भारतस्य प्रथमं निज-विकसितं कक्षीयान्तरिक्ष यानं विक्रम-प्रथमं अन्तिम-प्रणोदन-प्रक्रियां सम्पूर्य कक्षायां उपग्रहान् सफलरूपेण प्रवेश्य स्वकक्षां प्राप्नोत् ।
हिमसंस्कृतवार्ता। भारतस्य प्रथमं निज-विकसितं कक्षीयान्तरिक्ष यानं विक्रम-प्रथमं अन्तिम-प्रणोदन-प्रक्रियां सम्पूर्य कक्षायां उपग्रहान् सफलरूपेण प्रवेश्य स्वकक्षां प्राप्नोत् । अस्य यानस्य प्रक्षेपणं गतदिवसे मध्याह्ने पञ्चाधिक-द्वादशवादने आन्ध्रप्रदेशस्य श्रीहरिकोटायाः सतीश धवन अन्तरिक्ष-केन्द्रात् समजायत् । अनेन ऐतिहासिक पदक्षेपेण भारतं निज-कक्षा-प्रक्षेपण-क्षमतां प्राप्तवत्सु विश्वस्य देशेषु तृतीयान्यतमो सञ्जातः । मिशन-आगमन इत्याख्येन अभियानेन विकसितं एतत् अन्तरिक्ष-यानं लघु-उपग्रहाणां कृते अल्पव्यययुक्तं प्रक्षेपण-सेवायै वर्तते। भारतीयान्तरिक्ष-उपक्रमस्य जनकः डॉ. विक्रम साराभाई इत्याख्यस्य नाम्ना व्यपदिष्टस्य अस्य विक्रम-1 यानस्य रचनायां त्रि-स्तरीय-दृढ-प्रणोदक-चरणानि सहैव अमोघ-कक्षा-प्रवेशाय रमन इत्याख्यः द्रवेन्धन-गन्त्रं प्रयुक्तमस्ति । इदं यानम् उपग्रहान् पृथिव्याः निम्न-कक्षायां स्थापयितुं पूर्णतया सामर्थ्यं भजते।
प्रधानमन्त्रिणा नरेन्द्रमोदिना ‘स्काईरूट्’-वैज्ञानिकवृन्दः श्लाघितः सहैव ‘विक्रम-1’ इत्यस्य साफल्यं भारतस्य अन्तरिक्ष-यात्रायाः ऐतिहासिकः क्षणः इति उद्घोषितम्।
अन्तरिक्ष-कक्षायां अस्य सफल-प्रवेशाद् परं प्रधानमन्त्री नरेन्द्रमोदी दूरभाष-माध्यमेन स्कायरूट-एयरोस्पेस-दलस्य वैज्ञानिकानाञ्च अभिनन्दनं व्याहृतवान्। श्रीमोदी न्यगादीत् यत्, विक्रम-1 यानस्य अयं सफलोत्कर्षः अन्तरिक्ष-क्षेत्रे देशस्य आत्मनिर्भता-यात्रायां कश्चन प्रमुखः कीर्तिस्तम्भः वर्तते । प्रधानमन्त्रिणा प्रतिपादितं यत्, इयं ऐतिहासिकी उपलब्धिः देशस्य यूनः नवीनोन्मेषाय अग्रे आगन्तुं प्रेरयिष्यति।
भारतस्य प्रथमं निज-विकसितं कक्षीयान्तरिक्ष यानं विक्रम-प्रथमं अन्तिम-प्रणोदन-प्रक्रियां सम्पूर्य कक्षायां उपग्रहान् सफलरूपेण प्रवेश्य स्वकक्षां प्राप्नोत्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
