By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमाचल-मानसूनकाल: – २४ घण्टाः सक्रिया भविष्यति आपदा-सहायता-दूरभाषसङ्ख्या, एकस्मिन् आह्वाने एव प्राप्स्यते साहाय्यम्, दिशानिर्देशाः प्रसारिताः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > हिमाचल-मानसूनकाल: – २४ घण्टाः सक्रिया भविष्यति आपदा-सहायता-दूरभाषसङ्ख्या, एकस्मिन् आह्वाने एव प्राप्स्यते साहाय्यम्, दिशानिर्देशाः प्रसारिताः
हिमाचलवार्ता

हिमाचल-मानसूनकाल: – २४ घण्टाः सक्रिया भविष्यति आपदा-सहायता-दूरभाषसङ्ख्या, एकस्मिन् आह्वाने एव प्राप्स्यते साहाय्यम्, दिशानिर्देशाः प्रसारिताः

डॉ मनोज शैल
Last updated: 2026/07/06 at 10:13 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

हिमाचल-मानसूनकाल: – २४ घण्टाः सक्रिया भविष्यति आपदा-सहायता-दूरभाषसङ्ख्या, एकस्मिन् आह्वाने एव प्राप्स्यते साहाय्यम्, दिशानिर्देशाः प्रसारिताः

हिमसंस्कृतवार्ता: — शिमला ।

हिमाचलप्रदेश-राज्य-आपदाप्रबन्धन-प्राधिकरणेन (HPSDMA) मानसून-ऋतवे विस्तृताः सुरक्षा-दिशानिर्देशाः प्रसारिताः। अस्य अन्तर्गतं प्रदेशस्य जनेभ्यः पर्यटकेभ्यश्च अधुना चतुर्विंशतिघण्टाः (२४ घण्टाः) साहाय्यम् उपलब्धं भविष्यति। राज्य-आपदा-सहायता-सङ्ख्या १०७० (1070) तथा च मण्डल-आपदा-सहायता-सङ्ख्या १०७७ (1077) स्युः सप्ताहे सप्तसु दिनेषु २४ घण्टाः सक्रियाः स्थास्यन्ति। कस्यामपि आपदायाम्, मार्ग-अवरोधे, भूस्खलने अन्यासु आपातस्थितिषु च एतासु सहायतासङ्ख्यासु सद्यः साहाय्यं प्राप्स्यते। प्राधिकरणेन पर्यटकाः स्थानीयजनाश्च ऋतु-आपदा-सम्बद्धिनीं सूचनां दृष्ट्वा एव यात्रां प्रारब्धुम् उपदिष्टाः। दिशानिर्देशे चलभाषयन्त्रेषु (मोबाइल) ऑफलाइन-मानचित्रं (ऑफलाइन नक्शा) अधोभारणं कृत्वा स्थापयितुं कथितम् अस्ति।

 

एच.पी.एस.डी.एम.ए. (HPSDMA) इत्यनेन जनेभ्यः दत्तः अयम् उपदेशः

मार्गाणां सद्यःस्थितेः सूचना स्थानीयजनेभ्यः प्रशासनात् वा प्राप्तुम् अपि परामर्शः दत्तः। वाहने प्राथमिकोपचार-पेटिका (फर्स्ट एड किट), पर्याप्तं पेयजलं, आपत्कालीन-वाहन-सामग्रीं च प्रस्थापयितुं कथितम्। एतत् कस्यामपि आकस्मिकस्थित्याः सुरक्षितरूपेण सम्मुखीकरणे साहाय्यं विधास्यति। जनैः स्वक्षेत्रेषु सम्भाव्य-सङ्कटानां पूर्वमेव परिचयं कर्तुम् आग्रहः कृतः अस्ति। अत्यधिकवृष्ट्याः, भूस्खलनस्य, मेघविस्फोटस्य (बादल फटने), भूकम्पस्य, अग्नेः, औद्योगिकदुर्घटनानां च प्रति सजगैः भवितुं निर्देशः अस्ति। प्राधिकरणानुसारं समये सतर्कता, शुद्धा सूचना, पूर्वसज्जता एव आपदाभ्यः रक्षणस्य प्रभावी उपायः वर्तते। अस्मिन्नेव उद्देश्यात् सहायतासेवाः सम्पूर्णे मानसून-ऋतौ अहोरात्रं (२४ घण्टाः) सक्रियाः स्थापिताः सन्ति।

 

संवेदनशीलानां वर्गाणां सुरक्षायाम् विशेषं बलम्

दिशानिर्देशे संवेदनशीलानां वर्गाणां सुरक्षायाम् विशेषं बलं दत्तम् अस्ति। एतेषु बालकाः, वृद्धाः, गर्भिण्यः महिलाः, दिव्यांगजनाश्च सम्मिलिताः सन्ति। एतेषां सुरक्षायै पूर्वमेव स्थानान्तरणस्य (निकासी) साहाय्यस्य च योजनां सज्जं स्थापयितुं कथितम्। आपदास्थितौ एतेभ्यः प्राथमिकतायाः आधारेण सुरक्षितस्थानानि यावत् प्रापयिष्यते।

 

अत्र कुर्वन्तु सम्पर्कम्

प्राधिकरणेन आपदास्थितौ भीतैः भवितुं स्थाने सद्यः एव सहायतासङ्ख्यासु सम्पर्कं कर्तुं कथितम्। राज्य-आपदा-सहायता-सङ्ख्यायां १०७० अथवा सम्बद्ध-मण्डल-आपदा-सहायता-सङ्ख्यायां १०७७ उपरि कॉल (आह्वानं) कुर्वन्तु। स्थानीयप्रशासनस्य आपदाप्रबन्धन-अधिकारिणां च निर्देशाणाम् अनुपालनं महत्त्वपूर्णं वर्तते। रक्षण-साहाय्य-प्राथमिकोपचार-सम्बद्धां सूचनां समये-समये प्राप्नुवन्तः तिष्ठन्तु।

You Might Also Like

संग्रहण-तन्त्रं समूलम् उत्पाटयिष्यामः; छात्राः प्रश्नान् पृच्छेयुः चेत् उत्तरम् अवश्यं लभ्येत् -राहुलगान्धी

प्रियङ्का गान्धी बालकेभ्यः सन्देशं प्रेषितवती, उक्तवती—निराशाः मा भवत, ऋतु: सम्यक् भवति चेत् अवश्यं मिलितुम् आगमिष्यामि

आपदाश्रयस्य १५०० कोटिरूप्यकाणां कृते प्रधानमन्त्रिणं प्रति पत्रम्, मुख्यमन्त्री अवदत्—आवश्यकता भवति चेत् पुनरपि स्मारकपत्रं प्रेषयिष्यते

अधिकारिणां स्थानान्तरणाय सर्वकारेण न्यूनतम-कार्यकालः निर्धारणीयः – उच्च-न्यायालयः

प्रो. बिहारीलालशर्मा पुनः सम्पूर्णानन्द-संस्कृत-विश्वविद्यालयस्य कुलपति-पदे नियुक्तः; कुलाधिपतिना आनन्दीबेन-पटेल-वर्यया प्रसारित: आदेशः

TAGGED: Cm Sukhu, cmo himachal, cmo himachal Pradesh, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP Government, HP NEWS, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचलप्रदेशे महत् प्रशासनिकपरिवर्तनम्, १८ आईएएस तथा १६ एचएएस अधिकारिणां स्थानान्तरणम्
Next Article रजनीपाटिलमहोदया अवदत्- सङ्घटनस्य जनानाम् उपेक्षाभावाः आसन्, मुख्यमन्त्रिणा मन्त्रिभिः च साकं वार्तालापः कारितः
2 Comments 2 Comments
  • Rahul Mehta says:
    July 7, 2026 at 7:14 pm

    अस्मिन् प्रसङ्गे ‘मानसूनकाल’ शब्दस्य कृते ‘वर्षाऋतुः’ इति पदमेव सर्वथा उपयुक्तम् अस्ति। संस्कृतभाषायाम् आधुनिकशब्दानां कृते भवान् एतस्य कोशस्य (https://kosha.sanskrit.today/) उपयोगं कर्तुं शक्नोति, यत्र रघुवीरकोशे बहवः आधुनिकाः शब्दाः उपलभ्यन्ते।

    Reply
    • डॉ.अमनदीप शर्मा says:
      July 17, 2026 at 11:13 am

      धन्यवादः मार्गदर्शनाय

      Reply

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?