आई सी सी टी 20 विश्वचषक: 2026
परिवर्तितः इतिहास:, रचितः इतिहास:
विश्वविजेता भारतम्-ः आई सी सी विंशति: विंशति: विश्वचषके भारतदेशः तृतीयबारं विश्वविजेता। अन्तिमक्रीड़ायां भारतेन न्यूज़ीलैंड दलं 96 धावनांकैः पराजित्य विजितं चषकम्।।
हिमसंस्कृतवार्ता:- कामेश्वर शर्मा। विंशति: विंशति: क्रिकेट विश्वचषके 2026 अहमदाबादस्थे नरेन्द्रमोदी इति क्रीडांगणे रविवासरे भारतेन न्यूजीलैण्डदलं 96 धावनांकैः पराजितम्। अनेन विजयेन भारतं क्रमशः द्वितीयवारं विजेता अभवत्। पणकं विजित्य न्यूजीलैण्डदलेन क्षेत्ररक्षणं चयनितम्। परन्तु एषः निर्णय: न्यूज़ीलैंडदलस्य कृते सफल: नाभवत्। भारतस्य प्रारम्भः सुदृढः अभवत्। भारतीय- प्रारम्भिकक्रीडकौ अभिषेक शर्मा संजू सैमसन: च मिलित्वा सप्तकन्दुकचक्रेषु तीव्रतया 98 धावनांका: कृता:। अभिषेक शर्मा 21 कन्दुकेषु 52, संजू सैमसन पुनरेकबारं शतकात् रहित: एव आसीत्। सः 46 कन्दुकेषु 89, ईशान किशन: 25 कंदुकेषु 54 धावनांकान् योजितवन्त:।

संजू सैमसन: ईशान किशनश्च द्वितीयस्तोभाय 105 (48) धावनांकानां सहभागिताम् अकुरुताम्। मध्ये भारतस्य पाली किञ्चित् स्खलिता अवश्यमेव अभवत् परं तस्य अधिका हानि: नाभवत्। शिवम दुबे अन्ते त्वरया 8 कन्दुकेषु अविजितं 26 धावनांकान् अर्जितवन्तः। एतेषां सहयोगेन भारतेन 20 कन्दुचक्रेषु 5 स्तोभहानौ 255 धावनांकाः अर्जिताः। न्यूज़ीलैंडदलस्य कृते विजेतुं 256 धावनांकानां सुविशालं लक्ष्यं प्रदत्तम्। न्यूज़ीलैंडपक्षतः जेम्स नीशम 3, रचिन रविन्द्र: 1, मैट हैनरी च 1 स्तोभम् अर्जितवन्तः।

प्रत्युत्तरे न्यूजीलैण्डदलस्य प्रारम्भः सुदृढः नाभवत्। फिन एलन 9, रचिन रवीन्द्र: 1, ग्लेन फिलिप्सश्च 5 धावनांकानामोपरि बाधिताः। प्रारम्भिकक्रीडक: टिम सीफर्ट 26 कन्दुकेषु 52 धावनांकान् अर्जितवान्। मार्क चैपमैन 03, डेरिल मिशेल 17, मिचेल सैंटनर सर्वाधिकं 43, जेम्स नीशम 08, मैट हेनरी 0, लौकी फर्ग्युसन 06, जैकब डफी च 03 धावनांकान् कृतवन्त:। अनेन न्यूजीलैण्डदलेन 19 कन्दुचक्रेषु 259 धावनांकाः एव अर्जिताः।

भारतीयकन्दुकक्षेपकेषु जसप्रीत बुमराह 04, अक्षर पटेल 03, अभिषेक शर्मा, हार्दिक पांड्या, वरुण चक्रवर्ती च 1-1 स्तोभं स्वीकृतवन्तः। स्वकीयोत्तम प्रदर्शनाय संजू सैमसन स्पर्धापुरुषः तथा ___ विश्वचषकस्य सर्वश्रेष्ठः क्रीडकः चयनितः।
