By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: देहल्यां सेवातीर्थपरिसरस्य उद्घाटनं कृतं प्रधानमन्त्रिणा
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > देहल्यां सेवातीर्थपरिसरस्य उद्घाटनं कृतं प्रधानमन्त्रिणा
राष्ट्रीयवार्ताः

देहल्यां सेवातीर्थपरिसरस्य उद्घाटनं कृतं प्रधानमन्त्रिणा

डॉ.अमनदीप शर्मा
Last updated: 2026/02/14 at 7:53 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
3 Min Read
SHARE

देहल्यां सेवातीर्थपरिसरस्य उद्घाटनं कृतं प्रधानमन्त्रिणा
हिमसंस्कृतवार्ता। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् ‘सेवा तीर्थम्’ तथा ‘कर्तव्य भवनम्’ च देशस्य जनानाम् आकांक्षाः पूरयितुं निर्मितम् अस्ति। सः अकथयत् यत् ‘सेवा तीर्थम्’, ‘कर्तव्य भवनम्-१’, ‘कर्तव्य भवनम्-२’ च विकसितभारतस्य यात्रायां प्रमुखाः सोपानाः सन्ति।
नवदिल्ल्यां सायं सेवा-तीर्थ-परिसरे एकां सभां सम्बोधयन् श्रीमोदी अवदत् यत् एतानि भवनानि ‘नागरिक-केन्द्रित-शासनम्’ देशस्य प्रगत्यै सर्वकारस्य प्रतिबद्धतां च दर्शयन्ति। सः बलम् अददात् यत् अत्र गृहीताः निर्णयाः कस्यचित् राज्ञः विचारधारां न, अपितु १४० कोटि-नागरिकाणाम् आशाः अग्रे नेतुं आधारशिला भविष्यन्ति।स्वातन्त्र्यात् परं देशस्य कृते अनेकाः महत्त्वपूर्णाः निर्णयाः नीतयः च ‘साउथ ब्लॉक’, ‘नॉर्थ ब्लॉक’ सदृशभवनैः कृताः। प्रधानमन्त्री अवदत् यत् एतानि भवनानि ब्रिटिश-साम्राज्यस्य प्रतीकरूपेण निर्मितानि आसन्, येषाम् उद्देश्यं भारतं शताब्द्यः यावत् दासतायां बद्धुंम् आसीत्। सः अकथयत् यत् यथा यथा वयं विकसितभारतं प्रति गच्छामः, तथा तथा अनिवार्यम् अस्ति यत् भारतं औपनिवेशिक-चिन्तनस्य सर्वान् अवशेषान् त्यजाम।प्रधानमन्त्रिणा उक्तं यत् २१ तमायाः शताब्द्याः प्रथमः पादः समाप्तः अस्ति। अतः विकसितभारतस्य परिकल्पना केवलं नीतिषु योजनासु च न, अपितु कार्यस्थलेषु कार्यालयेषु च अपि दृश्येत्। सः उल्लिखितवान् यत् यतः देशः संचाल्यते, तत् स्थानं प्रभावशाली, कार्यक्षमम्, उत्साहवर्धकं च भवेत्।श्रीमोदी अवदत् यत् स्वातन्त्र्यस्य दशकानि परम् अपि भारतसर्वकारस्य अनेके मन्त्रालयाः दिल्ल्यां ५० तः अधिकेषु पृथक् स्थानेषु कार्यं कुर्वन्ति स्म। एतेषां भवनानां भाटके प्रतिवर्षं १५०० कोटि-रुप्यकाणि व्ययीक्रियन्ते स्म। अपि च, प्रतिदिनं ८ तः १० सहस्र-कर्मचारिणां गमनागमनेन ‘लॉजिस्टिक्स’ व्ययः अपि भवति स्म। सेवा-तीर्थस्य कर्तव्य-भवनस्य च निर्माणेन एते व्ययाः न्यूनाः भविष्यन्ति, कर्मचारिणां समयस्य च रक्षणं भविष्यति। सः अवदत् यत् ‘सेवा तीर्थम्’ केवलं नाम न, अपितु एकः संकल्पः अस्ति। एतत् नागरिकाणां सेवया सह पवित्रं स्थानं तथा सेवायाः प्रतिज्ञापूर्तेः स्थलमस्ति। ‘रेस कोर्स रोड’ इत्यस्य नाम परिवर्तयितुं ‘लोक कल्याण मार्गः’ इति कृतम्, एतत् केवलं नामपरिवर्तनं नास्ति, अपितु सत्तायाः चिन्तनं सेवाभावे परिवर्तयितुं प्रयासः अस्ति।

प्रधानमन्त्री अवदत् यत् यथा यथा भारतं ‘रिफॉर्म एक्सप्रेस’ इत्यस्मिन् आरुह्य अन्ताराष्ट्रिय-सम्बन्धेषु नूतनम् अध्यायम् आलिखति, व्यापार-सन्धिभिः नूतन-द्वाराणि उद्घाटयति, तथा तथा ‘सेवा तीर्थे’ ‘कर्तव्य भवने’ च कार्यस्य नूतना गतिः, आत्मविश्वासः च राष्ट्रस्य लक्ष्याणां प्राप्तौ महतीं भूमिकां निर्वक्ष्यति।सः अकथयत् यत् गतैकादश-वर्षेषु शासनस्य नूतनः प्रतिमानः (Model) प्रकटीभूतः, यत्र नागरिकाः निर्णयप्रक्रियायाः केन्द्रे सन्ति। “नागरिक देवो भव” केवलं सूक्तिः न, अपितु कार्यसंस्कृतिः अस्ति। अधिकारिभिः एतेषु नूतनभवनेषु प्रवेशसमये एषा एव संस्कृतिः स्वीकरणीया। श्रीमोदी उद्घोषितवान् यत् सेवा-तीर्थे गृहीतः प्रत्येकं निर्णयः, प्रेषिता प्रत्येका सञ्चिका (File), व्यतीतः प्रत्येकः क्षणः च १४० कोटि-नागरिकाणां जीवनं सुखमयं कर्तुं भवेत्।अस्मिन् अवसरे श्रीमोदी ‘सेवा तीर्थ’ स्मारक-मुद्रां (Coin) डाक-पत्रकं (Stamp) च विमोचितवान्।

You Might Also Like

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

संस्कृतदिवसविशेषः – पाणिनेः सूत्रेभ्यः ए.आई.-पर्यन्तं संस्कृतेः नूतनम् उड्डयनम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article सरोजिनीनायडूमहोदयाया: व्यक्तित्वं कृतित्वं च (जयंतीविशेष:)
Next Article संसदस्य बजट-सत्रस्य प्रथमचरणस्य समापनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?