शेखपुरामण्डलाय चिकित्सामहाविद्यालयस्योपहारः, त्रिंशद्दिनेषु समस्यायाः अनिस्तारणे अधिकारिणः निलम्बिताः भविष्यन्ति : मुख्यमन्त्री
हिमसंस्कृतवार्ता, राघवनाथ झा।.शेखपुरा, २ जूनमासः (ज्येष्ठकृष्णद्वितीया, २०८३ विक्रमीयः)।शेखपुरामण्डलस्य बरबीघा-प्रखण्डे सामस-बुजुर्ग-पञ्चायते आयोजिते सहयोगशिविरे मुख्यमन्त्रिणा विकास-सुशासन-उत्तरदायित्वविषयेषु अनेकाः महत्त्वपूर्णाः घोषणाः कृताः। अस्मिन् मङ्गलमये अवसरे तेन पञ्चाशत्कोटि (50,00,00,000) रुप्यकाणाम् अपेक्षया अधिकव्यययुक्तानां द्विषष्टिः (62) विकासयोजनानाम् उद्घाटनं शिलान्यासश्च कृतः, तथा च जनसामान्यैः सह साक्षात् संवादं कृत्वा तेषां कष्टानि श्रुतानि।
मुख्यमन्त्रिणा प्रतिपादितं यत् सर्वकारः इदानीं जनतां कार्यालयाणां परिक्रमा न कारयिष्यति, अपितु स्वयं ग्रामं प्राप्य विकासं सेवाश्च प्रदास्यति। तेन घोषितं यत् शेखपुरामण्डले शीघ्रमेव चिकित्सामहाविद्यालयस्य चिकित्सालयस्य च शिलान्यासः विधास्यते, येन मण्डले स्वास्थ्यसुविधानां महत्तरः विस्तारः जनिष्यते।कार्यक्रमे मुख्यमन्त्री कष्टनिवारणप्रणालीं प्रति तीक्ष्णं सन्देशं ददत् अवदत् यत्—आवेदनप्राप्त्यनन्तरं त्रिंशद्दिनानाम् (30) अभ्यन्तरे समाधानं अनिवार्यं भविष्यति। तेन स्पष्टीकृतं यत् दशसु दिनेषु कार्याचरणाभावे प्रथमं सूचनापत्रम्, एकविंशतितमे दिने द्वितीयं सूचनापत्रम्, पञ्चविंशतितमे दिने च अन्तिमा चेतावनी प्रदास्यते; यदि च त्रिंशत्सु दिनेषु निवारणं न भवेत्, तर्हि सम्बद्धः अधिकारी स्वतः एव निलम्बितः मन्स्यते। मुख्यमन्त्रिणा उक्तं यत् एषा व्यवस्था देशे अभिनवा अस्ति, अस्याः मुख्यमुद्देश्यं प्रशासनं पूर्णतया उत्तरदायित्वपूर्णं विधातुम् अस्ति।शिक्षाक्षेत्रे सुधाराय तेन उद्घोषितं यत् महिलाशिक्षिकाणां पदस्थापनं तासां पञ्चायतस्य समीपे तथा च पुरुषशिक्षकाणां पदस्थापनं प्रखण्डस्तरस्य परितः एव विधास्यते। इयं प्रक्रिया जूनमासस्यान्ते यावत् पूर्णकर्तुं लक्ष्यं निर्धारितम् अस्ति।स्वास्थ्यव्यवस्थां सुदृढीकर्तुं तेन प्रतिपादितं यत् आगामी-अगस्तमासस्य पञ्चदशदिनाङ्कं (१५ अगस्त) यावत् निरर्थक-रोगीप्रेषणप्रवृत्तौ अवरोधः विधास्यते, रोगिणां कृते स्थानीयस्तरे एव चिकित्सा-व्यवस्था दृढा कारयिष्यते।धार्मिक-सांस्कृतिक-विकासान्तर्गतं मुख्यमन्त्रिणा विष्णोधाममन्दिरस्य विकासकार्याणां निरीक्षणं कुर्वन् उक्तं यत् अस्य कृते आवश्यकानि सर्वाणि संसाधनानि सर्वकारः प्रदास्यति। मन्दिरपरिसरे अतिथिगृहम्, प्रसादविपणयः, वाहनस्थानम्, परिक्रमापथः, सौन्दर्यीकरणं च इत्यादयः प्रकल्पाः प्रचलन्तः सन्ति।एतदतिरिच्य तेन राज्ये आदर्शविद्यालयाः, पञ्चविंशत्युत्तर-एकशतम् (125) एककपरिमितं निःशुल्क-विद्युद्योजना, सौर-ऊर्जा-विस्तारः, नवीनाः नगरपरियोजनाः, मार्गसम्पर्कविस्तारः, महिला-रोजगारयोजनाः च विकासस्य प्राथमिकता इति गणिताः।अस्मिन् कार्यक्रमे द्विषष्टियोजनानाम् अन्तर्गतं एकपञ्चाशत् (51) उद्घाटानि तथा एकादश (11) शिलान्यासाः समाविष्टाः आसन्।
अस्मिन् महति अवसरे समाजकल्याणमन्त्री सह मण्डलस्य प्रभारिमन्त्री डॉ. श्वेतागुप्ता, अनेके विधायकाः, संसत्सदस्याः, वरिष्ठाः अधिकारिणः, विपुला च स्थानीयजनसंख्या उपस्थिता आसीत्।
