By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: रजनीपाटिलमहोदया अवदत्- सङ्घटनस्य जनानाम् उपेक्षाभावाः आसन्, मुख्यमन्त्रिणा मन्त्रिभिः च साकं वार्तालापः कारितः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राजनैतिकवार्ता > रजनीपाटिलमहोदया अवदत्- सङ्घटनस्य जनानाम् उपेक्षाभावाः आसन्, मुख्यमन्त्रिणा मन्त्रिभिः च साकं वार्तालापः कारितः
राजनैतिकवार्ताहिमाचलवार्ता

रजनीपाटिलमहोदया अवदत्- सङ्घटनस्य जनानाम् उपेक्षाभावाः आसन्, मुख्यमन्त्रिणा मन्त्रिभिः च साकं वार्तालापः कारितः

डॉ मनोज शैल
Last updated: 2026/07/06 at 10:18 PM
डॉ मनोज शैल
Share
3 Min Read
SHARE

रजनीपाटिलमहोदया अवदत्- सङ्घटनस्य जनानाम् उपेक्षाभावाः आसन्, मुख्यमन्त्रिणा मन्त्रिभिः च साकं वार्तालापः कारितः

 

हिमसंस्कृतवार्ता: — शिमला।

काङ्ग्रेसदलस्य प्रदेशप्रभारिणी रजनीपाटिलमहोदया कथितवती यत् सर्वकार-सङ्घटनयोः मध्ये समन्वयः अतीव आवश्यकः वर्तते। एतद् भूयः श्रेष्ठं कर्तुं प्रयासः विधीयते। तया प्रोक्तं यत् सद्यः एव सम्पन्नेषु उपवेशनेषु सङ्घटनस्य जनानां केचन उद्वेगाः (गिले-शिकवे) सम्मुखम् आगताः यत् सर्वकारे तेषां विचारः न मन्यते। एतादृशानां पदाधिकारिणां मुख्यमन्त्रिणा मन्त्रिभिः च सह वार्तालापः कारितः। सोमवासरे राजीवभवने शिमलायां आयोजितायां पत्रकारगोष्ठ्यां पाटिलमहोदया अवदत् यत् दलीयसङ्घटने कश्चित् उद्वेगः भवति एव। रजनीपाटिलमहोदया प्रतिपादितवती यत् निर्वाचिते कस्मिश्चिदपि जनप्रतिनिधौ सङ्घटनस्य जनानां च महत्तरं दायित्वं भवति, अतः तैः अस्मिन् योग्यं भवितुं पूर्णः प्रयासः करणीयः। तया प्रोक्तं यत् राममन्दिरस्य धनचौर्यं तथा च नीट (NEET) परीक्षायाः प्रश्नपत्रगोपनभङ्गः (पेपर लीक) च बृहन्तौ विषयौ स्तः। काङ्ग्रेसदलं एतान् सर्वसामान्यानां मध्ये नेष्यति। तया कथितं यत् सुदीर्घकालात् सङ्घटनं भङ्गं चलति स्म।

सर्वेषां पदाधिकारिणां दायित्वाना निश्चीयन्ते

अधुना अस्य सङ्घटनात् परं सर्वेषां पदाधिकारिणां दायित्वानि निश्चीयन्ते। पाटिलमहोदया अवदत् यत् काङ्ग्रेसस्य सर्वेभ्यः मन्त्रिभ्यः प्रभारिरूपेण एकैकस्य मण्डलस्य (जिले का) प्रभारः प्रदास्यते, येन ते तेषु मण्डलेषु दलस्य कार्यकर्तृभिः साकं साक्षात् सम्भाषणं कुर्वन्तः सङ्घटनस्य कार्याणि प्रभावशालीनि विधास्यन्ति। सङ्घटने यस्मै यत् दायित्वं समर्पितम्, तस्मिन् तैः योग्यं भवितव्यम्, अन्यथा ते पदमुक्ताः करिष्यन्ते। दलस्य सर्वेषां पदाधिकारिणां, मण्डल-खण्ड-स्तरीयाणां च सर्वेषां कार्यं प्रति त्रिषु मासेषु पुनरीक्षणं (समीक्षा) करिष्यते।

 

प्रदेशाध्यक्षः अवदत्, सङ्गठनं सर्वकारश्च मिलित्वा कार्यं कुरुतः

प्रभारिण्याः कथनात् परं काङ्ग्रेसप्रदेशाध्यक्षेण विनयकुमारेण ध्वनिप्रसारकयन्त्रं (माइक) हस्ते गृहीत्वा कथितं यत् सङ्घटने सर्वकाराय महती प्राथमिकता प्राप्यते। युवकाङ्ग्रेसाध्यक्षाय सर्वकारे अध्यक्षपदं, सेवादल-महिलाकाङ्ग्रेस-आदिभ्यः अपि प्राथमिकता दत्ता अस्ति। सङ्घटनं सर्वकारश्च मिलित्वा कार्यं कुरुतः स्तः। पत्रकारगोष्ठ्यां काङ्ग्रेसप्रदेशाध्यक्षं विनयकुमारं प्रति प्रभारिणी रजनीपाटिलमहोदया अवदत् यत् सा विधायकविषये अपि वदेत्। अस्मिन् पाटिलमहोदया तं निवारितवती— मया एतदपि कथितम्। इतः पूर्वं रजनीपाटिलमहोदया अवदत् यत् अग्रिमे १६ तथा १७ जुलाई दिनाङ्कयोः राजनैतिकविषयसमित्याः उपवेशने वेणुगोपालः आगच्छति। सः सर्वैः विधायकैः, मन्त्रिभिः, राजनैतिकपरामर्शसमित्या च सह मेलिष्यति।

 

अग्रिमे वर्षे भवितव्येषु विधानसभाक्षेत्रनिर्वाचनेषु दलस्य विजयाय कार्यं करणीयम् – रजनीपाटिल

काङ्ग्रेसस्य प्रदेशप्रभारिण्या रजनीपाटिलमहोदया प्रदेशकाङ्ग्रेसमुख्यालये राजीवभवने मण्डलपरिषदः (जिला परिषद) पञ्चायतसमित्याः च सदस्यान्, शिमलाग्रामीणतः नगरनिगमशिमलायाः पार्षदान् च सम्बोधितवती। तया कथितं यत् अधुना तैः आगामीवर्षे भवितव्यासु विधानसभाक्षेत्रनिर्वाचनेषु दलस्य विजयाय कार्यं करणीयम्। पाटिलमहोदया अवदत् यत् कामं नगरनिगमं विहाय एतानि निर्वाचनानि दलीयचिह्नेन न संजातानि, परन्तु तेषां काङ्ग्रेसेन सह सम्बद्धता काङ्ग्रेसविचारधारायाः विजयः च एतत् सिद्धं करोति यत् प्रदेशस्य जनाः काङ्ग्रेससर्वकारस्य नीतिभिः निर्णयैः च साकं तिष्ठन्ति। प्रदेशकाङ्ग्रेसाध्यक्षेण विनयकुमारेण नवनिर्वाचितानां जनप्रतिनिधीनां स्वागतं कुर्वता भाजपायाः केन्द्रसर्वकारस्य ग्रामीणविरोधिनीनां नीतीनां परिचयः कारितः।

अस्मिन् उपवेशने ए.आई.सी.सी. (AICC) सचिवः विदितचौधरी, चेतनचौहानः, यशवन्तछाजटा, विनोदजिण्टा, अमितनन्दा, विकासकालटा, नगर-अध्यक्षः इन्द्रजीतसिंहः, मण्डलपरिषद्-सदस्या आशाकंवर, प्रियङ्कातंवरः, अनुराधा, सुरेन्द्रमोगटा, अनीताशर्मा, सुरेन्द्ररेक्टा, उपमहापौरः उमाकौशलः, प्रधानः जितेन्द्रठाकुरः, बी.सी.डी. (BCD) अध्यक्षा कौशल्याशर्मा, जीतरामठाकुरः, उपाध्यक्षः भूपरामः, विक्रमवर्मा, प्रधना वनितावर्मा, मधुः, इन्दरः, पार्षदः सत्यवर्मा, हेमलता, प्रवीणगुप्ता, शमीमकटारिया, ममताचन्देलः, बी.सी.डी. सदस्यः लालसिंहः, विशालः, ललितः, चन्द्रप्रभानेगी, मोनिताचौहानः, पूनमचन्द्रिका, सञ्जयठाकुरः, सौरभचौहानः, अमितभरमौरी तथा च शिमलाग्रामीणस्य अन्ये बहवः जनप्रतिनिधयः उपस्थिताः आसन्।

You Might Also Like

मोदीसर्वकारेण हिमाचलस्य विकासाय प्रदत्ता उड्डयन-क्षमता, प्रदेशे प्रचलति ‘सूटकेस-सर्वकारः’ – सञ्जयटण्डनः

आर.सी.एस. उड्डयनयोजना – कुल्लू-मण्डी-चण्डीगढ़नगराणां कृते हेलिकॉप्टर-सेवा आरब्धा

हिमाचल-मानसूनकाल: – २४ घण्टाः सक्रिया भविष्यति आपदा-सहायता-दूरभाषसङ्ख्या, एकस्मिन् आह्वाने एव प्राप्स्यते साहाय्यम्, दिशानिर्देशाः प्रसारिताः

हिमाचलप्रदेशे महत् प्रशासनिकपरिवर्तनम्, १८ आईएएस तथा १६ एचएएस अधिकारिणां स्थानान्तरणम्

HP Congress – हिमाचल-काङ्ग्रेसेन सङ्घटनस्य दृढीकरणाय निर्मितं मार्गचित्रम्, राज्ये सद्यः एव भविष्यति मन्त्रिमण्डलविस्तारः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचल-मानसूनकाल: – २४ घण्टाः सक्रिया भविष्यति आपदा-सहायता-दूरभाषसङ्ख्या, एकस्मिन् आह्वाने एव प्राप्स्यते साहाय्यम्, दिशानिर्देशाः प्रसारिताः
Next Article आर.सी.एस. उड्डयनयोजना – कुल्लू-मण्डी-चण्डीगढ़नगराणां कृते हेलिकॉप्टर-सेवा आरब्धा
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?