By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HPSEBL e-KYC – २३ लक्षोपभोक्तृणां ई-केवाईसी, १८ लक्षजनेभ्यः द्वि-विद्युन्मानके साहाय्यकधनस्य लाभः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HPSEBL e-KYC – २३ लक्षोपभोक्तृणां ई-केवाईसी, १८ लक्षजनेभ्यः द्वि-विद्युन्मानके साहाय्यकधनस्य लाभः
हिमाचलवार्ता

HPSEBL e-KYC – २३ लक्षोपभोक्तृणां ई-केवाईसी, १८ लक्षजनेभ्यः द्वि-विद्युन्मानके साहाय्यकधनस्य लाभः

डॉ मनोज शैल
Last updated: 2026/07/08 at 11:35 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

HPSEBL e-KYC – २३ लक्षोपभोक्तृणां ई-केवाईसी, १८ लक्षजनेभ्यः द्वि-विद्युन्मानके साहाय्यकधनस्य लाभः

विद्युन्मण्डले द्वयोः मानकयोः साहाय्यकधनप्रदानस्य निर्णयात् परं प्रचलति ई-केवाईसी-प्रक्रिया

हिमसंस्कृतवार्ता: — शिमला।

द्वयोः विद्युन्मानकयोः (बिजली मीटर) उपरि साहाय्यकधनं (सब्सिडी) प्रदातुं सर्वकारस्य निर्णयात् परं सम्पूर्णे राज्ये ई-केवाईसी-प्रक्रिया वेगेन प्रचलति। राज्ये २३ लक्षाद् अधिकानाम् उपभोक्तृणां ई-केवाईसी-कार्यं पूर्णं जातम्। अस्मिन् १८ लक्षाद् अधिकेभ्यः जनेभ्यः द्वयोः विद्युन्मानकयोः साहाय्यकधनस्य लाभः विद्युन्मण्डलेन (बिजली बोर्ड) प्रदत्तः अस्ति। यद्यपि ई-केवाईसी-प्रक्रियायां काश्चन त्रुटयः अपि सम्मुखम् आगताः, यासां निवारणाय विद्युन्मण्डलप्रबन्धनेन प्रभावीनि कर्माणि क्रियन्ते। उल्लेखनीयं वर्तते यत् राज्यसर्वकारेण अस्मिन्नेव वर्षे राज्ये एकस्मै उपभोक्त्रे द्वयोः मानकयोः १२५-१२५ यूनिट् यावत् निःशुल्कविद्युत् प्रदातुं निर्णयः स्वीकृतः। एतस्मात् परं विद्युन्मण्डलेन प्रदेशे द्वयोः विद्युन्मानकयोः एतया सुविधया सह योजयितुं ई-केवाईसी-प्रक्रिया आरब्धा। राज्यविद्युन्मण्डलात् प्राप्त-विवरणानुसारं जूनमासस्य अन्तिमं यावत् प्रदेशे २४,८३,१९३ सक्रियाः घरेलु-विद्युद्-उपभोक्तारः सन्ति। एतेषु २३,७९,५२४ उपभोक्तृभिः स्वकीयम् ई-केवाईसी-कार्यं पूर्णं विहितम्। जूनमासस्य विवरणानुसारं राज्ये विभिन्नश्रेणीनां आहत्य २९,६९,०७२ विद्युद्-उपभोक्तारः सन्ति, येषु घरेलुश्रेण्याः उपभोक्तृणां सङ्ख्या २४.८३ लक्षं दर्ज अस्ति। विभागेन एतेषाम् उपभोक्तृणां चरणबद्धरूपेण ई-केवाईसी कारितं, येन उपभोक्तृणां शुद्धं परिचयं सुनिश्चितं भवेत् साहाय्यकधनस्य लाभः च केवलं वास्तविक-लाभान्वितेभ्यः एव प्राप्नुयात्।

 

ई-केवाईसी-प्रक्रियायाः परं साहाय्यकधनग्रहीतृणां सङ्ख्यायां न्यूनता

अपरपक्षे ई-केवाईसी-व्यवस्थायाः निर्माणात् परं साहाय्यकधनं प्राप्नुवताम् उपभोक्तृणां सङ्ख्यायां न्यूनता अङ्किता अस्ति। जून २०२६ तमे वर्षे १८,०६,८२२ घरेलु-उपभोक्तृभ्यः विद्युत्-साहाय्यकधनं प्रदत्तम्, यत्रैव ई-केवाईसी-अनिवार्यत्वात् पूर्वम् एषा सङ्ख्या अधिका आसीत्। जनवरी २०२६ तमे वर्षे २२,५९,४९८ उपभोक्तृभ्यः, फरवरीमासे २२,८०,००२ उपभोक्तृभ्यः तथा च मार्चमासे २३,९४,८१६ उपभोक्तृभ्यः विद्युत्-साहाय्यकधनं दत्तम् आसीत्। मण्डलस्य मान्यता अस्ति यत् ई-केवाईसी-प्रणाल्याः प्रयोगात् साहाय्यकधनवितरणव्यवस्था भूयः पारदर्शिनी संजाता।

यद्यपि प्रदेशस्य विभिन्नेभ्यः भागेभ्यः ई-केवाईसी-प्रक्रियायां त्रुटीनां वार्ता अपि सम्मुखम् आगता आसीत्। अस्य अन्तर्गतं कस्यचित् एकस्य उपभोक्ता-आईडी (ID) मध्ये बहूनि नामानि सङ्योजितानि दृष्टानि। कतिपयेषु प्रकरणेषु एकस्य एव उपभोक्तुः नाम्नि भिन्नानि खाद्यान्नपत्रकाणि (राशनकार्ड) अपि पञ्जीकृतानि प्राप्तानि। अस्मिन् विद्युन्मण्डलप्रबन्धनेन कठोरं सञ्ज्ञानं (गम्भीरता) स्वीकुर्वता एतासां त्रुटीनां दूरीकरणाय दिशानिर्देशाः पूर्वमेव प्रसारिताः। सम्प्रति मण्डलप्रबन्धनस्य कथनमस्ति यत् ई-केवाईसी-प्रक्रियायां प्राप्तानां त्रुटीनां परिष्कार: विधीयते। एतस्याः प्रक्रियायाः पूर्णात् परं साहाय्यकधनवितरणव्यवस्था भूयः पारदर्शिनी प्रभावशालिनी च भविष्यति इति आशा वर्तते।

You Might Also Like

HP EDUCATION DEPARTMENT – १४ वर्षपुरातने ए.सी.पी.-विवादे शिक्षाविभागस्य निर्णयः, विद्यालयप्रवक्तृभ्यः प्राप्स्यते वेतनलाभः

IKS & AI – भारतस्य प्राचीनज्ञानपरम्परा कृत्रिमबुद्धिमत्तया (AI) प्राप्स्यति नूतनजीवनम् – प्रो. श्रीनिवासवरखेड़ी

मोदीसर्वकारेण हिमाचलस्य विकासाय प्रदत्ता उड्डयन-क्षमता, प्रदेशे प्रचलति ‘सूटकेस-सर्वकारः’ – सञ्जयटण्डनः

आर.सी.एस. उड्डयनयोजना – कुल्लू-मण्डी-चण्डीगढ़नगराणां कृते हेलिकॉप्टर-सेवा आरब्धा

रजनीपाटिलमहोदया अवदत्- सङ्घटनस्य जनानाम् उपेक्षाभावाः आसन्, मुख्यमन्त्रिणा मन्त्रिभिः च साकं वार्तालापः कारितः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article HP EDUCATION DEPARTMENT – १४ वर्षपुरातने ए.सी.पी.-विवादे शिक्षाविभागस्य निर्णयः, विद्यालयप्रवक्तृभ्यः प्राप्स्यते वेतनलाभः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?