By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: HP WEATHER – वृष्टि-हिमपाताभ्यां शुद्धा वायुः प्राप्ता; हिमाचले वायुगुणवत्तासूचकाङ्के (AQI) परिष्कार:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > हिमाचलवार्ता > HP WEATHER – वृष्टि-हिमपाताभ्यां शुद्धा वायुः प्राप्ता; हिमाचले वायुगुणवत्तासूचकाङ्के (AQI) परिष्कार:
हिमाचलवार्ता

HP WEATHER – वृष्टि-हिमपाताभ्यां शुद्धा वायुः प्राप्ता; हिमाचले वायुगुणवत्तासूचकाङ्के (AQI) परिष्कार:

डॉ मनोज शैल
Last updated: 2026/01/25 at 10:03 PM
डॉ मनोज शैल
Share
1 Min Read
SHARE

HP WEATHER – वृष्टि-हिमपाताभ्यां शुद्धा वायुः प्राप्ता; हिमाचले वायुगुणवत्तासूचकाङ्के (AQI) परिष्कार:

हिमसंस्कृतवार्ता: – शिमला। 

दीर्घकालस्य शुष्क-ऋतोः, धूलिकणानां, वनाग्नेः, खननकार्याणां च कारणात् प्रदूषिता हिमाचलस्य वायुः सम्प्रति जातायाः वृष्टेः हिमपातस्य च कारणात् शुद्धा संजाता। एतया वृष्ट्या वायुमण्डले स्थिताः धूलिकणाः प्रदूषकाः च धौताः, येन राज्यस्य अधिकांशनगरेषु वायुगुणवत्तासूचकाङ्कः (AQI) सामान्य-मध्यम-स्तरं प्रति आगतः।

सर्वाधिकं परिवर्तनं बरोटीवाला-नालागढ़ औद्योगिकक्षेत्रे दृश्यते, यत् पूर्वं राज्यस्य सर्वाधिकं प्रदूषितं क्षेत्रं मन्यते स्म। तत्र एक्यूआई-स्तरः इदानीं १०४ अङ्कितः, यदा तु पूर्वं ‘बद्दी’ क्षेत्रे एषः ३०० अङ्कात् अपि अधिकः भवति स्म।

नगराणां वायुगुणवत्ता-विवरणम्

राजधान्यां शिमलायां सर्वाधिकं शुद्धा वायुः अङ्किता। अत्र एक्यूआई-स्तरः ११० तः परिष्कृत्य ४१ जातः, यः ‘उत्तमश्रेण्यां’ (Good Category) आगच्छति। अन्यनगराणां स्थितिः एवमस्ति:

परवाणू: ४९

सुन्दरनगरम्: ५९

धर्मशाला: ५७

मनाली: ७१

ऊना: ७४

डलहौजी: ६०

कलाम्ब: ८९

पावंटा साहिब: १३२

 

प्रदूषण-नियन्त्रण-मण्डलस्य मतम्

हिमाचलप्रदेशराज्यप्रदूषणनियन्त्रणमण्डलस्य अधिकारिणः अवदन् यत् PM10 तथा PM2.5 कणानां शमने वृष्टेः मुख्या भूमिका वर्तते। ते अज्ञापयन् यत् निर्माणात्मक-सामग्रीणां विवृत-वाहनेषु (Open vehicles) नयनस्य उपरि कृतः प्रतिबन्धः अपि धूलिप्रदूषणं न्यूनीकर्तुं सहायकः अभवत्।

पर्यावरणविशेषज्ञाः तु चेतयन्ति यत् अयं परिष्कार अस्थायी भवितुं शक्नोति। यदा पुनः शुष्क-ऋतुः आगमिष्यति, तदा मार्गाणां उचित-रक्षणं, खनने नियन्त्रणं, वाहनानां धूमनियन्त्रणं च आवश्यकं भविष्यति, येन वायुः चिरकालं यावत् शुद्धा तिष्ठेत्।

You Might Also Like

HP SNOWFALL हिमाचले महत्-हिमपातेन जनजीवनं अस्तव्यस्तं, ३२०० तः अधिकाः विद्युत्- परिवर्तकाः बाधिता: 

धर्मशाला-छात्रा-मृत्युप्रकरणम् – अन्वेषणे जातिगत-आलोचनायाः ‘रैगिंग’ इत्यस्य च किमपि प्रमाणं न प्राप्तम्; यौनशोषणस्य कोणात् अन्वेषणं प्रचलति

देहली- शिमला- धर्मशाला- उड्डयनानां सुचारुसञ्चालनाय राज्यसर्वकारः प्रतिवर्षं ३१ कोटिरूप्यकाणि दास्यति- मुख्यमंत्री 

पञ्चायत-निर्वाचनम् – हिमाचले पञ्चायत- निर्वाचनस्य सिद्धता तीव्रा निर्वाचन-आयोगस्य निर्देशः 

“मनरेगा बचाओ संग्राम: राज्यसर्वकारः होराद्वयं यावत् उपवासं करिष्यति

TAGGED: him sanskrit varta, him sanskritam, himachal abhi abhi, Himachal news, himachal update, Himachal weather, himsanskrit varta, Himsanskritam, Himsanskritnews, himsanskritnews headlines, HP NEWS, HP weather, Meteorological Centre, Meteorological Department:, National News, national News Headlines, News Headlines, अन्तर्राष्ट्रीय समाचार, दिव्य हिमाचल समाचार, मुख्य वार्ता, मुख्य समाचार, राष्ट्रीय समाचार, हिम संस्कृत वार्ताः, हिम संस्कृतम्, हिमसंस्कृतम्, हिमसंस्कृतवार्ताः, हिमाचल अपडेट, हिमाचल अभी अभी, हिमाचल समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ मनोज शैल
Follow:
शास्त्री, एम.ए. संस्कृत, एमफिल., पीएचडी, आचार्य, बीएड, पीजी डिप्लोमा इन योग ग्राम साई-ब्राह्मणा, पत्रा. साई-खारसी, तह. सदर, जिला बिलासपुर (हि.प्र.) 174001 संस्कृत शिक्षक हिमाचल प्रदेश शिक्षा विभाग एवं प्रदेशाध्यक्ष हिमाचल राजकीय संस्कृत शिक्षक परिषद्
Previous Article गणतन्त्रदिवसे ३९७ बन्दिनां दण्डमुक्तेः हिमाचलसर्वकारस्य घोषणा; जघन्य-अपराधिनः एतस्माद् अनुग्रहात् बहिः
Next Article Chamba News – आकाशे सेनायाः हेलिकॉप्टर-यानानि, भूमौ च ‘हाईटैक-ड्रोन’ माध्यमेन अन्वेषणम्; अद्यापि न प्राप्तः युवयो: सङ्केत:
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?