By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतभारत्याः ब्रजप्रान्ते एकदिवसीयः संस्कृतभाषाप्रवेशवर्गः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतभारत्याः ब्रजप्रान्ते एकदिवसीयः संस्कृतभाषाप्रवेशवर्गः
संस्कृतगतिविधयः

संस्कृतभारत्याः ब्रजप्रान्ते एकदिवसीयः संस्कृतभाषाप्रवेशवर्गः

डॉ.अमनदीप शर्मा
Last updated: 2026/01/20 at 10:48 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
1 Min Read
SHARE

संस्कृतभारत्याः ब्रजप्रान्ते एकदिवसीयः संस्कृतभाषाप्रवेशवर्गः
वार्ताहर: आचार्यदीनदयालशुक्ल:
संस्कृतभारत्याः व्रजप्रान्तस्य हरिगढशाखा षड्विंशत्यधिकद्विसहस्रतमे कृष्टाब्दे प्रथममासस्य अष्टादशे दिनाङ्के रविवासरे हरिगढस्थे सासनीगेटक्षेत्रवर्तिनि विश्वभारतीसार्वजनिकविद्यालये एकदिवसीयसंस्कृतभाषाप्रवेशवर्गम् आयोजयत्। कार्यक्रमस्य शुभारम्भः वैदिकमन्त्रोच्चारणेन सह दीपप्रज्वालनेन सरस्वत्याः पूजाऽर्चनया च अभवत्। सर्वप्रथमं कार्यक्रमस्य अध्यक्षा विश्वभारतीसार्वजनिकविद्यालयस्य प्रधानाचार्या च सुनीतासिंह: अस्मै वर्गाय शुभकामनाः प्राददात्। स्वल्पाहारविरामात् अनन्तरं मथुराविभागस्य संयोजकः श्यामसुन्दरशर्मा प्रशिक्षणकार्यं प्रारभत।

विशिष्टातिथिः वार्ष्णेयमहाविद्यालयस्य संस्कृताविभागाध्यक्षः देवेन्द्रकुमार: भारतीयसंस्कृतेः संरक्षणार्थं संस्कृतभाषायाः पोषणस्य संवर्धनस्य च आवश्यकतां प्रत्यपादयत्। प्रशिक्षणस्य सञ्चालनं चतुर्षु सत्रेषु अभवत्। येषु संस्कृतजिज्ञासवः संस्कृतभाषायां स्वपरिचयं लिङ्गं वचनं पुरुषः इत्यादिविषयाणां प्रारम्भिकज्ञानेन संस्कृतमध्ययनुं प्रोत्साहिताः अभवन्। मध्याह्नभोजनानन्तरं संस्कृतभारत्याः हरिगढजनपदस्य अध्यक्षः डाॅ॰वृजेशशास्त्रि: वर्गं समबोधयत्। सः स्वसम्बोधने संस्कृतस्य वैशिष्ट्यं रेखाङ्कयन् संस्कृतभाषासंवर्धने बलं न्यदधात्। मथुराविभागसंयोजकस्य श्यामसुन्दरशर्मण: कुशले नेतृत्त्वे संयोजने च संस्कृतभाषाप्रवेशवर्गस्य प्रशिक्षणं सम्पन्नम् अभवत्। मध्यकाले वेदप्रकाशपाठकेन सरलानां सुमधुराणां च संस्कृतगीतानां प्रस्तुतिः कृता।

वर्गस्य समापनं सत्रस्य मुख्येन अतिथिना हरिगढस्य सासनीगेटक्षेत्रस्थस्य बालगोपालमन्दिरस्य प्रबन्धकेन समाजसेविना व्यवसायिना च अजयशर्मणा कृतम्। अन्ते संस्कृतभारत्याः हरिगढजनपदस्य मन्त्री डाॅ॰प्रभाशङ्करशुक्ल अतिथीनां वर्गे आगतानां संस्कृतानुरागिणां विदुषां विश्वभारतीसार्वजनिकविद्यालयस्य प्रधानाचार्यायाः च अभिनन्दनं धन्यवादम् आभारं च अज्ञापयत्। वर्गेऽस्मिन् लोकेशपचौरी, कपिलकुमारशर्मा, निश्चलगिरि:, विजेन्द्रसिंह:, सुरेन्द्रसिंह:, नकुलचौधरी, सोनीजादोंन, मोहिनी उपाध्याय, उदितनारायण:, करणपालसिंह इत्यादयः अनेके सदस्याः सहभागित्वं स्वीकृतवन्तः।

You Might Also Like

भक्तिवेदान्तपरिसरे दशदिवसीया संस्कृतसम्भाषणकार्यशाला सम्पन्ना

सरलमनुष्यस्य दायित्वम्

सूर्य: अस्तं गच्छति, वयम् अपि वा?।

महर्षि महेश योगी वैदिकविश्वविद्यालये धर्मगुरु-जीविका-परामर्शः

धौतवस्त्रं-करांशुकं धारयन्तः वेद-छात्राः क्रिक्रेटक्रीडां क्रीडितवन्तः , ,

TAGGED: ब्रज, संस्कृत, संस्कृतभारती
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article पोलैंडदेशेन आतंकवादं प्रति शून्य-सहिष्णुता प्रदर्शनीया-विदेशमन्त्री एस.जयशंकर:
Next Article HP PANCHAYAT ELECTION – पंचायतनिर्वाचनस्य सज्जतायै त्वरिता, क्रमसूची- आदि औपचारिकता: सम्पन्नां कर्तुं कथितम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?