By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: IKS & AI – भारतस्य प्राचीनज्ञानपरम्परा कृत्रिमबुद्धिमत्तया (AI) प्राप्स्यति नूतनजीवनम् – प्रो. श्रीनिवासवरखेड़ी
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > प्रादेशिकवार्ता > IKS & AI – भारतस्य प्राचीनज्ञानपरम्परा कृत्रिमबुद्धिमत्तया (AI) प्राप्स्यति नूतनजीवनम् – प्रो. श्रीनिवासवरखेड़ी
प्रादेशिकवार्तासंस्कृतगतिविधयः

IKS & AI – भारतस्य प्राचीनज्ञानपरम्परा कृत्रिमबुद्धिमत्तया (AI) प्राप्स्यति नूतनजीवनम् – प्रो. श्रीनिवासवरखेड़ी

डॉ मनोज शैल
Last updated: 2026/07/08 at 11:30 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

IKS & AI – भारतस्य प्राचीनज्ञानपरम्परा कृत्रिमबुद्धिमत्तया (AI) प्राप्स्यति नूतनजीवनम् – प्रो. श्रीनिवासवरखेड़ी

हिमसंस्कृतवार्ता: — नागपुरम्।


मानवता कृत्रिमबुद्धिमत्तायाः (AI) युगे प्रवेशं कृतवती अस्ति। अधुना अस्माकं दायित्वं वर्तते यत् अस्याः तकनीक-प्रणाल्याः (प्रौद्योगिक्याः) उपयोगः भारतस्य प्राचीनज्ञानपरम्परायाः, संस्कृतेः, धरोहरस्य च संरक्षणाय संवर्धनाय च करणीयः। एषा वार्ता केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिना प्रो. श्रीनिवासवरखेड़ीमहोदयेन केन्द्रीयसंस्कृतविश्वविद्यालयस्य तथा च ‘इमवर्स ए.आई.’ (Imvers AI) इत्यनयोः संयुक्ततत्त्वावधाने आयोजितायाः २१ दिवसीय-ए.आई.-प्रशिक्षणकार्यशालायाः ‘बिल्डिंग सिविलाइज़ेशनल ए आई फ्रॉम भारत’ इत्यस्याः समापनसमारोहे कथिता।
तेन प्रोक्तं यत् भारतस्य ज्ञानसम्पदः आधुनिकप्रौद्योगिक्या सह संयोजनं समयस्य आवश्यकता अस्ति। अस्यां दिशि केन्द्रीयसंस्कृतविश्वविद्यालयस्य इमवर्स-ए.आई. इत्यस्य च प्रयासः देशस्य कृते एकः अनुकरणीयः प्रतिरूपः (मॉडल) भवितुं शक्नोति। तेन ज्ञापितं यत् विश्वविद्यालयेन भारतीयज्ञानपरम्परायाः कृत्रिमबुद्धिमत्तायाः च समन्वयस्य दिशि क्रियमाणाः प्रचेष्टाः राष्ट्रियस्तरे अपि श्लाघिताः सन्ति। एतेषाम् उल्लेखः प्रधानमन्त्रिणः मनोगते अर्थात् ‘मन की बात’ इति कार्यक्रमे अपि विहितः अस्ति। तेन युनः आहूताः यत् ते केवलं प्रौद्योगिक्याः उपभोक्तारः भूत्वा न तिष्ठेयुः, अपितु नवाचार-अनुसन्धान-तकनीकविकासानां माध्यमेन भारतस्य ज्ञानाधारित-अर्थव्यवस्थायाः निर्मातारः भवेयुः।
कार्यक्रमस्य शुभारम्भः अतिथिभिः मातुः शारदायाः चित्रपटस्य सम्मुखे दीपप्रज्वलनं कृत्वा विहितः। एतस्मात् परं केन्द्रीयसंस्कृतविश्वविद्यालयस्य छात्रकल्याणविभागस्य सहायकप्राध्यापिका समन्वयिका च डॉ. अमृताकौरमहोदया अन्तर्जालमाध्यमेन (ऑनलाइन) संयुज्य सर्वान् अतिथीन्, विद्वांसः, प्रशिक्षकान्, प्रतिभागिनश्च प्रति स्वागतम् अभिनन्दनं च व्याहृतवती।
विशिष्टतिथिः प्रो. अतुलवैद्यः अवदत् यत् कृत्रिमबुद्धिमत्तायाः भविष्यं भारतीयज्ञाने, भारतीयभाषासु, भारतीयसन्दर्भेषु च आधारितं भवितव्यम्। तेन इमवर्स-ए.आई. इत्यस्य ‘भारतीया जीपीटी’ (Bharatiya GPT) इति प्रचेष्टां भारतस्य सभ्यतागतधरोहणम् आधुनिकप्रौद्योगिक्या सह सङ्योजयन्तीं नूतनं प्रयासं प्रतिपाद्य कथितं यत् एतादृशाः प्रयासाः भारतं ‘सिविलाइज़ेशनल ए आई’ क्षेत्रे वैश्विकं नेतृत्त्वं प्रदास्यन्ति।
‘इमवर्स ए.आई.’ संस्थायाः सह-संस्थापिका मुख्यपरिचालनाधिका री च प्रीतिरामकृष्णन महोदया अवदत् यत् कृत्रिमबुद्धिमत्ता केवलं तकनीकीक्रान्तिः नास्ति, अपितु सभ्यतागतम् उत्तरदायित्वं वर्तते। तया ज्ञापितं यत् संस्था पाण्डुलिपीनां, शिलालेखानां, मौखिकानां ज्ञानपरम्पराणां च ए.आई.-आधारित-ज्ञानसंसाधनेषु परिवर्तनं कृत्वा भारतस्य बौद्धिकविरासतं विश्वं यावत् प्रामाणिकरूपेण प्रापयितुं कार्यं करोति।
अस्यां २१ दिवसीयायां कार्यशालायां देशस्य २३ प्रतिष्ठितेभ्यः संस्थानेभ्यः चयनं प्राप्ताः १८ संस्कृतविद्वांसः पाण्डुलिपि-अङ्कीकरणं (डिजिटलीकरण), ऑप्टिकल कैरेक्टर रिकग्निशन (OCR), हस्तलिपि-परिचयं, भारतीयभाषाप्रौद्योगिकी, मशील-लर्निंग, जनरेटिव ए.आई. तथा च सिविलाइज़ेशनल ए.आई. सदृशविषयेषु व्यावहारिकं प्रशिक्षणं प्राप्तवन्तः। विशिष्टतिथिः मङ्गेश-इन्दा-पवारः अपि सम्बोधितवान्।

प्रतिभागिभि: अनूभूताः स्वकीय-अनुभवाः प्रकटिता:

कार्यशालायाः प्रतिभागिभ्याम् अजयनागरेण ईश्वरीदीक्षितेन च स्वकीय-अनुभवाः साझीकृताः। अजयनागरेण कथितं यत् “अध्ययनाय जिज्ञासोः भवितुम् अतीव आवश्यकं वर्तते। जिज्ञासा एव जनं नूतनज्ञानाय, नूतनप्रौद्योगिक्यै, नवाचाराय च अग्रे सारयति।” तेन उक्तं यत् अनेन प्रशिक्षणेन संस्कृतस्य कृत्रिमबुद्धिमत्तायाः च समन्वयः व्यावहारिकरूपेण अवगन्तुम् अवसरः प्राप्तः। यत्रैव ईश्वरीदीक्षितेन प्रोक्तं यत् कार्यशालायाः अन्तराले वैज्ञानिकानां मार्गदर्शने कार्यं कुर्वन् भारतीयज्ञानपरम्पराम् आधुनिकप्रौद्योगिक्या सह योजयितुं नूतना दृष्टिः प्राप्ता, या भविष्यस्य अनुसन्धाने नवाचारे च अतीव उपयोगिनी सिद्धा भविष्यति।
समापनावसरे उत्कृष्टप्रदर्शनाय डॉ. दर्शनाजैनमहोदया, केतनपुराणिकः, शुभेन्दुशशाङ्कश्च सम्मानिताः। सर्वेभ्यः १८ प्रतिभागिभ्यः प्रशिक्षणपूर्णात् परं प्रमाणपत्राणि वितरितानि।
कार्यक्रमस्य सञ्चालनम् अमेयवैद्येन विहितम्। अन्ते रुचिकाबोबड़ेमहोदयया सर्वान् अतिथीन्, विद्वांसः, प्रशिक्षकान्, प्रतिभागिनः, आयोजकांश्च प्रति कृतज्ञता ज्ञापिता। कार्यक्रमस्य समापनं ‘वन्दे मातरम्’ इति गीतस्य सामूहिकगायनेन साकम् अभवत्।

You Might Also Like

HPSEBL e-KYC – २३ लक्षोपभोक्तृणां ई-केवाईसी, १८ लक्षजनेभ्यः द्वि-विद्युन्मानके साहाय्यकधनस्य लाभः

HP EDUCATION DEPARTMENT – १४ वर्षपुरातने ए.सी.पी.-विवादे शिक्षाविभागस्य निर्णयः, विद्यालयप्रवक्तृभ्यः प्राप्स्यते वेतनलाभः

मोदीसर्वकारेण हिमाचलस्य विकासाय प्रदत्ता उड्डयन-क्षमता, प्रदेशे प्रचलति ‘सूटकेस-सर्वकारः’ – सञ्जयटण्डनः

आर.सी.एस. उड्डयनयोजना – कुल्लू-मण्डी-चण्डीगढ़नगराणां कृते हेलिकॉप्टर-सेवा आरब्धा

रजनीपाटिलमहोदया अवदत्- सङ्घटनस्य जनानाम् उपेक्षाभावाः आसन्, मुख्यमन्त्रिणा मन्त्रिभिः च साकं वार्तालापः कारितः

TAGGED: \हिमाचल के आज के समाचार, Central Sanskrit University, cmo himachal Pradesh, Himachal news, Himsanskrit news, himsanskritnews headlines, Himsanskritvarta, KKSU, KKSU Ramtek, National News, national News Headlines, News Headlines, sanskrit University, अन्तर्राष्ट्रीय समाचार, कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालय, देश विदेश की ताजा खबरें, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, श्रीनिवास वरखेड़ी, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article मोदीसर्वकारेण हिमाचलस्य विकासाय प्रदत्ता उड्डयन-क्षमता, प्रदेशे प्रचलति ‘सूटकेस-सर्वकारः’ – सञ्जयटण्डनः
Next Article HP EDUCATION DEPARTMENT – १४ वर्षपुरातने ए.सी.पी.-विवादे शिक्षाविभागस्य निर्णयः, विद्यालयप्रवक्तृभ्यः प्राप्स्यते वेतनलाभः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?