→।।भारतदेशे संस्कृतभाषायाः महत्त्वम्।।
संस्कृतभाषा भारतदेशस्य प्राचीनतमा समृद्धा च भाषा अस्ति।
एषा केवलं संवादस्य साधनं न अपितु भारतस्य ज्ञानपरम्परायाः संस्कृतेः जीवनदर्शनस्य च मूलाधारः अस्ति।
भारतीयसभ्यतायाः आत्मा संस्कृतभाषायामेव निहित: अस्ति।
वेदाः उपनिषदः ब्राह्मणग्रन्थाः आरण्यकानि रामायणं महाभारतं पुराणानि आयुर्वेद-योगशास्त्र-न्याय-दर्शनानि—इमानि सर्वाणि संस्कृतभाषायामेव रचितानि सन्ति। अतः संस्कृतं भारतस्य बौद्धिक-इतिहासस्य मूलं मन्यते।
संस्कृतभाषा ज्ञानविज्ञानस्य महत्त्वपूर्णं साधनम् अस्ति।
गणिते शून्यस्य अवधारणा ज्योतिषे ग्रहगणना आयुर्वेदे शरीरस्य समग्रचिकित्सा योगे मनःशरीरयोः सामञ्जस्यम्—एतानि सर्वाणि संस्कृतग्रन्थेषु स्पष्टं वर्णितानि सन्ति।
चरक-सुश्रुतसंहिता आर्यभट्टीयमित्यादय: ग्रन्थाः अद्यापि प्रासङ्गिकाः।
संस्कृतभाषायाः विशेषता तस्या: वैज्ञानिकस्वभावः अस्ति।
अस्या: भाषाया: व्याकरणमत्यन्तं नियमबद्धं तर्कसंगतं चास्ति।
पाणिनीयव्याकरणं विश्वस्य सर्वाधिकं वैज्ञानिकं व्याकरणमिति मन्यते।
अतः सङ्गणकविज्ञाने कृत्रिमबुद्धौ (Artificial Intelligence) भाषाप्रक्रियायां च संस्कृतस्य उपयोगिता वर्धमाना अस्ति।
संस्कृताध्ययनं मानसिकविकासे अपि सहायकं भवति।
श्लोकपाठेन स्मरणशक्तिः वर्धते सूत्राध्ययनेन तार्किकचिन्तनं विकसितं भवति छन्दोऽध्ययनेन एकाग्रता लभ्यते।
अतः संस्कृतं संज्ञानात्मकविकासस्य (cognitive development) प्रभावी साधनम् अस्ति।
संस्कृतसाहित्यं नैतिकमूल्यानां भण्डारः अस्ति। सत्यं अहिंसा करुणा कर्तव्यबोधः परोपकारः—एते मूल्याः संस्कृतग्रन्थेषु स्पष्टतया दृश्यन्ते।
“सत्यमेव जयते” “वसुधैव कुटुम्बकम्” “अहिंसा परमो धर्मः”—एतानि वाक्यानि भारतीयजीवनदर्शनस्य आधारभूततत्त्वानि सन्ति।
संस्कृतभाषा सांस्कृतिक-एकतायाः सेतुः अस्ति।
भारतस्य विभिन्नप्रदेशेषु विभिन्नाः भाषाः सन्ति किन्तु संस्कृतं तासां सर्वासां भाषाणां मूलभाषा अस्ति।
आधुनिककाले अपि संस्कृतं न अप्रासङ्गिकम्।
विद्यालयेषु विश्वविद्यालयेषु अनुसन्धानसंस्थासु ऑनलाइनमाध्यमेषु च संस्कृतस्य पुनरुत्थानं दृश्यते।
अनेके देशाः अपि संस्कृताध्ययनं कुर्वन्त यत् अस्य वैश्विकमहत्त्वं प्रमाणयति।
विश्वस्य सर्वेषु देशेषु विश्वविद्यालयेषु संस्कृतविभागाः सन्ति।
विदेशीयविद्वांसः भगवद्गीता-उपनिषद्-योगसूत्राणि च अध्ययनं कृत्वा भारतीयदर्शनस्य गाम्भीर्यं अनुभवन्ति।
संस्कृतभाषा व्यक्तित्वविकासे अपि महत्त्वपूर्णा भूमिका वहति।
संस्कृतवाक्येषु शिष्टाचारः, विनयः, सौम्यता च स्वाभाविकतया निहिताः सन्ति।
‘भवान्’ ‘कृपया’ क्षम्यताम्’ इत्यादयः शब्दाः संवादे सभ्यतां संस्कारं च जनयन्ति।
अतः संस्कृतं केवलं भाषा न अपि तु संस्कारशिक्षाया: सूत्रधाररूपेण अपि तिष्ठति।
पर्यावरणचिन्तायां संस्कृतसाहित्यं अत्यन्तं समृद्धम्।
वेदेषु पृथिवी माता इव वर्णिता अस्माकं जीवनदायिनी नद्यः मातरः इव पूजिताः वृक्षाः तु जीवनदातारः इव स्वीकृताः।
ऋग्वेदस्य “माता भूमिः पुत्रोऽहं पृथिव्याः” इति भावः अद्यतनपर्यावरणसंरक्षणस्य मूलमन्त्रः भवितुं शक्नोति।
राष्ट्रनिर्माणे संस्कृतभाषायाः योगदानं अविस्मरणीयम्।
राष्ट्रचिन्हे स्थितं “सत्यमेव जयते” इति वाक्यं केवलं जयघोष: न अपि तु शासनस्य नैतिकाधारः अस्ति।
संस्कृतभाषा नागरिकेषु कर्तव्यबोधं राष्ट्रप्रेम तथा आत्मगौरवं जागरयति।
यद्यपि कालेन संस्कृतस्य उपयोगः न्यूनः अभवत् तथापि अद्य पुनः तस्य पुनरुत्थानं दृश्यते।
नवशिक्षानीति-डिजिटलपाठ्यक्रमाः संस्कृतसंवादप्रयोगाः सामाजिकमाध्यमेषु संस्कृतलेखनम्—एते सर्वे संस्कृतस्य नवजीवनस्य सूचकाः सन्ति।
आवश्यकं केवलं एतत्—संस्कृतं जनजीवने पुनः स्थापनीयम्। उपसंहाररूपेण
संस्कृतभाषा भूतस्य गौरवम्-वर्तमानस्य मार्गदर्शिका-भविष्यस्य आधारः च अस्ति।
एषा मृतभाषा न, अपि तु चिरजीविनी ज्ञानधारा अस्ति।
यत्र संस्कृतं तत्र संस्कारः।
यत्र संस्कारः तत्र संस्कृति:।
यत्र संस्कृति तत्र राष्ट्रस्य स्थैर्यम्।
जयतु संस्कृतं जयतु भारतम्।।
लेखकाः – अतिथ्याध्यापकः डॉ. निशिकान्तपाण्डेयः , कैकाला संस्कृत विद्यापीठ, ।
लेखकः श्रीमान् तन्मयपाण्डेयः, अनलाइनसंस्कृतपाठशाला, मालदा।
संस्कृतभाषीदेवेशः , लक्ष्णौ, ।
