By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचलप्रदेशे अधुना सप्ताहस्य सप्तसु अपि दिनेषु रोबोटिक-शल्यचिकित्सा भविष्यति, १५ मासेषु ११०० शल्यक्रियाः सम्पन्नाः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचलप्रदेशे अधुना सप्ताहस्य सप्तसु अपि दिनेषु रोबोटिक-शल्यचिकित्सा भविष्यति, १५ मासेषु ११०० शल्यक्रियाः सम्पन्नाः
हिमाचलवार्ता

हिमाचलप्रदेशे अधुना सप्ताहस्य सप्तसु अपि दिनेषु रोबोटिक-शल्यचिकित्सा भविष्यति, १५ मासेषु ११०० शल्यक्रियाः सम्पन्नाः

डॉ मनोज शैल
Last updated: 2026/11/28 at 9:03 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचलप्रदेशे अधुना सप्ताहस्य सप्तसु अपि दिनेषु रोबोटिक-शल्यचिकित्सा भविष्यति, १५ मासेषु ११०० शल्यक्रियाः सम्पन्नाः

हिमसंस्कृतवार्ता:- शिमला।

हिमाचलप्रदेशे अधुना रोबोटिक-शल्यचिकित्सायाः सुविधा सप्ताहस्य सप्तसु अपि दिनेषु उपलब्धां कारयितुं सज्जता क्रियते। मुख्यमन्त्री सुखविन्द्रसिंहसुक्खुः प्रदेशस्य चिकित्सासंस्थानेषु इमाम् अत्याधुनिकां सुविधां नियमितरूपेण सञ्चालयितुं निर्देशान् दत्तवान् अस्ति। प्रदेशे केवलं १५ मासेषु ११०० अपेक्षया अधिकानां रोबोटिक- शल्यक्रियाणां सम्पादनं स्वास्थ्यसेवानां क्षेत्रे काचित् उल्लेखनीया उपलब्धिः अस्ति। मुख्यमन्त्री एतदर्थं चिकित्सकानां प्रयासानां प्रशंसां कुर्वन् युवाचिकित्सकान् अपि अस्यां तन्त्रविद्यायां दक्षान् कर्तुं निर्देशान् दत्तवान्। मुख्यमन्त्री शनिवासरे अत्र रोबोटिक- शल्यचिकित्सा- कार्यक्रमस्य समीक्षा- उपवेशनस्य अध्यक्षतां कुर्वन् आसीत्। सः अवदत् यत् प्रदेशे रोबोटिक-तन्त्रविद्यया बृहदन्त्र- शल्यचिकित्सा (कोलन सर्जरी), पौरुषग्रन्थि- कर्कट- शल्यचिकित्सा (प्रोस्टेट कैंसर सर्जरी), वृक्क-प्रत्यारोपणं (किडनी ट्रांसप्लांट) च इत्यादयः जटिलाः शल्यक्रियाः सफलतापूर्वकं कृताः सन्ति। चिकित्सकैः नूतना तन्त्रविद्या अल्पसमये एव अधीता, उत्तमाः परिणामाः च प्रदत्ताः। सः चिकित्सामहाविद्यालयेभ्यः अवशिष्टानां शल्यक्रियाणां प्रतिवेदनम् अपि आहूतवान्, येन रुग्णेभ्यः समये एव उपचारः मिलितुं शक्नुयात्।

मुख्यमन्त्री रोबोटिक-शल्यचिकित्सा-कार्यक्रमस्य समीक्षा-उपवेशनस्य अध्यक्षताम् अकरोत्।

प्रदेशस्य चतुर्षु चिकित्सासंस्थानेषु इयं सुविधा उपलब्धा अस्ति। एतेषु चमियाणा-स्थः अटल-आयुर्विज्ञान-अतिविशिष्टता-संस्थानम्, टाण्डा-स्थः डॉ. राजेन्द्रप्रसाद-राजकीय-चिकित्सामहाविद्यालयः, नेरचौक-स्थः श्रीलालबहादुरशास्त्री-राजकीय-चिकित्सामहाविद्यालयः, शिमला-स्थः इन्दिरागान्धी-चिकित्सामहाविद्यालयः च अन्तर्भवन्ति। मुख्यमन्त्री अवदत् यत् अत्र दिल्ली-स्थस्य एम्स-संस्थानस्य तुलनायाम् अत्यन्तं न्यूनशुल्केन रोबोटिक-शल्यचिकित्सा क्रियते। सर्वकारः अस्याः सुविधायाः विस्तारम् अन्येषु चिकित्सामहाविद्यालयेषु अपि कर्तुं विचारयति, येन रुग्णेभ्यः गृहसमीपे एव आधुनिकः उपचारः मिलितुं शक्नुयात्, तेभ्यः च अन्यराज्यानि गन्तुं बाध्यता न भवेत्।

रोबोटिक-शल्यचिकित्सायां रन्ध्रम्  लघुः क्रियते, रक्तस्रावः अपि न्यूनतमः भवति। एतेन रुग्णानां शीघ्रं स्वस्थतायां सहायता भवति। सामान्य-शल्यचिकित्सायाः (ओपन सर्जरी) तुलनायां चिकित्सालये निवासस्य अवधिः ५० तः ७५ प्रतिशतं यावत् न्यूना जायमाना अस्ति। अस्याः तन्त्रविद्यायाः सञ्चालनाय अधुना यावत् ४१ शल्यचिकित्सकेभ्यः ३४ परिचर्या-दल-सदस्येभ्यः च प्रशिक्षणम् प्रदत्तम् अस्ति। एतेषु परिचारिकाः, शल्यक्रियाकक्ष-सहायकाः, अन्ये सहयोगिनः कर्मचारिणः च अन्तर्भवन्ति। उपवेशने स्वास्थ्य-परिवारकल्याण-मन्त्री डॉ. (कर्नल) धनीरामशाण्डिलः, उद्योगमन्त्री हर्षवर्धनचौहानः, ग्रामीणविकास-पञ्चायतीराज-मन्त्री अनिरुद्धसिंहः, मण्डी-स्थस्य अटल-आयुर्विज्ञान-विश्वविद्यालयस्य कुलपतिः डॉ. डी. के. वर्मा, स्वास्थ्यसचिवः आशीषसिंहमारः, चिकित्साशिक्षानिदेशकः डॉ. गोपालबेरी च उपस्थिताः आसन्। चिकित्सामहाविद्यालयानां प्राचार्याः आभासी-माध्यमेन संयुक्ताः अभवन्।

You Might Also Like

षड्दशकानाम् अनन्तरं महान् विजयः, हाटीसमुदायस्य अनुसूचितजनजाति-स्तरः (ST) पुनर्स्थापितः, उच्चन्यायालयेन निरस्ताः सर्वाः याचिकाः

नूतनजनपदानां सङ्घटनस्य प्रयासः तीव्रः : प्रशासनिक-एककानां पुनर्सङ्घटनाय सज्जीभविष्यति मानकसञ्चालनप्रक्रिया

‘सीसीआरएएस’ संस्थायाः ‘स्पार्क’ योजनया युवाशोधार्थिभ्यः प्राप्स्यते वैज्ञानिकं मार्गदर्शनम्- प्रो. बिहारीलालशर्मा

पर्यावरणसंरक्षणाय हिमाचलपथपरिवहननिगमं च आत्मनिर्भरं कर्तुम् विद्युत्-बस-यानानां समूहं वर्धयिष्यति सरकारः – मुख्यमन्त्री

गङ्गायाः निर्मलता भारतीयसंस्कृतेः मानवतायाश्च आत्मनः संरक्षणम् वर्तते — प्रो. बिहारीलालशर्मा

TAGGED: \हिमाचल के आज के समाचार, Cm Sukhu, cmo himachal, cmo himachal Pradesh, cmo himachal Pradesh. HP News, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, Himsanskritvarta, HP Government, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article ‘सीसीआरएएस’ संस्थायाः ‘स्पार्क’ योजनया युवाशोधार्थिभ्यः प्राप्स्यते वैज्ञानिकं मार्गदर्शनम्- प्रो. बिहारीलालशर्मा
Next Article नूतनजनपदानां सङ्घटनस्य प्रयासः तीव्रः : प्रशासनिक-एककानां पुनर्सङ्घटनाय सज्जीभविष्यति मानकसञ्चालनप्रक्रिया
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?