भारत-विद्युत्-शिखरसम्मेलनम् २०२६ ‘विकसितभारतम् २०४७’ इति लक्ष्यप्राप्तये महत्त्वपूर्णां भूमिकां निर्वक्ष्यति: विद्युत्मन्त्री मनोहरलालः
केन्द्रसर्वकारेण उक्तं यत् राज्येभ्यः विद्युत्क्षेत्रे बृहत्-सुधाराणाम् कार्यान्वयनाय पूर्णं समर्थनं प्रदास्यते। केन्द्रीय-विद्युत्मन्त्री मनोहरलालः राज्येभ्यः विधिक-प्रशासनिक-उपायैः सह परिष्काराणां विश्वासं दत्तवान्। ‘भारत-विद्युत्-शिखरसम्मेलनम् (BES) २०२६’ इत्यस्मिन् राज्यैः केन्द्रशासितप्रदेशैः च सह मन्त्रिस्तरीय-उपवेशने अध्यक्षतां कुर्वन् श्री मनोहरलालः देशस्य ५२० गीगावाट (GW) इत्यस्मात् अधिकां स्थापितां क्षमताम्, ‘डिस्कॉम’ (DISCOMs) इत्यस्य उत्तमं प्रदर्शनम्, व्यापकस्तरे ‘स्मार्ट-मीटर’ इत्यस्य स्थापनां तथा विद्युत्-कर्टने न्यूनतां च इत्यादिनाम् उपलब्धीनां विवरणं दत्तवान्।
आर्थिकविकासार्थं आधारभूत-संरचनार्थं च विद्युत्शक्तिं मौलिक-आवश्यकतां कथयन् केन्द्रीयमन्त्री अवदत् यत् ‘बीईएस २०२६’, ‘विकसितभारतम् २०४७’ इति स्वप्नं साकारीकर्तुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। सः सुलभे (Affordable) मूल्ये विद्युत्-उत्पादनं, प्रेषणं (Transmission) तथा वितरणं सुनिश्चितं कर्तुं केन्द्र-राज्ययोः मध्ये समन्वित-प्रयासानाम् आह्वानं कृतवान्।
वैश्विक-अनिश्चिततानां मध्ये ऊर्जा-सुरक्षायाः महत्त्वे बलं दत्त्वा सः प्रतिव्यक्ति-ऊर्जा-उपभोगं वर्धयितुं तथा नवीकरणीय-ऊर्जा-प्रयासेषु तीव्रतां आनेतुं आवश्यकतां प्रतिपादितवान्। अस्मिन् उपवेशने जीवाश्म-इन्धन-मुक्त-ऊर्जास्त्रोतः (Fossil fuel-free sources) माध्यमेन ऊर्जा-सुरक्षां वर्धयितुं ध्यानं केन्द्रितम् आसीत्। विद्युत्-नवीकरणीय-ऊर्जा-विभागानां सचिवानां द्वारा अपि देशस्य वर्धमानां ऊर्जा-माङ्गं पूरयितुं सामूहिक-कार्यप्रक्रिया-विषये बलं दत्तम्।
