*कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये सर्वदर्शनविभागे आचार्यपदे उमामहेश्वरी बी नियुक्ता*

सोमवासरे स्वामीविवेकानन्दस्य जन्मदिवसावसरे १२/०१/२०२६ इत्यस्मिन् पुण्यतमे शुभदिने कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागे आचार्या उमामहेश्वरी बी इति नामधेया प्रख्यातसंस्कृतविदुषी आचार्यपदेन नियुक्ता जाता । इदं विभागस्य विश्वविद्यालयस्य च परमं सौभाग्यमेव।
सा तिरुपतिसंस्कृतविश्वविद्यालयात् संस्कृतवाङ्मये उच्चशिक्षां सम्यगवाप्य ततः काशीहिन्दूविश्वविद्यालयतः न्यायशास्त्रे विद्यावारिध्युपाधिं (Ph.D.) प्राप्तवती। अध्ययन–अनुसन्धान–अध्यापनक्षेत्रेषु तस्याः प्रौढा प्रतिभा गाम्भीर्यपूर्णा दृष्टिः शास्त्रीयपरम्परायाः आधुनिकपरिप्रेक्ष्ये विवेचनकौशलं च सर्वत्र प्रशंसनीयं विद्यते।
अनन्तरं सा श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य दर्शनविभागे द्वादशवर्षाणि यावत् निरन्तरं समर्पणभावेन अध्यापनकार्यं कृतवती। तस्याः अध्यापनशैली छात्रहितैषिणी विचारोत्तेजकव्याख्यानानि अनुसन्धानप्रेरकदृष्टिकोणश्च विद्यार्थिनां सहकर्मिणां च मध्ये विशेषरूपेण आदृतः अभवत्।
अधुना सा कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागे आचार्यपदं भूषयन्ती स्वस्य गौरवपूर्णस्य अध्यापनजीवनस्य नूतनाध्यायं प्रारब्धवती। अस्माकं दृढा श्रद्धा वर्तते यत् तस्याः आगमनेन विभागे शास्त्रीयाध्ययनस्य दर्शनचिन्तनस्य अनुसन्धानपरम्परायाश्च नूतनं तेजः समुत्पत्स्यते तथा च विद्यार्थीणां बौद्धिकविकासः अधिकं सुदृढीभविष्यति।
अतः विभागपक्षतः विश्वविद्यालयपक्षतः च तस्यै हार्दाः शुभाशयाः, मंगलकामनाः, अभिनन्दनानि च सादरं समर्प्यन्ते। भवत्याः अध्यापनानुसन्धानयात्रा दीर्घा सफलतापूर्णा ज्ञानदीपप्रज्वलिता च भवतु इति वयं कामयामहे।शुभं भूयात्। एषा वार्ता कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य सर्वदर्शनविभागस्य सर्वदर्शनमन्थनपरिषदः प्राप्ता।
