आर.सी.एस. उड्डयनयोजना – कुल्लू-मण्डी-चण्डीगढ़नगराणां कृते हेलिकॉप्टर-सेवा आरब्धा
हिमसंस्कृतवार्ता: — शिमला।
मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खू महोदयेन सोमवासरे स्वकीयात् आधिकारिक-आवासात् ‘ओकओवर’ इत्यस्मात् मण्डी-चण्डीगढ़ं तथा च कुल्लू-मण्डी-चण्डीगढ़नगराणां मध्ये प्रतिदिनं चलन्तीनां हेलिकॉप्टर-सेवानां आभासीय (वर्चुअल) माध्यमैन शुभारम्भः कृतः। भारतसर्वकारस्य ‘क्षेत्रीय-सम्पर्क-योजना’ (RCS-UDAN) इत्यस्याः अन्तर्गतं मण्डी-चण्डीगढ़- हेलिकॉप्टर-सेवा प्रचालयिष्यते, यत्रैव आर.सी.एस.रहित (आपण-आधारित) प्रतिरूपानुसारं (मॉडल) कुल्लू-मण्डी-चण्डीगढ़नगराणां कृते ‘हेरिटेज एविएशन प्राइवेट लिमिटेड’ इत्यनया संस्थया अस्याः सेवायाः सञ्चालनं विधास्यते।
कुल्लू-मण्डी-चण्डीगढ़नगराणां कृते समय-सारणी
कुल्लू-नगरतः हेलिकॉप्टर-यानस्य उड्डयनं प्रातः ९:०० वादने भविष्यति तथा च ९:१० वादने मण्डीं प्राप्स्यति। एतस्मात् परं मण्डीतः ९:१५ वादने प्रस्थाय हेलिकॉप्टर-यानं ९:४५ वादने चण्डीगढ़ं प्राप्स्यति। प्रत्यागमनस्य उड्डयनं चण्डीगढ़तः प्रातः १०:०० वादने भविष्यति तथा च १०:३० वादने मण्डीं प्राप्स्यति, मण्डीतः च १०:३५ वादने प्रस्थाय प्रातः १०:४५ वादने कुल्लू-नगरं सम्प्राप्स्यति।
एताः सेवाः नवनिर्मितात् काङ्गनीधार (मण्डी) हेलीपोर्ट्-स्थानतः सञ्चालयिष्यन्ते। आर.सी.एस.-उड्डयनयोजनायाः अन्तर्गतं मण्डी-चण्डीगढ़-क्षेत्राय भाटकं (किराया) ३,५०० रूप्यकाणि निश्चितं कृतम् अस्ति, यत्रैव कुल्लू-मण्डी-चण्डीगढ़-क्षेत्राय भाटकं ८,५०० रूप्यकाणि निर्धारितं वर्तते। आधुनिक-यात्रि-सुविधाभिः आवश्यक-अवसंरचनाभिः च सुसज्जितं काङ्गनीधार-हेलीपोर्ट् वायुसेवानां महत्त्वपूर्णकेन्द्ररूपेण स्थापितं भविष्यति।
पर्यटनस्य आपातकालीनसेवानां च सुदृढीकरणं भविष्यति – मुख्यमन्त्री
मण्डी-कुल्लू-मण्डलयोः जनेभ्यः हेलिकॉप्टर-सेवानां शुभारम्भे शुभकामनाः प्रदाय मुख्यमन्त्रिणा कथितं यत् राज्यसर्वकारः प्रदेशस्य दूरवर्तिषु पर्वतीयक्षेत्रेषु च वायुसम्पर्कं सुदृढीकर्तुं निरन्तरं प्रयासरतः अस्ति। तेन प्रोक्तं यत् आसां हेलिकॉप्टर-सेवानां प्रारम्भेण सह वायुसम्पर्कक्षेत्रे एका अन्या महती सिद्धिः प्राप्ता अस्ति। एताभिः सेवाभिः यात्रासमये श्लाघनीया न्यूनता आगमिष्यति, पर्यटनं प्रोत्साहनं प्राप्स्यति, आपातकालीनसेवानां क्षमता दृढ़ा भविष्यति तथा च स्थानीयवासिभ्यः पर्यटकेभ्यश्च श्रेष्ठाः सुविधाः प्राप्स्यन्ते।
मुख्यमन्त्रिणा सुक्खू महोदयेन प्रतिपादितं यत् राज्यसर्वकारः हेलीपोर्ट्-विकासस्य, क्षेत्रीय-वायुसम्पर्कस्य विस्तारस्य तथा च भारतसर्वकारस्य अन्यहितधारकाणां च सहयोगेन आर.सी.एस.-उड्डयनयोजनायाः प्रभावी-क्रियान्वयनमाध्यमेन विमानन-अवसंरचनां (एविएशन इन्फ्रास्ट्रक्चर) भूयः सुदृढीकर्तुं कटिबद्धः अस्ति। पर्यटनवर्धनार्थं राज्यसर्वकारस्य प्रचेष्टाः रेखाङ्कितं कुर्वता मुख्यमन्त्रिणा कथितं यत् प्रत्येकस्मिन् मण्डलमख्यालये प्रमुखपर्यटनस्थलेषु च हेलीपोर्ट्-निर्माणं विधीयते।
तेन प्रोक्तं यत् हमीरपुरमण्डलस्य जसकोट-क्षेत्रे, काङ्गड़ामण्डलस्य रक्कड़-पालमपुरयोः तथा च चम्बामण्डलस्य हेलीपोर्ट्-निर्माणकार्यम् अन्तिमे चरणे वर्तते। एतेषां हेलीपोर्ट्-स्थानानां निर्माणेन उच्चश्रेण्याः पर्यटकानाम् आगमनं हिमाचलप्रदेशे वर्धिष्यते, येन स्थानीयजनेभ्यः आयस्य जीविकायाश्च नूतनावसराः सृजिताः भविष्यन्ति। तेन कथितं यत् ऊना-नगरे हेलीपोर्ट्-निर्माणाय राज्यसर्वकारेण धनराशेः प्रावधानं कृतम् अस्ति तथा च नाहन-सोलनयोः अपि हेलीपोर्ट्-निर्माणाय विचारः प्रचलति। एतदतिरिच्य लाहौल-स्पीतिमण्डलस्य ‘रङ्गरीक’ क्षेत्रे सेनायाः सहयोगेन एकस्य हेलीपोर्ट्-स्थलस्य निर्माणम् अपि विधीयते।
