By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: अक्षोट-वाताद-निकोचकैः (अखरोट- बादाम- चिलगोजा) वर्धिष्यते कृषकाणाम् आयः,
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > अक्षोट-वाताद-निकोचकैः (अखरोट- बादाम- चिलगोजा) वर्धिष्यते कृषकाणाम् आयः,
प्रादेशिकवार्ताहिमाचलवार्ता

अक्षोट-वाताद-निकोचकैः (अखरोट- बादाम- चिलगोजा) वर्धिष्यते कृषकाणाम् आयः,

डॉ.अमनदीप शर्मा
Last updated: 2026/07/13 at 8:57 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

अक्षोट-वाताद-निकोचकैः (अखरोट- बादाम- चिलगोजा) वर्धिष्यते कृषकाणाम् आयः, ‘हाई वैल्यू नट मिशन’ इति आरप्स्यते राज्यसर्वकारः
हिमसंस्कृतवार्ता:- शिमला।हिमाचलप्रदेशस्य उद्यानकृषिक्षेत्रं (बागवानी) सशक्तं विधातुं कृषकाणाम् आयं वर्धयितुं च उद्देश्यात् राज्यसर्वकारः वर्ष २०२६ तः २०३१ पर्यन्तं ‘हाई वैल्यू नट मिशन’ (उच्चमूल्यवान् दृढ़फल अभियानम्) इत्यस्य आरम्भं विधास्यति। अस्य अभियानस्य अन्तर्गतम् अक्षोटं (अखरोट), वातादं (बादाम), उरुमाणं (खुमानी), निकोचकं (चिलगोजा) सदृशीनाम् उच्चमूल्ययुक्तानां समशीतोष्णाणां दृढ़फल-सस्यानां कृषये प्रोत्साहनं प्रदास्यते। एतत् अभियानम् उद्यानकृषिक्षेत्रस्य सम्मुखे स्थितानां प्रमुखानाम् आह्वानानां, यथा- पुरातनानि उद्यानानि, न्यूना उत्पादकता, कर्तन- उपरान्तं पर्याप्त-आधारभूतसंरचनायाः शून्यता, मूल्यसंवर्धनस्य सीमिताः अवसराः, इत्येतेषां समाधानं विधास्यति। अस्य उद्देश्यं वैज्ञानिक- उद्यानप्रबन्धनस्य, आधुनिक-अधोसंरचनायाः तथा च श्रेष्ठविपणि-प्राप्ते: (मार्केट एक्सेस) माध्यमेन उद्यानकृषेः शाश्वतविकासाय सुदृढ़- पारिस्थितिकी- तन्त्रस्य (इकोसिस्टम) सज्जता वर्तते।
सहस्र-हेक्टेयर-परिमितं क्षेत्रं नवीनकरणाय चयनितम्
अभियानस्य अन्तर्गतं प्रायः १,००० हेक्टेयर- परिमितं क्षेत्रम् उद्यानानां कायाकल्पाय उच्चघनत्व- पौधारोपणाय च समाविष्टं करिष्यते। एतेषु ९०० हेक्टेयर-परिमितं पुरातनम् अल्पोत्पादनयुक्तं च उद्यानक्षेत्रं वैज्ञानिकविधिभिः पुनरुज्जीवितं विधास्यते। एतदर्थं कैनोपी-प्रबन्धनं, टॉप-वर्किंग, पुरातनानाम् अनुपयोगिनां च वृक्षाणां प्रतिस्थापनं, मृत्तिकास्वास्थ्ये सुधारः, जलप्रबन्धनं सदृशीनाम् आधुनिकानां प्रविधीनाम् उपयोगः करिष्यते। एतदतिरिच्य, १०० हेक्टेयर-परिमितक्षेत्रे आदर्श- उच्चघनत्वयुक्ताः उद्यानाः विकसिताः भविष्यन्ति, यत्र उच्चगुणवत्तायुक्ताः सस्यसामग्र्यः, सूक्ष्मसिञ्चनम् (माइक्रो इरिगेशन), ऋतु- अनुकूलकृषेः प्रविधयः अन्याश्च आधुनिकाः कृष्युपायाः अङ्गीकरिष्यन्ते।
चतस्रः उच्चतकनीकयुक्ताः शालाः स्थापयिष्यन्ते
राज्यसर्वकारः प्रमाणित-रोगमुक्त-सस्यसामग्रीणाम् उपलब्धतां सुनिश्चितां कर्तुं प्रमुुखेषु दृढ़फल- उत्पादकक्षेत्रेषु चतस्रः उच्चतकनीकयुक्ताः शालाः (हाई-टेक नर्सरियां) तथा च द्वौ उत्कृष्टताकेन्द्रौ स्थापयिष्यति। एताः संस्थाः अनुसन्धानस्य, प्रशिक्षणस्य, प्रदर्शनस्य, विस्तारसेवानामपि केन्द्राणि भूत्वा कार्यं विधास्यन्ति, येन उद्यानिनः आधुनिक- उद्यानप्रबन्धन- प्रविधीन् अङ्गीकृत्य उत्पादकतां वर्धयितुं शक्ष्यन्ति। मूल्यशृङ्खलां सुदृढ़ां विधातुं विपणौ च प्रतिस्पर्धात्मकक्षमतां वर्धयितुम् अस्य अभियानस्य अन्तर्गतं १० आधुनिकानां सङ्ग्रह-वर्गीकरण-चयन-पैकेजिङ्ग-प्रसंस्करण एवं मूल्यसंवर्धन-एककानां स्थापना विधास्यते। एताभिः सुविधाभिः कर्तन-उपरान्तं जायमानाया: क्षते: न्यूनीकरणं भविष्यति, उत्पादानां गुणवत्ता श्रेष्ठा स्थास्यति कृषकेभ्यश्च श्रेष्ठा विपणिः (मार्केट) उपलप्स्यते।
जनजातीयक्षेत्रेषु निकोचकस्य (चिलगोजा) संरक्षणं प्राधान्येन
अभियानस्य अन्तर्गतं कृषक-उत्पादक-सङ्घटनानि प्रवर्धिष्यन्ते, सार्वजनिक- निजी- सहभागिता- प्रतिरूपेण निजी-निवेशः प्रोत्साहितः करिष्यते तथा च कृषि-अधोसंरचना-निधिः सदृशीनां योजनानां अन्तर्गतं वित्तीयसंस्थासु कृषकाणां प्राप्ति: सुगमा विधास्यते। निकोचकस्य (चिलगोजा) पारिस्थितिकम् आर्थिकं च महत्त्वं ध्यात्वा अस्य अभियानस्य अन्तर्गतं जनजातीयक्षेत्रेषु अस्य संरक्षणाय पुनरुज्जीवनाय च विशेषप्राधान्यं प्रदास्यते। एतदर्थं प्राकृतिकपुनर्जननस्य प्रोत्साहनं, समुदाय- आधारितं वनप्रबन्धनं, निकोचक- बीजानाम् अङ्कुरणार्थं विशेषविस्तारसुविधानां स्थापना सदृशाः उपायाः करिष्यन्ते। अनेन जैवविविधतायाः संरक्षणेन सह स्थानीयसमुदायानां कृते स्थायी- आजीविकायाः अवसराः अपि सृजिताः भविष्यन्ति।
मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खुमहोदयेन प्रतिपादितं यत् ‘हाई वैल्यू नट मिशन’ हिमाचलप्रदेशस्य उद्यानकृषिक्षेत्रे विकासस्य, विविधीकरणस्य, आधुनिकीकरणस्य च नूतनयुगस्य आरम्भं विधास्यति। तेन प्रोक्तं यत् राज्ये समशीतोष्ण-दृढ़फल-सस्यानां कृषेः अपाराः सम्भावनाः सन्ति एतत् अभियानं च आधुनिकप्रविधेः, गुणवत्तापूर्ण-सस्यसामग्रीणां, श्रेष्ठ- आधारभूतसंरचनायाः माध्यमेन कृषकान् एतासां सम्भावनानां पूर्णलाभं प्राप्तुं सक्षमान् विधास्यति। मुख्यमन्त्रिणा कथितं यत् एषा प्रचेष्टा उत्पादकतायां लाभप्रदतायां च उल्लेखनीयां वृद्धिं विधास्यति ग्रामीणयुवकेभ्यश्च रोजगारस्य नूतनावसरान् सृजति, येन ग्रामीण-अर्थव्यवस्था सुदृढ़ा भविष्यति। तेन उक्तं यत् राज्यसर्वकारः उद्यानकृषिं सुदृढ़ं, प्रविधि-आधारितं, विपणि- उन्मुखं च क्षेत्ररूपेण विकसितुं कटिबद्धः अस्ति।
मुख्यमंत्रीमहोदयेन प्रतिपादितं यत् अभियानस्य अन्तर्गतम् उद्यानानां कायाकल्पे, मूल्यसंवर्धने, ब्रॉन्डिङ्ग इत्यस्मिन्, निर्यातप्रवर्धने च विशेषं ध्यानं प्रदास्यते, येन उद्यानिभ्यः स्वकीय-उपजस्य श्रेष्ठं मूल्यं प्राप्स्यते। तेन कथितं यत् निकोचक- संरक्षणद्वारा महिलानां, जनजातीयसमुदायानां, कृषक- उत्पादक- सङ्घटनानां च कृते लक्षितसाहाय्यस्य माध्यमेन समावेशी शाश्वतविकापश्च सुनिश्चितः भविष्यति, येन हिमाचलप्रदेशस्य सहस्रशः उद्यानिपरिवाराः प्रत्यक्षलाभं प्राप्स्यन्ति।

You Might Also Like

चालानस्य स्थाने एव ‘रियल-टाइम’-अङ्कीय-भुक्ति:, ‘एचआरटीसी’-संस्थायै लप्स्यन्ते १५०० विद्युत्-बस-यानानि — मुख्यमन्त्री सुक्खू

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

एशियाई-क्रीडायाः स्वर्ण-विजेतृभ्यः कन्याभ्यः राजकीय-सेवा प्रत्येकं च एक-कोटि-रूप्यकाणां पुरस्कारः

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

राजकीय-उच्च-विद्यालय-धारस्य छात्रः अभिनवराणा देशे विद्यालयस्य नाम उज्ज्वलीकृतवान्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article संस्कृतभारत्याः पटियालाविभागस्य परिवारसम्मेलनं सम्पन्नम्।
Next Article ‘राममन्दिरन्यासं भङ्गं कृत्वा सर्वोच्च- न्यायालयस्य निरीक्षणे भवेत् अन्वेषणम्’- शोभा ओझा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?