ऑक्सफोर्ड-विश्वविद्यालयस्य बोडलेयन-पुस्तकालयेन शिक्षापत्र्याः द्विशततम-वर्षगांठ-अवसरे संपूर्ण-ब्रिटेन-देशे प्रदर्शनी-यात्रायाः आयोजनम्।
हिमसंस्कृतवार्ता। ऑक्सफोर्ड-विश्वविद्यालयस्य बोडलेयन-पुस्तकालय-शृङ्खलया शिक्षापत्र्याः द्विशततम-वर्षगांठ-अवसरे सम्पूर्णे ब्रिटेन-देशे एका प्रदर्शनी-यात्रा प्रारब्धा। शिक्षापत्री इति हिन्दूधर्मस्य अतीव महत्त्वपूर्णा दुर्लभा च पाण्डुलिपिः अस्ति। ‘शिक्षापत्री’ इत्यस्य अर्थः ‘शिक्षाणाम् सङ्ग्रहः’ इति, या १८२६ तमे वर्षे गुजरातस्य वाडताल-नगरे सहजानन्द-स्वामिना रचिता आसीत्। अस्याः यात्रायाः आयोजनं स्वामीनारायण-सम्प्रदायस्य प्रमुखैः सह मिलित्वा कृतम् अस्ति, यत्र मुख्यमन्दिरेषु अस्याः प्रदर्शनं भविष्यति। अनेन सहस्रशः भक्ताः अस्याः पवित्र-शिक्षापत्र्याः दर्शनस्य अवसरं प्राप्स्यन्ति। अस्यां शिक्षापत्र्यां नैतिक-जीवनस्य आध्यात्मिक-निर्देशानां च उपरि बलं दत्तम् अस्ति। कथ्यते यत् शुक्लपक्षस्य पञ्चम्यां तिथौ इयं लिखिता। अस्मिन् द्वादशाधिक-द्विशतं (२१२) संस्कृत-श्लोकाः सन्ति, येषु हिन्दू-धर्मग्रन्थानां प्रमुखाः शिक्षाः समाहिताः सन्ति।
ऑक्सफोर्ड-विश्वविद्यालयस्य बोडलेयन-पुस्तकालयेन शिक्षापत्र्याः द्विशततम-वर्षगांठ-अवसरे संपूर्ण-ब्रिटेन-देशे प्रदर्शनी-यात्रायाः आयोजनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
