By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: हिमालयस्य संरक्षणे जननादः — सोनम् वाङ्चुकस्य मुक्तये कोटद्वारे जनजागरणम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > हिमालयस्य संरक्षणे जननादः — सोनम् वाङ्चुकस्य मुक्तये कोटद्वारे जनजागरणम्
राष्ट्रीयवार्ताःउत्तराखण्डवार्ताः

हिमालयस्य संरक्षणे जननादः — सोनम् वाङ्चुकस्य मुक्तये कोटद्वारे जनजागरणम्

डॉ.अमनदीप शर्मा
Last updated: 2025/12/28 at 7:13 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
2 Min Read
SHARE

हिमालयस्य संरक्षणे जननादः — सोनम् वाङ्चुकस्य मुक्तये कोटद्वारे जनजागरणम्

कुलदीपमैन्दोला । कोटद्वारम्। हिमालयस्य रक्षकः, देशस्य सुप्रसिद्धः पर्यावरणविद् च सोनम् वाङ्चुकः इति महनीयः व्यक्तिः अद्य नवतिं (९०) दिनानि निरुद्धावस्थायां स्थितः। अस्मिन् विषये सम्पूर्णे देशे जनाक्रोशः निरन्तरं वर्धते। अस्यैव प्रसङ्गे, कोटद्वारनगरे तीलू-रौतेली-चत्वरे समाजसेविनः एवं कार्यकर्तुः मुकेश-सेमवालस्य नेतृत्वे व्यापकं जनजागरण-अभियानम् आयोजितम्। ततोऽनन्तरं तहसील-कार्यालयं गत्वा प्रधानमन्त्रिणे नरेन्द्र-मोदी-महाभागाय नाम निर्दिष्टं ज्ञापनं प्रेषितम्।अस्मिन् अभियाने न केवलं सोनम् वाङ्चुकस्य शीघ्र-मुक्तये आग्रहः कृतः, अपि तु उत्तराखण्डराज्ये तीव्रतया वर्धमानस्य पर्यावरणीय-ह्रासस्य विषये गम्भीरा चिन्ता अपि व्यक्ता। “सम्मानित-व्यक्तेः अनादरः कुतः?” इति प्रश्नं पुरस्कृत्य जनचेतना, जनजागरणं, जनप्रतिभागश्च इत्यादयः घोषवाक्यानि उद्घोषितानि।
अभियानस्य नेतृत्वं कुर्वन् मुकेश-सेमवालः अवदत्—
“सोनम् वाङ्चुकः स्वजीवनं सम्पूर्णतया देशस्य सेनासहायतायै पर्यावरण-संरक्षणाय च समर्पितवान्। रेमन-मैग्सेसे इत्यादिभिः पञ्चदशाधिकैः राष्ट्रिय-अन्ताराष्ट्रिय-पुरस्कारैः सम्मानितं महापुरुषं निराधारतया निरुद्धं कर्तुं न केवलम् अनुचितं, अपि तु लोकतान्त्रिक-मूल्य-विरुद्धं च।”
विकासः वा विनाशः — उत्तराखण्डस्य अस्तित्व-संकटम्-
अस्मिन् विषयावसरे समाजसेवी मुजीब-नैथानी उत्तराखण्डस्य वर्तमान-स्थितिं विवृण्वन् अवदत्—उत्तराखण्डस्य परिचयं तस्य नैसर्गिक-सौन्दर्ये निहितम् अस्ति, यत् द्रष्टुं प्रतिवर्षं कोटिशः पर्यटकाः आगच्छन्ति। किन्तु ‘विकास’नाम्ना पौडीतः गङ्गोत्रीपर्यन्तं यथा वृक्षच्छेदनं क्रियते, तत् भविष्ये राज्यस्य अस्तित्वाय महत् संकटं भविष्यति।
परिवर्त्यमानः ऋतुवृत्तः — आपदां पूर्वसूचना-
वरिष्ठ-पत्रकारः सुधांशु-थपलियालः जलवायुपरिवर्तनस्य वैज्ञानिक-पक्षं प्रतिपादयन् अवदत्— मार्ग-विस्तारण-नाम्ना सहस्रशः वृक्षाणां छेदनं क्रियते, येन हिमालयीय-पारिस्थितिकी-तन्त्रं (Ecosystem) विनश्यति। पर्यावरणे हस्तक्षेपस्य प्रत्यक्षं परिणामः प्राकृतिक-आपदासु दृश्यते। इदानीं डिसेम्बर-मासस्य अन्तः समीपेऽपि पर्वतप्रदेशेषु हिमपातस्य अभावः मानवीय-हस्तक्षेपेन ऋतुवृत्तस्य सम्पूर्ण-विकारस्य प्रमाणम् अस्ति।
कोटद्वारे अभवत् एषा प्रभावीस्थिति: केवलं सार्वजनिकं अभियानं न, अपि तु हिमालय-रक्षणाय सामूहिकम् आह्वानं। सोनम् वाङ्चुकस्य मुक्तये उत्थिता एषा ध्वनि: इदानीं जन-आन्दोलन-रूपं गृह्णाति, या सर्वकारं स्मारयति यत्— पर्यावरणस्य मूल्ये कृतः विकासः कदापि स्थायी न भवति।
अस्मिन् सार्वजनिक-अभियाने उपस्थितः अनिकेतः अवदत्—
“सोनम् वाङ्चुकः सम्पूर्णस्य हिमालय-प्रदेशस्य प्रतिनिधिः, संरक्षकः, दूतश्च। नवतिं दिनान्यधिकं रासुका-कानूनद्वारा निरुद्धः, आरोपाभावेन कारावासे स्थितः सः लोकतान्त्रिक-संवैधानिक-मूल्यानां हननस्य द्योतकः। वयं जनचेतनां जागरयित्वा भारतीय-समाजं तस्य शीघ्र-मुक्तये सकारात्मक-योगदानाय आह्वयामः।”
ग्रीन-आर्मी-संस्थायाः सक्रियः सहभागः
अस्मिन् जनजागरण-अभियाने ग्रीन-आर्मी-संस्थायाः सदस्याः अपि उत्साहेन सहभागी अभवन्। “यदि अद्य वयं न चेतामः, तर्हि आगामि-कालः उत्तराखण्डस्य भावी-सन्ततये आत्मघातकः भविष्यति” — इति संकल्पेन संस्थायाः अध्यक्षः शिवम्-नेगी, महासचिवः उत्कर्ष-नेगी, स्वयंसेवक: ज्योति-सजवानः, सतेंद्रः, विनयः, अनुजः, अनिकेत-नौटियालः इत्यादयः युवजनाः स्वोपस्थितिं प्रकटितवन्तः। इति कोटद्वारे सम्पन्नः एषः अभियानः हिमालयस्य संरक्षणाय, पर्यावरण-संरक्षणाय, च लोकतान्त्रिक-मूल्य-रक्षणाय एकं सशक्तं सन्देशं वर्तते सम्पूर्णे राष्ट्रे ।

You Might Also Like

त्रिपञ्चाशत-तमं विश्व-पुस्तक-मेलापकं नवदेहल्याम् आरब्धम्

दिल्ली- राज्यसर्वकारेण केन्द्रसर्वकाराय ३००० विद्युत्बसक्रयणार्थं प्रस्तावः प्रेषितः

जलमार्गमन्त्री सर्वानन्दसोनोवालः विशाखापत्तनम-बन्दरगाह-प्राधिकरणस्य अनेक-परियोजनानां आधारशिलाम् अस्थापयत्

PWD मन्त्री विक्रमादित्यसिंहः देहल्यां केन्द्रीयमन्त्रिणा शिवराजसिंहचौहानेन सह मिलितवान

विदेशमन्त्री डा. एस्. जयश‌ङ्करः फ्रान्स-देशस्य राष्ट्रपतिना इमेनुएल मैक्रों इत्यनेन सह मिलितवान्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article सामसीमहाविद्यालये द्विदिवसीया अन्तार्राष्ट्रीयकार्यशाला
Next Article संस्कृतभारत्याः संस्कृत-भाषा-बोधनवर्गस्य समापनसमारोहः 
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?