पश्चिम-एशिया-सङ्घर्षः-: ईरानस्य गुप्त-परमाणु-केन्द्रे अमेरिका-देशस्य प्रहारः
पश्चिम-एशिया-क्षेत्रे वर्तमानं युद्धम् अधुना अतीव भयानकं स्वरूपं प्राप्तवत्। अमेरिका-देशेन ईरानस्य संदिग्ध-परमाणु-केन्द्रे विश्वस्य अत्यन्तं शक्तिशाली ‘अ-परमाणु’ बङ्कर-बस्टर-प्रक्षेपास्त्रेण (GBU-57 MOP) आक्रमणं कृतम्।
लक्ष्यम्-: एषः प्रहारः तेहरान-समीपे स्थितस्य ‘पारचिन’ सैन्य-परिसरस्य गुप्त-स्थले ‘टालेगन-2’ इत्यत्र अभवत्। एतत् स्थलं दीर्घकालात् ईरानस्य परमाणु-शस्त्र-कार्यक्रमेण सह सम्बद्धं मन्यते।
अस्त्रप्रकारः-: प्रायः 13.6 टन भारयुक्तः अयं ‘मैसिव ऑर्डनेंस पेनेट्रेटर’ (MOP) गोलकः B-2 स्टील्थ बॉम्बर विमानेन निक्षिप्तः। एतदस्त्रं भूमेः अन्तः गभीर-बङ्करान् तथा दृढ-शैलान् भेत्तुं निर्मितम् अस्ति।
प्रभावः-: उपग्रह-चित्रैः ज्ञायते यत् प्रहारानन्तरं भूमौ विशालाः गर्ताः अभवन्। एतेन सङ्केतः प्राप्यते यत् ईरानस्य परमाणु-गतिविधिषु महती क्षतिः जाता।
विश्लेषणम्
> “विशेषज्ञाणां मते, अस्मात् प्रहारात् परं युद्धमिदं केवलं क्षेत्रीय-सङ्घर्षः न अभवत्, अपितु साक्षात् ईरानस्य परमाणु-कार्यक्रमं समाप्तं कर्तुं रणनीतौ परिवर्तितम्।
