By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: नूतनजनपदानां सङ्घटनस्य प्रयासः तीव्रः : प्रशासनिक-एककानां पुनर्सङ्घटनाय सज्जीभविष्यति मानकसञ्चालनप्रक्रिया
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > नूतनजनपदानां सङ्घटनस्य प्रयासः तीव्रः : प्रशासनिक-एककानां पुनर्सङ्घटनाय सज्जीभविष्यति मानकसञ्चालनप्रक्रिया
हिमाचलवार्ता

नूतनजनपदानां सङ्घटनस्य प्रयासः तीव्रः : प्रशासनिक-एककानां पुनर्सङ्घटनाय सज्जीभविष्यति मानकसञ्चालनप्रक्रिया

डॉ मनोज शैल
Last updated: 2026/11/28 at 9:05 PM
डॉ मनोज शैल
Share
2 Min Read
SHARE

नूतनजनपदानां सङ्घटनस्य प्रयासः तीव्रः : प्रशासनिक-एककानां पुनर्सङ्घटनाय सज्जीभविष्यति मानकसञ्चालनप्रक्रिया (SOP), जनेभ्यः याचिष्यन्ते परामर्शाः

​हिमसंस्कृतवार्ता — शिमला।

​हिमाचलप्रदेशे नूतनमण्डलानां सङ्घटनम् अधिकृत्य प्रयासः तीव्रः सञ्जातः अस्ति। मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः शनिवासरे हिमाचलप्रदेशे प्रशासनिक-एककानां पुनर्सङ्घटनाय निर्मितेन आयोगेन सह गोष्ठ्याः अध्यक्षताम् अकरोत्। गोष्ठ्याः अन्तराले सः आयोगस्य कार्यसञ्चालनेन सम्बद्धेषु विविधेषु विषयेषु चर्चाम् अकरोत् तथा निर्देशान् दत्तवान् यत् प्रदेशस्य जनसाङ्ख्यिकी-भौगोलिक-परिस्थितीः सहितम् अन्यान् महत्त्वपूर्णान् पक्षान् ध्याने स्थापयन् प्रशासनिक-एककानां पुनर्सङ्घटनाय सर्वप्रथमं मानकसञ्चालनप्रक्रिया (Standard Operating Procedure – SOP) सज्जीक्रियताम्।

​मुख्यमन्त्री आयोगम् अस्मिन् विषये सामान्यजनतायाः मण्डलप्रशासनस्य च पक्षतः परामर्शान् प्राप्तुमपि निर्देशान् दत्तवान्। सुक्खू-महोदयः सामान्यप्रशासनविभागाय (GAD) आयोगस्य सुचारु-कार्यसञ्चालनाय पूर्णं सहयोगं सुविधाश्च उपलब्धं कारयितुं निर्देशान् दत्तवान्। गोष्ठ्याम् आयोगस्य अध्यक्षः न्यायमूर्तिः धर्मचन्दचौधरी, सदस्यौ विशालपंवरः राजेशशर्मा च, सामान्यप्रशासनविभागस्य विशेषसचिवः हरबंससिंहब्रसकोनः तथा भू-अभिलेख-व्यवस्थापन-निदेशिका (निदेशक भू-अभिलेख एवं बंदोबस्त) तोरुल-एस.-रवीश-महोदया च उपस्थिता आसीत्।

​आयोगेन षण्मासानाम् अन्तः सर्वकाराय प्रदातव्यं प्रतिवेदनम्

​ज्ञातव्यम् अस्ति यत् हिमाचलप्रदेशे नूतनमण्डलानाम् अन्यासां च प्रशासनिक-एककानां पुनर्सङ्घटनाय सेवानिवृत्त-न्यायमूर्तेः धर्मचन्दचौधरी-महोदयस्य अध्यक्षतायाम् आयोगस्य सङ्घटनम् कृतम् अस्ति। आयोगः अधुना प्रदेशे विद्यमानायाः प्रशासनिकव्यवस्थायाः समीक्षां कृत्वा स्वकीयाः संस्तुतीः सज्जीकरणस्य प्रक्रियाम् अग्रे वर्धयिष्यति। आयोगेन षण्मासानाम् अन्तः सर्वकाराय स्वकीयं प्रतिवेदनं समर्पणीयम् अस्ति।

​आयोगः प्रदेशे विद्यमानानां मण्डलानाम्, उपमण्डलानां, उपमण्डलकार्यालयानां (तहसील), उपतहसील-कार्यालयानां विकासखण्डानां च व्यवस्थायाः समीक्षां करिष्यति। अस्मिन् आवश्यकतानुसारं नूतन-प्रशासनिक-एककानां निर्माणस्य, विद्यमान-एककानां विलयस्य, विभाजनस्य अथवा तासां पुनर्सङ्घटनस्य सम्भावनानाम् उपरि विचारः करिष्यते। एतदर्थं जनसङ्ख्या, भौगोलिकपरिस्थितयः, जनानां सर्वकारीयकार्यालयेषु सुलभता प्रशासनिकी दक्षता च सदृशाः पक्षाः आधाराः निर्मास्यन्ते। आयोगः जनप्रतिनिधिभ्यः, सम्बद्धविभागेभ्यः अन्येभ्यः च पक्षेभ्यः परामर्शानपि स्वीकरिष्यति। एतदतिरिच्य नूतन-प्रशासनिक-एककानां सरंचनायां सति भवनेषु, कार्यालयेषु, कर्मचारिषु आधारभूतसुविधासु च आगमिष्यतः व्ययस्य आकलनम् अपि करिष्यते।

You Might Also Like

षड्दशकानाम् अनन्तरं महान् विजयः, हाटीसमुदायस्य अनुसूचितजनजाति-स्तरः (ST) पुनर्स्थापितः, उच्चन्यायालयेन निरस्ताः सर्वाः याचिकाः

हिमाचलप्रदेशे अधुना सप्ताहस्य सप्तसु अपि दिनेषु रोबोटिक-शल्यचिकित्सा भविष्यति, १५ मासेषु ११०० शल्यक्रियाः सम्पन्नाः

‘सीसीआरएएस’ संस्थायाः ‘स्पार्क’ योजनया युवाशोधार्थिभ्यः प्राप्स्यते वैज्ञानिकं मार्गदर्शनम्- प्रो. बिहारीलालशर्मा

पर्यावरणसंरक्षणाय हिमाचलपथपरिवहननिगमं च आत्मनिर्भरं कर्तुम् विद्युत्-बस-यानानां समूहं वर्धयिष्यति सरकारः – मुख्यमन्त्री

गङ्गायाः निर्मलता भारतीयसंस्कृतेः मानवतायाश्च आत्मनः संरक्षणम् वर्तते — प्रो. बिहारीलालशर्मा

TAGGED: \हिमाचल के आज के समाचार, Cm Sukhu, cmo himachal, cmo himachal Pradesh, cmo himachal Pradesh. HP News, CMSukhu, him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, Himsanskrit news, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, Himsanskritvarta, HP Government, HPCM, hpgovt, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, देश विदेश की ताजा खबरें, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल का सबसे पहला संस्कृत समाचार पत्र, हिमाचल की खबरें, हिमाचल समाचार, हिमाचल सरकार, हिमाचल सरकार के निर्णय
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article हिमाचलप्रदेशे अधुना सप्ताहस्य सप्तसु अपि दिनेषु रोबोटिक-शल्यचिकित्सा भविष्यति, १५ मासेषु ११०० शल्यक्रियाः सम्पन्नाः
Next Article षड्दशकानाम् अनन्तरं महान् विजयः, हाटीसमुदायस्य अनुसूचितजनजाति-स्तरः (ST) पुनर्स्थापितः, उच्चन्यायालयेन निरस्ताः सर्वाः याचिकाः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?