संसदस्य बजट-सत्रस्य प्रथमचरणस्य समापनम्
बजट-सत्रस्य प्रथमः चरणः सम्पन्नः, मार्च-मासस्य नवमे दिनाङ्के पुनः भविष्यति उभयोः सदनयोः उपवेशनम्।
संसदः उभयोः सदनयोः कार्यप्रक्रिया स्थगिता अस्ति। अधुना बजट-सत्रस्य द्वितीयभागाय ९ मार्च दिनाङ्के पुनः मेलनं भविष्यति। बजट-सत्रस्य प्रथमः चरणः गतमासस्य २८ दिनाङ्के राष्ट्रपति द्रौपदी मुर्मू महोदयायाः उभयोः सदनयोः संयुक्त-अभिभाषणेन सह आरब्धः आसीत्। द्वि-चरणेषु आयोजितस्य अस्य बजट-सत्रस्य द्वितीयः भागः अस्मिन् वर्षे ९ मार्चतः २ एप्रिल पर्यन्तं चलिष्यति।
लोकसभायाः वृत्तान्तः:-लोकसभायां प्रथम-स्थगनात् परं यदा कार्यप्रक्रिया पुनः आरब्धा, तदा अनेकैः मन्त्रिभिः स्व-मन्त्रालयैः सम्बद्धाः अधिसूचना उपस्थापिताः। ततः परं पीठासीन-अधिकारिणी सन्ध्या राय सदनं स्थगितवती। तत्पूर्वं, सदनस्य आरम्भे पीठासीन-अधिकारिण्या भूतपूर्व-सांसदस्य भगवान दास राठौर महोदयस्य निधने शोकः प्रकटितः। दिवङ्गतस्य नेता महोदयस्य निधनं २१ जनवर्याम् अभवत्। सदनस्य सदस्यैः तस्य सम्मानार्थं मौनं च धृतम्।
प्रश्नकालस्य समये स्वास्थ्यमन्त्री जेपी नड्डा महोदयः ‘कोडीन’ युक्त-कफ-सिरप (कफ-औषधम्) सेवनेन जात-मृत्यु-सम्बद्धस्य प्रश्नस्य उत्तरं दातुं प्रयतितवान्, परन्तु विपक्षस्य कोलाहलेन सः स्वकीयं उत्तरं पूर्णं कर्तुं न शक्तवान्। कांग्रेस-तृणमूल कांग्रेस-डीएमके इत्यादिदलानां सदस्याः सदनस्य मध्यभागं (Well) गत्वा घोषणां (Sloganeering) कृतवन्तः। मन्त्रिणा सदनस्य सुचारु-सञ्चालनाय प्रार्थना कृता, तथापि विपक्षस्य विरोधः निरन्तरं प्राचलत्। अस्य कोलाहलस्य कारणेन लोकसभायाः कार्यवाही मध्याह्ने १२ वादनपर्यन्तं स्थगिता।
राज्यसभायाः वृत्तान्तः: अपरपक्षे, राज्यसभायां शून्यकालः तथा प्रश्नकालः च सुचारुरूपेण सम्पन्नौ। प्रातः सदनस्य आरम्भे अनेकैः सदस्यैः स्व-दस्तावेजाः पटले स्थापिताः। राज्यसभायाः सभापतिः सी.पी. राधाकृष्णन् महोदयः राष्ट्रपति-महोदयायाः सन्देशं पठितवान्, यस्मिन् उक्तं यत् २८ जनवर्याम् उभयोः सदनयोः कृते दत्त-भाषणार्थं सदस्यानां ‘धन्यवाद-प्रस्तावः’ तया प्राप्तः अस्ति।
संसदस्य बजट-सत्रस्य प्रथमचरणस्य समापनम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
