लोकभवने उत्तरप्रदेश-त्रिपुरा-मेघालय-मणिपुर-राज्याणां स्थापनादिवसस्य आयोजनम्
हिमसंस्कृतवार्ता: – शिमला। शिमला-स्थितस्य लोकभवनस्य प्राङ्गणे उत्तरप्रदेश-त्रिपुरा-मेघालय-मणिपुर-राज्याणां स्थापनादिवस-समारोहः आयोजितः। अस्मिन् अवसरे उत्तरप्रदेश-विधानपरिषदः सदस्यः धर्मेन्द्र भारद्वाजः विशिष्टातिथिरूपेण उपस्थितः अभवत्। लेडी गवर्नर श्रीमती जानकी शुक्ला अपि कार्य्रकमे उपस्थिता आसीत्। राज्यपालः स्वसम्बोधने अवदत् यत् संस्कृतीनां मिलनस्य अयं कार्यक्रमः यत्र अस्माकं पारस्पारिकं सौहार्दं, प्रेम, भ्रातृभावं च सुदृढं कर्तुं सहायकः अस्ति, तत्रैव देशस्य विकासे सर्वेषां सहयोगं अपि सूचयति। सः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिन: प्रयासैः लोकभवनेषु एतादृश-मिलन-कार्यक्रमैः संस्कृतीनां आदान-प्रदानं भवति, जनाः च एकसूत्रे बध्यन्ते। एतादृशैः कार्यक्रमैः ‘एकभारतं श्रेष्ठभारतम्’ इति संकल्पना अपि सिध्यति। सः हिमाचले निवसन्तः एतेषां राज्याणां नागरिकाणां कृते स्थापनादिवसस्य शुभकामनाः दत्तवान्। अस्मिन् अवसरे धर्मेन्द्र भारद्वाजः उत्तरप्रदेशसर्वकारस्य संस्कृति-मन्त्रालयेन प्रेषितं स्मृतिचिह्नं तथा च अङ्गवस्त्रं राज्यपालं लेडी गवर्नर महोदयां च प्रति समर्प्य सम्मानितवान्। राज्यपालः सर्वेभ्यः अतिथिभ्यः हिमाचली-टोपिकां तथा च ‘अङ्गवस्त्रं’ (Muffler) प्रदाय सम्मानितवान्। राज्यपालस्य सचिवः चन्द्रप्रकाशवर्मा महोदयः धन्यवाद-प्रस्तावं प्रस्तुतवान्। अस्मिन् अवसरे उत्तरप्रदेश-त्रिपुरा-मेघालय-मणिपुर-राज्याणां समृद्धां संस्कृतिं प्रदर्शयन्ती एकं लघु-चलच्चित्रम् (Short Film) अपि प्रदर्शितम्। ‘पूजा कलामञ्चस्य’ कलाकारैः उत्तरप्रदेशस्य सांस्कृतिक-कार्यक्रमः प्रस्तुततः। अतिरिक्त-पुलिस-महानिदेशकः श्री ज्ञानेश्वरसिंहः, पुलिस-उपमहानिरीक्षकः श्रीमती अञ्जुम आरा तथा अन्ये गणमान्याः अपि उपस्थिताः आसन्।
