आतङ्कवादं विरुध्य सर्जिकल स्ट्राइक्स, बालाकोट, आपरेशन् सिन्दूर इत्येतानि च निर्णायकानि कार्याणि आसन् – रक्षामंत्री राजनाथसिंहः
रक्षामंत्री राजनाथसिंहः अवदत् यत् भयोत्पादनं विरुध्य शून्य-सहिष्णुतायाः नीतिमनुसृत्य सर्जिकल्-स्ट्राइक्स्, बालाकोट्, आपरेशन् सिन्दूर् इत्यादीनि निर्णायक-कार्याणि यावत्, भारतदेशः स्पष्टम् सन्देशम् प्रेषितवान् यत् तस्य सम्प्रभुता निर्विवाद्या अस्ति । सामाजिक-प्रसार-माध्यमे श्रीसिङ्घः उल्लिखतवान् यत्, प्रधानमन्त्रिणः नरेन्द्रमोदिनः योग्य नेतृत्वे भारते राष्ट्रिय-सुरक्षा-संरचनायां ऐतिहासिक-परिवर्तनम् अभवदिति। सः इत्यपि अवदत् यत् रक्षाक्षेत्रे आत्मनिर्भरतायाः विषये देशस्य संकल्पेन स्वदेशीय क्षमता सुदृढा, सशस्त्र-बलानां आधुनिकीकरणं, भूमि-समुद्र-वायु-साइबर-अन्तरिक्ष-क्षेत्रेषु सज्जता च वर्धिता। रक्षामंत्री अधोरेखितवान् यत् गत द्वादश-वर्षाणां यात्रा दृढतरां, सुरक्षितां, आत्मनिर्भरां, आधिक्येन आत्मविश्वासयुताञ्च भारतमातरं प्रतिविम्बयति ।
भारतस्य रक्षोत्पादनं निवर्तमान वित्तीयवर्षे दशांश-सप्त-अष्टोत्तरैक-लक्षं कोटिरूप्यकाणि अभिलेख्यं यावत् वर्धितम्; विंशति-एकविंशतिः वर्षात् दशाधिकैकशत- प्रतिशतं वर्धितमस्ति ।
रक्षामंत्री राजनाथसिंहः अस्मिन् आर्थिकवर्षे भारतस्य वार्षिक-रक्षा-उत्पादनं सार्वकालिकं दशांश-सप्त-अष्टोत्तरैक-लक्षं कोटिरूप्यकाणि यावत् औन्नत्यं प्राप्नोदिति अवोचत्। सामाजिक-प्रसार-माध्यमे, श्रीसिङ्घः अकथयत् यत् एषा उल्लेखनीया उपलब्धिः पूर्वतनस्य वित्तीयवर्षस्य दशांश-पञ्च-चतुरुत्तरैक-लक्ष-कोटिरूप्यकाणां उत्पादनस्य अपेक्षया दशांशषडुत्तर-पञ्चदश-प्रतिशतं यावत् प्रभावोत्पादिका वृद्धिः, विंशति-एकविंशतिः वित्तीय वर्षाच्च दशाधिकैकशत-प्रतिशतात्मिका अस्ति।
आतङ्कवादं विरुध्य सर्जिकल स्ट्राइक्स, बालाकोट, आपरेशन् सिन्दूर इत्येतानि च निर्णायकानि कार्याणि आसन् – रक्षामंत्री राजनाथसिंहः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
Leave a comment
