पुरुषाणां कुन्तक्षेपक्रीडायां (जैवलीनथ्रो) आशीष यादवः संयुक्तराज्यामेरिकादेशे विश्व-ऐथलेटिक्स्-यू-20- चैम्पियन्शिप्-क्रीडायां रजतपदकं प्राप्तवान्
अमेरिकादेशस्य यूजीन्-नगरे प्रचलतायां विश्व-एथलेटिक्स-अण्डर-२०-चैम्पियनशिप्-क्रीडायां तृतीये दिने भारतेन स्वस्य पदकाभियानम् आरब्धम् । पुरुषाणां जैवलिन् श्रो इति-स्पर्धायां आशीष यादवः रजतपदकं प्राप्तवान् । नवदश वर्षीयः आशीषः तृतीयप्रयासे चतुसप्ततिः अधिक शून्य नव मीटर् मितं व्यक्तिगतं सर्वोत्तमक्षेपं प्राप्य द्वितीयस्थानं प्राप्तवान् । आशीषः अस्मिन् स्पर्धायां रजतपदकं प्राप्तवान् सः नीरजचोपरा इत्यस्य पश्चात् द्वितीयः भारतीयः अभवत् । दक्षिण आफ्रिकादेशस्य जन-हेण्ड्रिक् हेमैन्स् इत्यनेन स्वर्णपदकं प्राप्तम् ।
पुरुषाणां कुन्तक्षेपक्रीडायां (जैवलीनथ्रो) आशीष यादवः रजतपदकं प्राप्तवान्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
