न्यायाधीशः सूर्यकान्तः भारतस्य अग्रिमः मुख्यन्यायाधीशः भविष्यति
न्यायाधीशः सूर्यकान्तः भारतस्य अग्रिमः मुख्यन्यायाधीशः भविष्यति। विधि-न्यायमन्त्री अर्जुनराममेघवालः सामाजिकमाध्यमेषु सन्देश-द्वारा अभिनन्दनं कृतवान् । सः अवदत् यत् राष्ट्रपतिः द्रौपदी मुर्मू न्यायाधीशं सूर्यकान्तं अग्रिममुख्यन्यायाधीशरूपेण नियुक्तवती। तस्य नियुक्तिः नवम्बर् २४ दिनाङ्कात् प्रभावी भविष्यति। न्यायाधीशः सूर्यकान्तः भारतस्य ५३तमः मुख्यन्यायाधीशः भविष्यति । सः मुख्यन्यायाधीशस्य बी.आर.गवई इत्यस्य स्थानं ग्रहीष्यति, यस्य कार्यकालः आगामिमासस्य २३ दिनाङ्के समाप्तः भवति।
न्यायाधीशः सूर्यकान्तः भारतस्य अग्रिमः मुख्यन्यायाधीशः भविष्यति
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
