हिमाचलप्रदेशस्य ४७ नगरनिकायेषु प्रशासकाः नियुक्ताः; विकासकार्याणां कृते सर्वकारेण प्रदत्ताः वित्तीयाधिकाराः
हिमसंस्कृतवार्ता:- कार्यालयीय: प्रतिनिधि:।
हिमाचलप्रदेशसर्वकारेण राज्यस्य ४७ नगरनिकायेषु वरिष्ठकार्यकारी- अधिकारिणः, कार्यकारी- अधिकारिणः, सचिवान् च प्रशासकरूपेण (Administrators) नियोक्तुं आदेशाः कृताः। एताः नियुक्तयः तत्कालप्रभावेण जनहितार्थं कृताः सन्ति। सर्वकारेण सर्वेषां सम्बद्ध- जनपदाधिकारिणाम्, उपमण्डलाधिकारिणां, नगरनिकाय- अधिकारिणां च कृते अस्य आदेशस्य कठोरतया पालनं सुनिश्चितं कर्तुं निर्देशः दत्तः। सर्वकारेण प्रसारितादेशानुसारं, हिमाचलप्रदेश- नगरपालिका- अधिनियमः, १९९४ इत्यस्य धारा २६८(१) इत्यन्तर्गतं एषा व्यवस्था कृता अस्ति। आदेशानुसारं नगरनिकायानां सुचारुसञ्चालनाय एसडीएम (SDM) महोदयेभ्यः एकलक्षतः पञ्चलक्षपरिमित- रूप्यकाणां विकासकार्याणां कृते प्रशासकीय-स्वीकृतेः अधिकाराः दत्ताः। एषा प्रशासकीयव्यवस्था तावत्पर्यन्तं प्रचरिष्यति, यावत् सर्वकारः अग्रिमादेशं न ददाति।
एतेषु नगरनिकायेषु प्रशासकाः नियुक्ताः
येषु ४७ नगरनिकायेषु प्रशासकाः नियुक्ताः, तेषु प्रमुखाः सन्ति: बिलासपुरम्, श्रीनयनादेवीजी, घुमारवीं, चम्बा, डलहौजी, सुजानपुर-टिहरा, नादौन, काङ्गडा, नूरपुरम्, नगरोटा-बगवां, ज्वालामुखी, मनाली, कुल्लू:, भुन्तरम्, सुन्दरनगरम्, जोगिन्द्रनगरम्, करसोगः, रोहडू, रामपुरम्, ठियोगः, नाहनम्, पांवटा-साहिब, नालागढं, परवाणू, अर्की, सन्तोसगढं, गगरेट च।
कस्माद् कारणात् स्वीकृतः अयं निर्णयः?
नगरविकासविभागस्य प्रमुखसचिवः स्पष्टं कृतवान् यत् नगरनिकायानां दैनिक- प्रशासकीय- विकासात्मककार्याणि येन बाधितानि न भवेयुुः, तदर्थं एषः निर्णयः स्वीकृतः। अनेन विकासकार्याणां गतिः स्थिरा भविष्यति।
