तृतीयश्रेणीतः सर्वेषु विद्यालयेषु कृत्रिमबुद्धिपाठ्यक्रमः प्रवर्तयिष्यते : केन्द्रसर्वकारः
केन्द्रसर्वकारेण घोषितं यत् सर्वेषु विद्यालयेषु तृतीयश्रेणीतः आरभ्य कृत्रिमबुद्धेः (AI) पाठ्यक्रमः प्रवर्तयिष्यते। शिक्षामन्त्रालयेन उक्तं यत् एषः उपक्रमः कठिनसमस्यानां समाधानार्थं एआइ इत्यस्य नैतिकप्रयोगे नूतनं महत्त्वपूर्णं च पदानि ग्रहीष्यति।
एषा पद्धतिः तृतीयश्रेणीतः आरभ्य आधारभूतपदे समावेशिता भविष्यति। मन्त्रालयेन उक्तं यत् कृत्रिमबुद्धिः, कम्प्यूटेशनलचिन्तनं च शिक्षणस्य, चिन्तनस्य, अध्यापनस्य च अवधारणाः सुदृढां करिष्यति, क्रमेण च जनहिताय एआइ-इत्यस्य मार्गं जनयिष्यति।
मन्त्रालयेन उक्तं यत् केन्द्रीयमाध्यमिकशिक्षामण्डलेन एआइ तथा कम्प्यूटेशनलचिन्तनस्य पाठ्यक्रमस्य विकासाय आईआईटी मद्रासस्य प्रोफेसर- कार्तिकरमणस्य नेतृत्वे विशेषज्ञसमित्याः गठनं कृतम् अस्ति। अस्मिन् विषये गतदिने नवीदिल्लीनगरे सीबीएसई, एनसीईआरटी, केवीएस, एनवीएस संस्थानां बाह्यविशेषज्ञाः संगोष्ठीं कृतवन्तः। विद्यालयशिक्षासाक्षरताविभागस्य सचिवः संजयकुमारः अवदत् यत् एआइ विषये शिक्षणं अस्मान् परितः जगतः सह सम्बद्धं मूलभूतं कौशलं मन्यते।
तृतीयश्रेणीतः सर्वेषु विद्यालयेषु कृत्रिमबुद्धिपाठ्यक्रमः प्रवर्तयिष्यते : केन्द्रसर्वकारः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
