By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: *कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विद्वत्सम्मानसमारोहः* 
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > *कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विद्वत्सम्मानसमारोहः* 
संस्कृतगतिविधयः

*कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये विद्वत्सम्मानसमारोहः* 

डॉ.निशिकान्तः पाण्डेयः
Last updated: 2025/12/27 at 12:58 PM
डॉ.निशिकान्तः पाण्डेयः
Share
2 Min Read
SHARE

→

नलबारी — २६ दिसम्बर: २०२५

अद्य २६/१२/२०२५ इति दिनाङ्के नलबारीस्थिते कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये अत्यन्तं गौरवपूर्णः विद्वत्सम्मानसमारोहः भव्यतया आयोजितः।

अस्य समारोहस्य आयोजनं केन्द्रीयसंस्कृतविश्वविद्यालयस्य तथा कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य संयुक्ततत्त्वावधानेन सम्पन्नम्। अयं कार्यक्रमः असमप्रदेशे संस्कृतविद्यायाः संरक्षणे, संवर्धने च विश्वविद्यालययोः निरन्तरं कृतस्य शैक्षिक–सांस्कृतिकप्रयत्नस्य साक्षात्प्रमाणमिव आसीत्।

अस्मिन् विद्वत्सम्मानसमारोहे असमप्रदेशस्य संस्कृतक्षेत्रे दीर्घकालं यावत् अध्यापन–अनुसन्धान–लेखनादिषु उल्लेखनीयां सेवां कृतवतां पञ्चमहाविदुषां सार्वजनिकरूपेण सम्मानं जातम्। सम्मानितेषु विद्वत्सु असमप्रदेशस्य संस्कृतजगति लब्धख्यातयः, विविधशास्त्रेषु अप्रतिमवैदुष्येन समलङ्कृताः क्रमशः डॉ. राजेन्द्रप्रसादशर्ममहोदयाः, आचार्याः सुरेशचन्द्रबोरावर्याः, आचार्या: श्रीमतीनलिनीदेवीमिश्रामहोदया:, डॉ. नन्दिताभट्टाचार्यगोस्वामिवर्याः, तथा श्रीमन्तः गुणशइकीयामहाभागाः इति प्रमुखाः विद्वांसः आसन्।

एते सर्वे विद्वांसः संस्कृतभाषायाः, संस्कृतसाहित्यस्य, वेदशास्त्राणां दर्शनानां च प्रचारप्रसारे आजीवनं समर्पिताः सन्तः न केवलम् असमप्रदेशे, अपि तु राष्ट्रव्यापिनि संस्कृतशिक्षाक्षेत्रे अपि स्वीयम् महत्त्वपूर्णं योगदानं कृतवन्तः। तेषां कृतकार्यस्य, त्यागस्य, निष्ठायाश्च गौरवस्वीकाररूपेण विश्वविद्यालयपरिवारस्य पक्षतः एषः विशेषः सम्मानः अर्पितः।

सम्मानसमये प्रत्येकं विदुषे असमीयसंस्कृतेः प्रतीकरूपेण असमीयागामोछारूपमङ्गवस्त्रम्, तेषां शास्त्रीयसेवायाः विवरणयुक्तं प्रशस्तिपत्रम्, तथा सम्मानवित्तं च ससम्मानं प्रदत्तम्। एतैः संस्कृतविदुष: प्रति विश्वविद्यालयस्य आदरभावः स्पष्टतया अभिव्यक्तः।

समारोहस्य गरिमामयं शुभारम्भं विश्वविद्यालयस्य मान्यैः कुलगुरुभिः आचार्यप्रह्लादराजजोशीवर्यैः कृतम्। स्वीयेन प्रेरणादायिना ओजस्विना च भाषणेन तेन संस्कृतविद्यायाः वर्तमानस्थितिं भविष्यदिशं च विशदतया निरूपितम्। तेन संस्कृतभाषायाः महत्त्वम्, समाजे तस्याः उपयोगिता तथा च नवसमाजमध्ये संस्कृताध्ययनस्य आवश्यकता च प्रतिपादिता । भाषणानन्तरं तेन स्वयमेव एकं सुमधुरं संस्कृतगीतम् गीत्वा श्रोतॄणां मनांसि हर्षेण पूरितानि।

कार्यक्रमस्य सम्यक्, शिष्टं समयबद्धं च सञ्चालनं पुराणेतिहासविभागाध्यक्षेण डॉ. विवेकाचार्यमहोदयेन अत्यन्तं कुशलतया कृतम्। तस्य सञ्चालनशैली श्रोतृभ्यः विशेषतया रोचिता। समारोहस्य आदौ विश्वविद्यालयस्य शोधछात्रैः सस्वरं कृतस्य वैदिकमङ्गलाचरणस्य माध्यमेन सम्पूर्णे वातावरणे आध्यात्मिक–सांस्कृतिकभावः सञ्जातः।

कार्यक्रमस्य अन्तिमे धन्यवादज्ञापनं विश्वविद्यालयस्य कुलसचिवैः आचार्यैः विकासभार्गवशर्ममहोदयैः कृतम्। तेन सम्मानितविदुष: प्रति, आयोजकसंस्थाः प्रति तथा च आगतविद्वद्भ्यः, आचार्येभ्यः, छात्रेभ्यः च कृतज्ञता ज्ञापिता।

अस्मिन् गरिमामये समारोहे विश्वविद्यालयस्य अनेकाः मान्याः आचार्याः, विभागाध्यक्षाः च सादरं समुपस्थिता आसन्। तेषु प्रमुखाः— आचार्याः रणजीतकुमारतिवारीवर्याः (सर्वदर्शनविभागः), आचार्याः रातुलबुजरबरुवावर्याः (संस्कृतसाहित्यविभागः), आचार्या: डॉ. बर्णालिबरठाकुमहोदया: (संस्कृतवेदाध्ययनविभागः), आचार्याः मल्लिकाकलितावर्याः( शिक्षाविभागः), डॉ अलकादासमहोदयाः( योगविज्ञानविभागः) डॉ. सुधाकरमिश्रवर्याः (व्याकरणविभागः), डॉ. राजीवलोचनशर्मवर्याः (न्यायविभागः), डॉ. चम्पककलितावर्याः (मीमांसाविभागः), डॉ. गणेशमिश्रवर्याः (ज्योतिषविभागः) इत्यादयः आसन्।

एवमेव विश्वविद्यालयस्य अन्ये सहायकाचार्याः, सहायिकाचार्याः, अतिथि-अध्यापकाः, अध्यापिकाः, शोधछात्राः, स्नातक–स्नातकोत्तरस्तरस्य विद्यार्थिनश्च बहुसंख्यया उपस्थिताः आसन्। अयं समारोहः अत्यन्तम् अनुशासितः, प्रेरणादायकः, स्मरणीयश्च इति अभिप्रेतः।

कार्यक्रमस्य समापनं सर्वैः उपस्थितैः ससम्मानं सस्वरं गीयमानस्य “वन्दे मातरम्” इति राष्ट्रियगीतस्य माध्यमेन अभवत्। अयं विद्वत्सम्मानसमारोहः न केवलं सम्मानकार्यक्रमरूपेण, अपि तु असमप्रदेशे संस्कृतविद्यायाः उज्ज्वलभविष्यस्य प्रतीकरूपेण सर्वैः अनुभूतः।

You Might Also Like

पिथौरागढे स्थिते विवेकानन्द-विद्यामन्दिरे प्रान्तस्तरीय-प्रबोधनवर्गस्य सम्पूर्तिः

भारतीयसंस्कृते: मूलमस्ति संस्कृतम्- के. एल. ठाकुर:

DRDO हाइपरसोनिक मिसाइल कार्यक्रमस्य कृते दीर्घायुषः शीतलं स्क्रैम्जेट् इञ्जिनस्य सफलतापूर्वकं परीक्षणं कृतम्

*गाजोलमहाविद्यालये छात्रसप्ताहोत्सवे अन्नमहोत्सवः सम्पन्न:*

संस्कृतभारत्याः काशीप्रान्तस्य प्रबोधनवर्गस्य समापन-दीक्षान्तकार्यक्रमः अद्य सुसम्पन्नः जातः।

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
Previous Article Kangra News – आदिशक्तिः ज्वाला, जलं, वायुः, प्रलय:, सृष्टिः, धरा चास्ति…. ज्वालामुख्याम् आगन्तुकपुस्तके लिखितः अटलसन्देशः
Next Article सामसीमहाविद्यालये द्विदिवसीया अन्तार्राष्ट्रीयकार्यशाला
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?