यकेभ्यः वर्धयित्वा ६,८०० रूप्यकाणि विहितम्। साकमेव १२ वर्षाणि यावत् निरन्तरसेवा पूरितवन्तः अंशकालिकाः (Part-time) पञ्चायत-प्रतिहारिण: अधुना दैनिकवेतनभोगिरूपेण (Daily wagers) परिगणिष्यन्ते।

 

आयुर्विज्ञानमहाविद्यालयानाम् आसन-सङ्ख्यासु संशोधनम् नीतिश्च

मन्त्रिमण्डलेन आईजीएमसी (IGMC) शिमला तथा च टाण्डामहाविद्यालये बी.एससी. मेडिकल टेक्नोलॉजी (रेडियोथेरेपी) पाठ्यक्रमेभ्यः प्रतिवर्षं ३०-३० आसनानि (Seats) निर्धारितानि। पी.जी./एस.एस. नीतौ संशोधनानुसारं, पी.जी. पदवीधर-जीडीओ (GDO) तथा साक्षात्-अभ्यर्थिनः यदि चमियाना-संस्थाने अथवा आईजीएमसीं विहाय अन्यमहाविद्यालयेषु रेडियोडायग्नोसिस क्षेत्रे सेवां यच्छन्ति, तर्हि ते अनिवार्य-क्षेत्रीय-नियोजनात् (Field Posting) मुक्तिं लप्स्यन्ते। हमीरपुरस्य नादौन-धनेटा क्षेत्रे ७५ एकडभूमौ ‘अखिलभारतीय आयुर्वेद संस्थानम्’ स्थापयिष्यते।

 

लोकनिर्माणविभागस्य कनिष्ठ-अभियन्तॄणां (JE) कृते विशेषवृत्ति: मार्गसुरक्षानीतिश्च

लोकनिर्माणविभागे कार्यरतेभ्यः प्रायः ९०० क्षेत्रकनिष्ठ-अभियन्तॄभ्यः कार्य-लेखा-प्रबन्धनस्य प्रभावी-सञ्चालनाय १,००० रूप्यकाणां विशेषवृत्ति: स्वीकृता। बिलासपुरस्य लोकनिर्माणविभाग-मण्डल-२ इत्यस्य कार्यालयः ‘जगातखाना’ क्षेत्रे स्थानान्तरितः। प्रदेशे मार्गेषु दुर्घटनानां संकटं न्यूनीकर्तुं ‘सड़क सुरक्षा ऑडिट नीति’ अनुमोदिता। नादौन-क्रीडाकेन्द्राय १२.८९ कोटिरूप्यकाणाम् उपकरणानां क्रयणं स्वीकृतम्।

 

सहस्रशः नूतनपदानां सृजनं पूरणं च

प्रशासनेन ग्रामपञ्चायतेषु ४०० मल्टी-टास्क वर्कर् (Multi-Task Workers) पदानां, नादौन-एक्वा-पार्के १५ पदानां, शिक्षाविभागे २०० जूनियर ऑफिस असिस्टेंट (Library) पदानां, तथा च ग्रामपञ्चायतेषु २८० जॉब ट्रेनी टेक्निकल असिस्टेंट पदानां नियुक्तिं प्रति स्वीकृति: प्रदत्ता। नूरपुरमण्डले आरक्षि-लायन्स् कृते १०२ पदानां, तथा च १९७५ सर्वकारीय-वरिष्ठ-माध्यमिक-विद्यालयेषु ३९५० प्रहरी-मल्टीटास्क कर्मचारिणां नियोजनं भविष्यति।

 

चिकित्सा-मत्स्य-न्यायविभागेषु अपि नियुक्तयः

हमीरपुर-क्रीडाकेन्द्राय ४८ पदानां, लघुबचतविभागे १० पदानां, पञ्चायतीराजविभागे ६ लेखापरीक्षकाणां (Auditor), ९ जेओए-आईटी (JOA-IT) च पदानां स्वीकृतिः दत्ता। आईजीएमसी, चमियाना तथा च हमीरपुर-मण्डी-चम्बा-नाहनम् चिकित्सालयेषु डायलिसिस-तकनीशियन्-पदानां सृजनं भविष्यति। टाण्डायां गैस्ट्रोइंटेस्टाइनल-शल्यक्रियाविभागे २ सहायक-प्राध्यापकपदां, मत्स्यविभागे १० पदां, जुब्बल-क्रीडाविद्यालये ५ पदां, योजनाविभागे ६ पदां च स्वीकृतिः प्रत्ता। शिमला, मण्डी, धर्मशाला, ऊना क्षेत्रेषु स्थायी लोक-न्यायालयानां स्थापनाय ४ अध्यक्षाणां, ८ सदस्यानां १६ अन्यानां च पदानां सृजनं विहितम्।

 

आरक्षिकाणां (Police Constable) नियुक्तिप्रक्रियायां वयसि शमनम्

आरक्षिविभागे (Police Department) ८०० कान्स्टेबल्-पदानां नियुक्तये आवेदकेभ्यः अधिकतम-आयुसीमायां वर्षैकस्य (१ वर्षस्य) विशेषशमनं (छूट) प्रदत्तम्। राजीवगान्धी स्वरोजगार योजनायाः ई-टैक्सी घटके अधिकतम-आयुः ४५ तः ५० वर्षाणि कृता। रोगी कल्याणसमितिभ्यः नैदानिकपरीक्षणानाम् आयस्य ५० प्रतिशतं भागं स्वच्छतायै रासायनिकपदार्थानां क्रयणाय च व्ययकर्तुम् अधिकारः दत्तः।

 

धीवराणां (मछुआरों) कृते सम्माननिधिः योजनाश्च

वित्तीयवर्षे २०२६-२७ मध्ये डी.बी.टी. (DBT) माध्यमेन धीवरेभ्यः ७० प्रतिशतं अनुदानेन नौकानां वितरणं, ९० प्रतिशतं अनुदानेन मत्स्यजाल-उपकरणानां च वितरणं स्वीकृतम्। शीतगृह (Cold Storage) तथा च शीतवाहनसंस्थापनाय ७० प्रतिशतं अनुदानं दास्यते। धीवरपरिवारेभ्यः प्रतिबंधित-ऋतौ ३,५०० रूप्यकाणां साहाय्यार्थं ‘मुख्यमंत्री मछुआरा सम्मान निधि योजना’ आरप्स्यते।

 

बालपोषणाय मिड-डे-मील योजनायां संशोधनम्

‘मुख्यमंत्री बाल पौष्टिक आहार योजना’ इत्यस्यां संशोधनेन अधुना सर्वकारीविद्यालयानां नर्सरीतः अष्टमी कक्षां यावत् छात्रेभ्यः माध्याह्नभोजने (Mid-day meal) सप्ताहे वारद्वयं पक्वं कुक्कुटाण्डं (उबला अंडा) अथवा ऋतुफलानि प्रदास्यन्ते। वार-जागीर-अनुदानं ७,००० तः १०,००० रूप्यकाणि कृतम्। फोजल-जलविद्युत्-परियोजनायाः क्षमता ९ मेगावाट्तः १६ मेगावाट् कृता। शिमला-जाठियादेवी माउंटेन सिटी विकासाय अनुमतिः प्राप्ता।

 

सी.बी.एस.ई. उपसमित्याः संस्तुतीनां स्वीकृत:, विकासनगरे वाणिज्यिकपरिसरश्च

काङ्गड़ा-बड़ोह क्षेत्रे अग्निशमनकेन्द्रस्य संस्थापनं, गलोड़-आरक्षिकेन्द्रे ५ नूतनपदानां सृजनं, तथा च मनाली-पर्वतारोहणसंस्थाने ४ प्रशिक्षकपदानां पूरणं स्वीकृतम्। सी.बी.एस.ई. (CBSE) विद्यालयेभ्यः मन्त्रिमण्डल-उपसमित्याः संस्तुतयः कतिपयसंशोधनैः सह स्वीकृताः। शिमलायाः विकासनगरे पी.पी.पी. (PPP) आधारेण एकः बहुउद्देशीय-वाणिज्यिक-परिसरः (Commercial Complex) निर्मास्यते। टाण्डा, मण्डी, ऊना, घवाण्डल तथा च चमियाना चिकित्सालयेषु ५ क्रिटिकल-केयर-ब्लॉक् कृते उपकरणानां क्रयणं स्वीकृतम्।

You Might Also Like

होर्मुज-स्ट्रेट (Strait of Hormuz) क्षेत्रे प्राणांस्त्यक्तवतः आदित्यशर्मणः परिजनैः मुख्यमंत्रिणा सह मेलनम्, न्यायस्य याचना कृता

KANGRA NEWS – भाजपादलस्य सीमादेवी काङ्गड़ाजिलापरिषदः अध्यक्षा, अभिमन्युकँवरः च उपाध्यक्षः

भारतं लब्धवान् स्वकीयं प्रथमं डेंगु-सूच्यौषधम्, डी.सी.जी.आई. संस्थायाः स्वीकृति:, ४ तः ६० वर्षपर्यन्ताः जनाः ग्रहीतुं शक्ष्यन्ति मात्राम्

HP HIGH COURT – द्वितीया पत्नी अपि पारिवारिक-पेंशन-लाभस्य अधिकारिणी, उच्चन्यायालये सर्वकारस्य याचिका निरस्ता

आकस्मिक-जलप्लावेन (फ्लैश फ्लड) मलिनावशेषेण च उत्पन्ने सङ्कटे हिमाचल-उच्चन्यायालयः दृढः, किन्नौर-मण्डलस्य उपायुक्तः वैयक्तिकरूपेण न्यायालयं प्रति आक्षिप्तः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article भारतस्य प्रथमं निज-विकसितं कक्षीयान्तरिक्ष यानं विक्रम-प्रथमं अन्तिम-प्रणोदन-प्रक्रियां सम्पूर्य कक्षायां उपग्रहान् सफलरूपेण प्रवेश्य स्वकक्षां प्राप्नोत्
Next Article HP HIGH COURT – द्वितीया पत्नी अपि पारिवारिक-पेंशन-लाभस्य अधिकारिणी, उच्चन्यायालये सर्वकारस्य याचिका निरस्ता
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?