विद्यालयं परित्यक्तानां बालकानां परिचयाय नामाङ्कनाय च सर्वकारेण राष्ट्रव्यापकम् अभियानं प्रारप्स्यते
सर्वकारः विद्यालयात् बहिः स्थितानां (School-dropout) बालकानां परिचयं कर्तुं तेषां पुनः प्रवेशं च कारयितुं राष्ट्रव्यापकम्-अभियानं प्रारप्स्यते। शिक्षा-मन्त्रालयेन सूचितं यत् अस्मात् पदक्षेपात् राष्ट्रिय-शिक्षा-नीतेः अन्तर्गतं २०३० तमवर्षपर्यन्तं प्राथमिकस्तरात् माध्यमिकस्तरं यावत् शतप्रतिशतं सकल-नामाङ्कन-अनुपातस्य (GER) लक्ष्यप्राप्तौ सहायता मिलिष्यति। मन्त्रालयेन उक्तं यत् ये बालकाः आर्थिक-सामाजिक-भौगोलिक-बाधाभिः नियमितरूपेण विद्यालयं गन्तुं असमर्थाः सन्ति, तेषां कृते मुक्त-विद्यालयः (Open School) एकः व्यावहारिकः विकल्पः अस्ति।
मन्त्रालयः शिक्षायाः सुलभतां, गुणवत्तां, मानकीकरणं च सुदृढीकर्तुं ध्यानं केन्द्रीकरोति। देशे दशसहस्रात् अधिकानां अध्ययन-परीक्षाकेन्द्राणां माध्यमेन राष्ट्रिय-मुक्त-विद्यालयी-संस्थानम् (NIOS) ईदृशं मञ्चं प्रददाति, येन सामाजिक-आर्थिक-वैयक्तिक-कारणैः प्रभाविताः छात्राः मुख्यधारायां आनेतुं शक्यन्ते।
शिक्षा-मन्त्रालयस्य अधीनं एकः स्वायत्त-निकायः राष्ट्रिय-मुक्त-विद्यालयी-संस्थानम् विश्वस्य बृहत्तमः मुक्त-विद्यालय-बोर्ड् अस्ति। एतत् मुक्त-दूरस्थ-शिक्षायाः (Open and Distance Learning) माध्यमेन गुणवत्तापूर्णां शिक्षां कौशलविकासं च समावेशि-रीत्या प्रदाति। अनेन शिक्षायाः सार्वभौमीकरणं, समानता, सामाजिकन्यायः च प्रवर्धन्ते। एषा प्रणाली प्रवेशे शिथिलतां, परीक्षायां उत्तीर्णतायै अनेकान् अवसरान्, माङ्ग-आधारित-परीक्षा-प्रणालीं (On-Demand Examination) च प्रदाति।
