मेक्सिकोदेशे शनिवासरे सहस्रशः जेन् जेड् युवानः विरोधप्रदर्शनं कृतवन्तः
मेक्सिकोदेशे शनिवासरे सहस्रशः जेन् जेड् युवानः वर्धमानस्य अपराधस्य, भ्रष्टाचारस्य, हिंसायाः दण्डहीनतायाः, सार्वजनिकहत्यायाः, सुरक्षायाः अभावस्य च विरोधं कृतवन्तः। एषः क्रोधः एकस्य महापौरस्य सार्वजनिकहत्यायाः कारणेन अधिकं प्रवर्धितः । नवम्बर्-मासस्य प्रथमे दिनाङ्के मेक्सिकोदेशस्य पश्चिमे मिचोआकान्-राज्ये उरुआपान्-नगरस्य महापौरः कार्लोस् मञ्जो एकस्मिन् आयोजने गोलिकाभिः हतः । क्रुद्धाः जेन् जेड् युवानः राष्ट्रपतेः आधिकारिकनिवासस्थानस्य राष्ट्रियमहलस्य सुरक्षाभित्तिषु क्षतिः कृतवन्तः। आन्दोलनकारिणः शिलाभिः, मुद्गरैः, पटाखाभिः, यष्टिभिः, शृङ्खलैः च पुलिसैः आक्रमणं कृतवन्तः । विरोधान् निवारयितुं पुलिसैः अश्रुवायुः नियोजितः। राजधान्या: सुरक्षासचिवः पाब्लो वाज्केज् इत्यनेन उक्तं यत्, विरोधेषु १२० जनाः घातिताः, येषु १०० पुलिस-अधिकारिणः अपि सन्ति । विंशतिः जनाः गृहीताः । अस्मिन् वर्षे अनेकेषु देशेषु Gen Z युवानः असमानतायाः, लोकतन्त्रस्य क्षयस्य, भ्रष्टाचारस्य च विरोधं कर्तुं वीथिषु प्रविष्टाः सन्ति। नेपाले सामाजिकमाध्यमप्रतिबन्धस्य अनन्तरं सेप्टेम्बरमासे बृहत्विरोधाः प्रवृत्ताः,
मेक्सिकोदेशे शनिवासरे सहस्रशः जेन् जेड् युवानः विरोधप्रदर्शनं कृतवन्तः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
