By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: प्रधानमन्त्री राजस्थाने १,०५,००० अधिकानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च अकरोत्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > प्रधानमन्त्री राजस्थाने १,०५,००० अधिकानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च अकरोत्
राष्ट्रीयवार्ताः

प्रधानमन्त्री राजस्थाने १,०५,००० अधिकानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च अकरोत्

डॉ.अमनदीप शर्मा
Last updated: 2026/07/04 at 8:07 PM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

प्रधानमन्त्री राजस्थाने पञ्चोत्तर-एकलक्षकोटिरूप्यकाणां (१,०५,००० कोटि) अधिकानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च अकरोत्
प्रधानमन्त्री राजस्थाने पञ्चोत्तर-एकलक्षकोटिरूप्यकाणां (१,०५,००० कोटि) अधिकानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च अकरोत्
हिमसंस्कृतवार्ता। प्रधानमन्त्री नरेन्द्रमोदी राजस्थानस्य पचपदरायां पञ्चोत्तर-एकलक्षकोटिरूप्यकाणां (१,०५,००० कोटि) अधिकानां विकासपरियोजनानाम् उद्घाटनं शिलान्यासं च अकरोत्। एतत् राज्ये अवसंरचना-ऊर्जा-परिवहन-रोजगारसृजनेषु एकस्य महत्त्वपूर्णस्य उपलब्धेः परिचायकं वर्तते। स्वस्य एकदिवसीययात्रायाः समये प्रधानमन्त्री जोधपुरविमानपत्तने नवीनस्य टर्मिनलभवनस्य उद्घाटनं कृतवान्। अतः परं सः बालोतरामण्डलस्य पचपदरायां देशस्य आधुनिकतमां ‘ग्रीनफील्ड’ परिष्कारशालां (रिफाइनरी) सह-पेट्रोकेमिकल-संयन्त्रं च राष्ट्राय समर्पितवान्। सः परिष्कारशालायाः आधुनिकतमस्य नियन्त्रणकक्षस्य निरीक्षणम् अपि अकरोत्। श्रीमोदी अभियन्तृभिः प्राविधिकविशेषज्ञैः च सह संवादम् अपि अकरोत्।
श्रीमोदी इन्धनवाहनं (टैंकर) हरितपताकां प्रदर्श्य प्रस्थापितवान्। प्रधानमन्त्री जयपुरमेट्रो-द्वितीयचरणाय आभासी-माध्यमेन (वर्चुअल) शिलान्यासम् अकरोत्। ‘ग्रीनफील्ड’ परिष्कारशाला तैल-वाष्प-खनिजानां कृते तादृशः एकः औद्योगिकप्रसंस्करणसंयन्त्रः भवति, यः अविकसितायां स्वच्छायां भूमौ सर्वथा नवीनरूपेण निर्मितः भवति।
सभां सम्बोधयन् प्रधानमन्त्री अवदत् यत् पश्चिमेशियायाः सङ्घर्षेण २१ शताब्द्याः बृहत्तमः ऊर्जासङ्कटः जातः। सः कथयामास यत् भारतस्य समयानुसारं कृतेन निर्णयेन, प्रभावशालिन्या रणनीत्या, राष्ट्रियसंसाधनानां विवेकपूर्णप्रबन्धनेन च देशः अस्मात् सङ्कटात् मुक्तुं समर्थः अभवत्। प्रधानमन्त्री अवदत् यत् यत्र बहवः देशाः इन्धनन्यूनतया युध्यन्ते स्म, तत्र भारतेन सङ्कटस्य सटीकम् आकलनं कृतम्, एका प्रभावशालिनी रणनीतिः रचिता, देशस्य ऊर्जासुरक्षायाः रक्षणाय च स्वस्य राजनयिकशक्तेः उपयोगः कृतः।
श्रीमोदी अवदत् यत् अस्मिन् सङ्कटकाले मित्रदेशैः सह भारतस्य सुदृढैः राजनयिकसम्बन्धैः महती भूमिका निर्वूढा। सः अकथयत् यत् पूर्वं भारतं २५-२६ देशेभ्यः ऊर्जायाः आयातम् करोति स्म, परन्तु अस्मिन् सङ्कटकाले भारतेन अस्य विस्तारः प्रायः चत्वारिंशत् (४०) देशेषु कृतः। अनेन वैश्विकबाधासु सत्स्वपि इन्धनापूर्तिः निर्बाधा सुनिश्चिता अभवत्। श्रीमोदी अवदत् यत् देशस्य तस्य नागरिकाणां च हितं सर्वकारस्य सर्वोच्चप्राथमिकता स्थास्यति। सः अवदत् यत् भारतेन स्वस्य शोधनक्षमतायाः (रिफाइनिंग क्षमता) अपि विस्तारः कृतः। एतत् अधुना विश्वस्य चतुर्थं बृहत्तमं शोधनराष्ट्रं सञ्जातम्।
प्रधानमन्त्री अवदत् यत् वैश्विकसङ्कटे सत्यपि सर्वकारेण पाकवाष्पस्य (एलपीजी) मूल्येषु महतीं वृद्धिं रोधितम्। सः अकथयत् यत् अस्मात् सङ्कटात् एलपीजी-सिलिण्डरस्य मूल्यं प्रायः द्विसहस्ररूप्यकाणि यावत् भवितुम् अशक्नोत्, परन्तु प्रभावी-हस्तक्षेपेण एतत् सुनिश्चितं जातं यत् उपभोक्तारः प्रायः सार्धशतनव (९५०) रूप्यकेषु सिलिण्डरं प्राप्नुवन्तु। सः अवदत् यत् एप्रिलतः जूनमासपर्यन्तं तैलविपणन कम्पनीभिः पेट्रोल-डीजल-इन्धनयोः प्रायः पञ्चसप्ततिकोटिरूप्यकाणां (७५,००० कोटि) हानिः सोढा, यस्याः भारं सर्वकारेण नागरिकाणां कृते आन्तर्राष्ट्रियेन्धनस्य वर्धमानमूल्यानां प्रभावात् रक्षितुं स्वीकृतम्।
श्रीमोदी अवदत् यत् ऊर्जासङ्कटकाले सर्वकारस्य प्रयासाः एकस्मिन् दिने इतिहासे अङ्किताः भविष्यन्ति। सः अवदत् यत् यत्र केचन जनाः वार्ताः प्रसारयितुं भयं च जनयितुं व्यस्ताः आसन्, तत्र अधिकारिणः निर्बाधम् ऊर्जापूर्तिं सुनिश्चितं कर्तुं धैर्येण, कठिनपरिश्रमेण, संवेदनशीलनीतिनिर्णयैः च सह अहोरात्रं कार्यं कुर्वन्तः आसन्। सः अस्मिन् कठिनायां स्थितौ सहयोगार्थं देशवासिनां प्रति कृतज्ञतां ज्ञापितवान्। श्रीमोदी तान् जनान् समालोचितवान् ये राष्ट्रस्य समर्थनस्य स्थाने सङ्कटस्य राजनीतीकरणस्य प्रयासम् अकुर्वन्।
पश्चिमेशिया-यूक्रेनयोः सङ्घर्षकारणात् उत्पन्नायाः वैश्विक-उर्वरक-सङ्कटस्य उल्लेखं कुर्वन् सः अवदत् यत् यत्र बहुषु देशेषु यूरिया-मूल्यं प्रायः त्रिसहस्ररूप्यकाणि प्रतिस्यूतं (पर बोरी) अभवत्, तत्र सर्वकारेण एतत् सुनिश्चितं कृतं यत् भारतीयकृषकाः प्रायः त्रिशतरूप्यकाणि प्रतिस्यूतं दरेण यूरिया प्राप्नुवन्तु, येन ते वैश्विकमूल्यवृद्धितः सुरक्षिताः अभवन्।
पचपदरा-परिष्कारशालायाः उल्लेखं कुर्वन् प्रधानमन्त्री एताम् भारतस्य एकस्य विकसितस्य आत्मनिर्भरस्य च राष्ट्रस्य निर्माणस्य दिशि एकाम् ऐतिहासिकपरियोजनाम् अवदत्। सः अवदत् यत् एषा परिष्कारशाला सहस्रशः जनेभ्यः रोजगारस्य अवसरान् जनयिष्यति, पश्चिमराजस्थाने च औद्योगिकविकासस्य महतीं प्रेरणां दास्यति। राज्यस्य युवकेभ्यः वर्धापनं दत्त्वा सः अवदत् यत् एषा परियोजना क्षेत्रे निवेशस्य आर्थिकविकासस्य च नूतनानि द्वाराणि उद्घाटयिष्यति।
यात्रायाः समये आरब्धानाम् अन्यासां विकासयोजनानाम् उल्लेखं कुर्वन् श्रीमोदी अवदत् यत् जोधपुरविमानपत्तने नवनिर्मितं टर्मिनलबवनं मारवाड़क्षेत्रे पर्यटनं, व्यापारं, रोजगारं च वर्धयिष्यति। सः अवदत् यत् जोधपुरातः संशोधिता उड्डयनयोजना (उड़ान योजना) आरब्धा सती लघुशहरेषु दूरस्थक्षेत्रेषु च वायुसम्पर्कः सुदृढः भविष्यति। सः एतदपि अवदत् यत् राजस्थानस्य शेखावाटीक्षेत्रे जलसङ्कटस्य निवारणाय दीर्घकालिका प्रतीक्षा अधुना समाप्ता भविष्यति, सः च नूतनविकासपरियोजनाभ्यः जनान् अभिनन्दितवान्। सः राजस्थानस्य चिरकालीनानां जलसमस्यानां समाधाने असफलायाः पूर्वतनकाङ्ग्रेससर्वकारस्य आलोचनाम् अकरोत्। श्रीमोदी अवदत् यत् वर्तमानसर्वकारः “राष्ट्रं प्रथमम्” इति दृष्टिकोणेन कार्यं करोति, प्रत्येकस्य क्षेत्रस्य प्रत्येकस्य नागरिकस्य च विकासे ध्यानं केन्द्रीकरोति। श्रीमोदी राजस्थानसर्वकारस्य विविधविभागेषु प्रायः चतुःपञ्चाशत्सहस्र (५४,०००) नवनियुक्तेभ्यः युवकेभ्यः नियुक्तिपत्राणि अपि दत्तवान्।

You Might Also Like

मूल्यस्थिरीकरण-कोषाय पलाण्डोः (प्याज) क्रयमूल्ये १३ प्रतिशतं वर्धितम् – सर्वकारः

संसदः वर्षाकालीनं सत्रं (मानसून सत्र) अस्मात् मासात् विंशति (२०) दिनाङ्कात् आरप्स्यते

वैश्विक-शान्ति-अभियानेषु भारतस्य दीर्घकालिक-योगदानस्य महती मान्यता

एथेनॉल-मिश्रण-कार्यक्रमः चरणबद्धरूपेण वैज्ञानिकरीत्या च प्रचालितप्रक्रियया कार्यान्वितः – उद्योगजगतः

TET UPDATE – २०१० तमवर्षात् पूर्वं नियुक्तेभ्यः शिक्षकेभ्यः टी.ई.टी. अनिवार्या न, एन.सी.टी.ई. इत्यनेन स्पष्टीकृतम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article सामूहिकहिंसा-मिथ्यासङ्घट्ट-भित्तिभञ्जकशासनानां विरोधे भाकपा (माले) दलस्य प्रतिरोधप्रदर्शनम्
Next Article एथेनॉल-मिश्रण-कार्यक्रमः चरणबद्धरूपेण वैज्ञानिकरीत्या च प्रचालितप्रक्रियया कार्यान्वितः – उद्योगजगतः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?