By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतभारत्याः पटियालाविभागस्य परिवारसम्मेलनं सम्पन्नम्।
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतभारत्याः पटियालाविभागस्य परिवारसम्मेलनं सम्पन्नम्।
संस्कृतगतिविधयः

संस्कृतभारत्याः पटियालाविभागस्य परिवारसम्मेलनं सम्पन्नम्।

डॉ.अमनदीप शर्मा
Last updated: 2026/07/13 at 8:53 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
1 Min Read
SHARE

संस्कृतभारत्याः पटियालाविभागस्य परिवारसम्मेलनं सम्पन्नम्
हिमसंस्कृतवार्ता:- अजय कुमार आर्य, पटियाला
पञ्जाबप्रदेशे उत्तरक्षेत्रसांस्कृतिककेन्द्रस्य परिसरे पटियालाविभागसम्मेलनस्य आयोजनं जातम्, यत्र संस्कृतभारत्याः प्रान्त- क्षेत्र- नगरकार्यकारिणीनां संस्कृतानुरागिपरिवारजनानां च सहभागिता अभवत्। तत्र पञ्जाबस्य अध्यक्षस्य वीरेन्द्रकुमारस्य, मन्त्रिणः अजयकुमार आर्यस्य, प्रान्तप्रचारप्रमुखस्य डॉ. ओमनदीपस्य, पटियालाविभागसंयोजकस्य गगनदीपपाठकस्य, पटियालाजिलामन्त्रिणः रविदत्तवर्यस्य च परिवारजनानां सह सहभागिता अभवत्।
सम्मेलनस्य उद्देश्यानि- अस्य परिवारसम्मेलनस्य अनेकानि उद्देश्यानि आसन्। प्रथमम्, संस्कृतकार्ये संलग्नानां कार्यकर्तॄणां परिवारजनानां च मध्ये परस्परपरिचयः स्नेहसम्बन्धश्च वर्धेत, इति। द्वितीयम्, कार्यकर्तॄणां परिवाराः अपि संस्कृतभारत्याः कार्ये स्वस्य सहभागितां अनुभवेयुः, येन कार्यकर्तृषु उत्साहः वर्धते, परिवारजनाश्च संस्कृतकार्यं स्वकीयं मन्यन्ते। तृतीयम्, विभिन्नस्थानेभ्यः आगतानां कार्यकर्तृपरिवाराणां मध्ये सौहार्दं सहकार्यभावश्च प्रवर्धेत, यतः संस्कृतभाषायाः प्रचारकार्यं दीर्घकालपर्यन्तं निरन्तरं चालयितुं परिवाराणां सहयोगः अत्यावश्यकः भवति।
परिवारेण सह मेलनस्य आवश्यकता-
इत्यनुभूयते यत् संस्कृतकार्यकर्तारः बहुधा स्वकार्ये एव व्यस्ताः भवन्ति, येन परिवारजनैः सह पर्याप्तः समयः न लभ्यते। अतः एतादृशानि सम्मेलनानि कार्यकर्तृभ्यः स्वपरिवारजनैः सह गुणवत्तापूर्णं समयं यापयितुम् अवसरं ददति। यदा परिवारजनाः अपि संस्कृतभारत्याः कार्यक्रमेषु सम्मिलिताः भवन्ति, तदा ते संस्कृतकार्यस्य महत्त्वं गभीरतया अवगच्छन्ति, कार्यकर्तृणां परिश्रमं च सम्यक् जानन्ति। एवं परिवारस्य समर्थनेन कार्यकर्ता उत्साहपूर्वकं दीर्घकालं यावत् कार्ये संलग्नः भवितुं शक्नोति। अस्मिन् सम्मेलने मक्खनलालसिंगलवर्यस्य, मक्खनजैनवर्यस्य, छज्जुराममहोदयस्य च विशेषोपस्थितिः आसीत्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये १५ जुलाई दिनाङ्के ‘महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कार’ समारोहः
Next Article अक्षोट-वाताद-निकोचकैः (अखरोट- बादाम- चिलगोजा) वर्धिष्यते कृषकाणाम् आयः,
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?