By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः
संस्कृतगतिविधयः

कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः

जगदीश डाभी
Last updated: 2025/07/10 at 8:35 PM
जगदीश डाभी
Share
1 Min Read
SHARE

कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः

वार्ताहर: – जगदीश डाभी

गुरुपूर्णिमोत्सवः-२०२५, दिनाङ्कः- १०/०७/२०२५
केन्द्रीयसंस्कृतविश्वविद्यालयानुमोदिते पश्चिमबङ्गस्थपूर्वमेदिनीपुरमण्डलान्तर्गते कलियाचकविक्रमकिशोर-आदर्शसंस्कृतमहाविद्यालये १०.०७.२०२५ तमे दिनाङ्के गुरुवासरे आषाढ़पूर्णिमायां सशिक्षकैः छात्राः सहर्षं गुरुपूर्णिमानुष्ठानं पर्यपालयन्। महाविद्यालयस्य अस्य भारप्राप्तप्राचार्याणां ड० अमरेन्द्रकुमारमिश्रमहाभागानामाध्यक्ष्येण महता वैभवेन कार्यक्रमोऽयं परिपालितः। दीपप्रज्वालनेन भगवत्याः पूजनेन च आरब्धोऽयं कार्यक्रमः। महाविद्यालयस्य छात्रः सुमनपण्डा वैदिकमङ्गलाचरणेन तथा च महाविद्यालयस्य समे शिक्षकाः छात्राश्च लौकिकमङ्गलाचरणेन अनुष्ठामिदम् अग्रे सारितवन्तः। अस्य अनुष्ठानस्य सञ्चालकपदम् अलंकृतवन्तः व्याकरणविभागस्य विभागाध्यक्षाः श्रीमन्तः संकर्षणपण्डावर्याः। ततः सर्वे शिक्षकाः छात्राः च सम्मिल्य श्रीमद्भगवद्गीतायाः भक्तियोगाख्यस्य द्वादशाध्यायस्य पारायणम् अकुर्वन्। ततः अग्रे महाविद्यालयस्य समेऽपि छात्राः प्राध्यापकाः कर्मचारिणश्च क्रमशः अस्य दिवसस्य माहात्म्यं वर्णयामासुः। किञ्च महाविद्यालयस्य छात्रा तनुश्रीमान्ना सुन्दरेण गीतेन गुरूणां चरणवन्दनं प्रस्तूतवती। तथा च साहित्यविभागस्य अतिथ्यध्यापकः ड० दीपकप्रधानमहोदयः स्ववचोभिः सर्वेभ्यः धन्यवादान् समर्पितवान्। अन्ते शान्तिमन्त्रेण अनुष्ठानमिदं समाप्तिम् अगात्।

You Might Also Like

संस्कृतभारत्याः पटियालाविभागस्य परिवारसम्मेलनं सम्पन्नम्।

कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालये १५ जुलाई दिनाङ्के ‘महाकवि कालिदास संस्कृतव्रती राष्ट्रीय पुरस्कार’ समारोहः

IKS & AI – भारतस्य प्राचीनज्ञानपरम्परा कृत्रिमबुद्धिमत्तया (AI) प्राप्स्यति नूतनजीवनम् – प्रो. श्रीनिवासवरखेड़ी

केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरे द्वादशस्यान्तर्राष्ट्रिययोगमहोत्सवस्यायोजनम्

महर्षि-महेश-योगी-वैदिकविश्वविद्यालये द्वादशतम-अन्तर्राष्ट्रीय-योग-दिवसस्य भव्यः कार्यक्रमः सुसम्पन्नः

TAGGED: आज के मुख्य समाचार
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By जगदीश डाभी
Follow:
संस्कृतप्रेमिणां कृते सुलभं माध्यमम् अर्थात् हिमसंस्कृतवार्ता:, भवद्भिः हिमाचलप्रदेशात् नित्यं प्रकाशितं हिमांस्कृतवार्ता: पठित्वा स्वमित्रान् अपि पठितुं प्रेरयन्तु ।
Previous Article गुरुपूर्णिमाविशेषः-तस्मै श्री गुरवे नमः
Next Article राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?