By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: सामसीमहाविद्यालये द्विदिवसीया अन्तार्राष्ट्रीयकार्यशाला
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > सामसीमहाविद्यालये द्विदिवसीया अन्तार्राष्ट्रीयकार्यशाला
संस्कृतगतिविधयः

सामसीमहाविद्यालये द्विदिवसीया अन्तार्राष्ट्रीयकार्यशाला

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2025/12/29 at 4:13 PM
डॉ.निशिकान्तः पाण्डेयः
Share
3 Min Read
SHARE

सामसीमहाविद्यालये द्विदिवसीया अन्तार्राष्ट्रीयकार्यशाला
सामसी, मालदा,
गौडबङ्गविश्वविद्यालयस्य सामसी महाविद्यालये राष्ट्रीयशिक्षायोजनान्तर्गते द्विदिवसीया अन्तार्राष्ट्रीयकार्यशाला २३/१२/२०२५ तमे दिनाङ्के समुद्घाटिता। कार्यक्रमेऽस्मिन् मुख्यातिथिरूपेण आसीत् लिफिजविश्वविद्यालयस्य मान्याः संस्कृतविभागाध्यक्षः प्रो. डॉ.सनातनदासमहोदयः संस्कृतभाषया महत्व-वैशिष्ट्यविषये च समुद्घाटितवान्। रायगञ्जविश्वविद्यालयस्य संस्कृतविभागस्य व्याकरणविभागस्यप्राध्यापकः प्रो.प्रशान्तमाहालामहोदयः, गौडबङ्गविश्वविद्यालयस्य संस्कृतविभागस्य दर्शनविभागस्य प्राध्यापकः प्रो. डॉ.चन्दनभट्टाचार्यमहोदयः , रायगञ्जविश्वविद्यालयस्य संस्कृतविभागस्य व्याकरणविभागस्य सहकारी अध्यापकः डॉ.अतनुआढ्यमहोदयः , कलिकाता विश्वविद्यालयस्य प्राध्यापकः डॉ .प्रलयंकरभट्टाचार्यः च शैक्षणिककार्यक्रमान् राष्ट्रीयशिक्षानीतिः वर्धनायः सम्मुखे प्रकटितवन्तः, पिपिटि द्वारा दर्शितवन्तः च ।

प्रथमे रायगञ्जविश्वविद्यालयस्य संस्कृतविभागस्य प्राध्यापकः प्रो.प्रशान्तमाहालामहोदयः उक्तवान् राष्ट्रीयशिक्षानीत्यानुसारे संस्कृतविषयस्य भारतीयज्ञानपरम्परायाप्राधान्यं बहु दृश्यते यथा-मनुसंहितायाम्-धर्मशास्त्रे-वैदिकसाहित्ये-अद्वैतवादे-योगदर्शने-चिकित्साविद्या च । द्वितीये गौडबङ्गविश्वविद्यालयस्य संस्कृतविभागस्य दर्शनविभागस्य प्राध्यापकः प्रो. डॉ.चन्दनभट्टाचार्यमहोदयः आचार्यप्रफुल्लचन्द्ररायस्य उल्लेखितः रसायणशास्त्रविषये , तथा चरक-सुश्रुतसंहितायाः सम्बन्धविषये, महाभाष्यादि विषये च ।रायगञ्जविश्वविद्यालयस्य संस्कृतविभागस्य व्याकरणविभागस्य सहकारी अध्यापकः डॉ.अतनुआढ्यमहोदयः उक्तवान् बङ्गदेशे आधुनिकव्याकरणस्य अण्वेषणं विषये , तथा पाश्चात्य विद्यायाः परम्परा विषये च उक्तवान् । गौडबङ्गविश्वविद्यालयस्य बीजभाषणे रेजिस्टारः डॉ.विश्वजित् दासः महतीं परम्पराम् उक्तवान् गीतायाः विश्वरूपदर्शन-धर्मविषयात् । आदर्शप्रभारीप्राचार्यः डॉ .सलीलकुमारमुखार्जी शास्त्राभ्यासादिकार्यक्रमं विषये अध्यापकानां छात्राणां च महान् उपकारो भवतीति उक्तवन्तः।सामसीमहाविद्यालयस्य विविधानां कार्यक्रमाणां प्रशंसां विधाय संस्कृत-दर्शनविभागस्य यौथोद्योगे कार्यस्य स्वागतं चक्रुः। कार्यक्रमे उपस्थिताः आसन् संस्कृतविभागस्याध्यक्षा श्रीमती.नीलिमा सरकारः, डॉ .मेधाकुमारी, डॉ.शिवप्रसादः, डॉ.देवमित्रा, श्रीमतीजयिता , श्रीमान् तापसकुमारवर्मणः, श्रीमान् रिजायुलकरिमवक्सि, सर्वेः अध्यापकाः च । संयोजिका श्रीमती.नीलिमा सरकारः सर्वान् स्वागतं कारितवती । कार्यक्रमे धन्यवादं ज्ञापितवान् महाविद्यालयस्य आदर्शप्रभारीप्राचार्यः डॉ .सलीलकुमारमुखार्जी ।आस्यां कार्यशालायां १६० अध्यापकाः,गवेषकाः छात्राश्च भागं गृहीतवन्तःसामसीमहाविद्यालये द्विदिवसीया अन्तर्राष्ट्रीयकार्यशाला
—————————–
गौडबङ्गविश्वविद्यालयस्य सामसी महाविद्यालये राष्ट्रीयशिक्षायोजनान्तर्गता द्विदिवसीया अन्तार्राष्ट्रीयकार्यशाला २३/१२/२०२५ तमे दिनाङ्के समुद्घाटिता। कार्यक्रमेऽस्मिन् मुख्यातिथिरूपेण आसीत् लिफिजविश्वविद्यालयस्य मान्याः संस्कृतविभागाध्यक्षः प्रो. डॉ.सदानन्ददासमहोदयः संस्कृतभाषाया: महत्व-वैशिष्ट्यविषये च सम्बोधितवान्। रायगञ्जविश्वविद्यालयस्य संस्कृतविभागस्य प्राचार्यः प्रो. प्रशान्तकुमारमाहालामहोदयः, गौडबङ्गविश्वविद्यालयस्य संस्कृतविभागस्य प्राचार्यः प्रो. डॉ.चन्दनभट्टाचार्यमहोदयः रायगञ्जविश्वविद्यालयस्य संस्कृतविभागस्य अध्यापक: डॉ.अतनु-आढ्यमहोदयः कलिकाता विश्वविद्यालयस्य प्राचार्यः डॉ . प्रलयंकरभट्टाचार्यश्च शैक्षणिककार्यक्रमान् राष्ट्रीयशिक्षानीते: प्रसाराय प्रकटितवन्तः PPT इत्यस्य द्वारा प्रदर्शितवन्तश्च ।
प्रथमे बीजभाषणे रायगञ्जविश्वविद्यालयस्य संस्कृतविभागस्य प्राचार्यः प्रो.प्रशान्तकुमारमहालामहोदया: उक्तवन्त: यत् “राष्ट्रीयशिक्षानीत्यानुसारेण संस्कृतविषयस्य भारतीयज्ञानपरम्पराया: प्राधान्यं बहु दृश्यते यथा-मनुसंहितायाम्-धर्मशास्त्रे-वैदिकसाहित्ये-अद्वैतवादे-योगदर्शने-चिकित्साविद्यायां च।” गौडबङ्गविश्वविद्यालयस्य संस्कृतविभागस्थे दर्शनविभागस्य प्राचार्यः प्रो. डॉ.चन्दनभट्टाचार्यमहोदयः आचार्यप्रफुल्लचन्द्ररायवर्या: उल्लेखितवन्त: यत् रसायणशास्त्र-चरक-सुश्रुतसंहितायाः सम्बन्ध-महाभाष्यादि विषयेषु च ।रायगञ्जविश्वविद्यालयस्य संस्कृतविभागस्य सहायकप्राध्यापक: डॉ.अतनु-आढ्यमहाभागा: उक्तवन्त: बङ्गदेशे आधुनिकव्याकरणस्य अन्वेषण-पाश्चात्यविद्यापरम्पराविषये। गौडबङ्गविश्वविद्यालयस्य कुलसचिव: डॉ.विश्वजित्-दासवर्या: चर्चितवन्त: गीतायाः विश्वरूपदर्शन-धर्मविषयकम्। आदर्शप्रभारीप्राचार्यः डॉ . सलीलकुमारमुखर्जीमहोदया: शास्त्राभ्यासादिकार्यक्रमविषये अध्यापकानां छात्राणां च महान् उपकारो भवतीति उक्तवन्तः। कार्यक्रमे उपस्थिताः आसन् संस्कृतविभागस्याध्यक्षा श्रीमती.नीलिमा सरकारः, डॉ.मेधाकुमारी, डॉ.शिवप्रसादः, डॉ.देवमित्रा, श्रीमतीजयिता , श्रीमान् तापसकुमारवर्मणः, श्रीमान् रिजायुलकरिमवबक्षी, अन्ये प्राध्यापकाश्च । संयोजिका श्रीमती नीलिमा सरकारः सर्वेषां स्वागतं कृतवती। कार्यक्रमे २४/१२/२५ तमे दिनाङ्के धन्यवादं ज्ञापितवन्तः महाविद्यालयस्य आदर्शप्राचार्याः डॉ . सलीलकुमारमुखार्जीमहाभागाः। अस्यां कार्यशालायां १६० अध्यापकाः गवेषकाः छात्राश्च भागं गृहीतवन्तः।

You Might Also Like

प्रधानमन्त्री-मुद्रायोजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थं अत्यधिकं लाभप्रदं सिद्धम् च अस्ति – प्रधानमन्त्री नरेन्द्रमोदी

मुंबई-नगरे श्रीमन्नारायणीयपारायण-प्रतियोगिता तथा प्रश्नोत्तरी सफलतया सम्पन्ना

आम आदमी पार्टी दलस्य आन्तरिककलहः-: राघव चड्ढा उपनेतृपदात् निष्कासितः

कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालयेन भारतीयज्ञानपरम्परायाः सार्वभौमत्वम् इति अखिलभारतीयशोधसम्मेलनं परिपालितम्

गीर-सोमनाथस्य लघुबालकेन रचितः इतिहासः ७०० श्लोकान् कण्ठस्थीकृत्य प्राप्ता ‘गीताभूषण’ उपाधिम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article *कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विद्वत्सम्मानसमारोहः* 
Next Article हिमालयस्य संरक्षणे जननादः — सोनम् वाङ्चुकस्य मुक्तये कोटद्वारे जनजागरणम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?