HP WEATHER – वृष्टि-हिमपाताभ्यां शुद्धा वायुः प्राप्ता; हिमाचले वायुगुणवत्तासूचकाङ्के (AQI) परिष्कार:
हिमसंस्कृतवार्ता: – शिमला।
दीर्घकालस्य शुष्क-ऋतोः, धूलिकणानां, वनाग्नेः, खननकार्याणां च कारणात् प्रदूषिता हिमाचलस्य वायुः सम्प्रति जातायाः वृष्टेः हिमपातस्य च कारणात् शुद्धा संजाता। एतया वृष्ट्या वायुमण्डले स्थिताः धूलिकणाः प्रदूषकाः च धौताः, येन राज्यस्य अधिकांशनगरेषु वायुगुणवत्तासूचकाङ्कः (AQI) सामान्य-मध्यम-स्तरं प्रति आगतः।
सर्वाधिकं परिवर्तनं बरोटीवाला-नालागढ़ औद्योगिकक्षेत्रे दृश्यते, यत् पूर्वं राज्यस्य सर्वाधिकं प्रदूषितं क्षेत्रं मन्यते स्म। तत्र एक्यूआई-स्तरः इदानीं १०४ अङ्कितः, यदा तु पूर्वं ‘बद्दी’ क्षेत्रे एषः ३०० अङ्कात् अपि अधिकः भवति स्म।
नगराणां वायुगुणवत्ता-विवरणम्
राजधान्यां शिमलायां सर्वाधिकं शुद्धा वायुः अङ्किता। अत्र एक्यूआई-स्तरः ११० तः परिष्कृत्य ४१ जातः, यः ‘उत्तमश्रेण्यां’ (Good Category) आगच्छति। अन्यनगराणां स्थितिः एवमस्ति:
परवाणू: ४९
सुन्दरनगरम्: ५९
धर्मशाला: ५७
मनाली: ७१
ऊना: ७४
डलहौजी: ६०
कलाम्ब: ८९
पावंटा साहिब: १३२
प्रदूषण-नियन्त्रण-मण्डलस्य मतम्
हिमाचलप्रदेशराज्यप्रदूषणनियन्त्रणमण्डलस्य अधिकारिणः अवदन् यत् PM10 तथा PM2.5 कणानां शमने वृष्टेः मुख्या भूमिका वर्तते। ते अज्ञापयन् यत् निर्माणात्मक-सामग्रीणां विवृत-वाहनेषु (Open vehicles) नयनस्य उपरि कृतः प्रतिबन्धः अपि धूलिप्रदूषणं न्यूनीकर्तुं सहायकः अभवत्।
पर्यावरणविशेषज्ञाः तु चेतयन्ति यत् अयं परिष्कार अस्थायी भवितुं शक्नोति। यदा पुनः शुष्क-ऋतुः आगमिष्यति, तदा मार्गाणां उचित-रक्षणं, खनने नियन्त्रणं, वाहनानां धूमनियन्त्रणं च आवश्यकं भविष्यति, येन वायुः चिरकालं यावत् शुद्धा तिष्ठेत्।
