By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः

डॉ.अमनदीप शर्मा
Last updated: 2025/07/11 at 6:39 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
5 Min Read
SHARE

राष्ट्रीयवार्ताः- निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणम् वर्तते सर्वोच्चन्यायालयः
हिमसंस्कृतवार्ता: – सर्वोच्चन्यायालयः प्रोक्तवान् यत् बिहारे निर्वाचनायोगेन मतदातृ-सूच्यां कृतं संशोधनं संविधानस्य जनादेशानुगुणं वर्तते, परञ्च न्यायालयेन विशिष्ट-गहन-संशोधनस्य समयं विरुध्य प्रश्नचिह्नं समुत्थापितम् अस्ति । न्यायालयेन न्यायिकपक्षस्य सुरक्षायै आधार-अन्न-निर्वाचन-प्रपत्राणि अपि नागरिकतायाः सत्यापनाय स्वीकर्तुं निर्वाचनायोगः कथितः अस्ति। न्यायालयेन पृष्टम् अस्ति यत् किमर्थम् एषः अभ्यासः बिहार-विधानसभा-नर्वाचनैः सह प्रयुज्यते अपि च निर्वाचनातिरिच्य सम्पूर्णदेशाय किमर्थं न कर्तुं शक्यते । न्यायमूर्तिः सुधांशु धूलियाँ, न्यायमूर्तिः जॉयमल्या-बागची इत्यनयोः पीठेन टिप्पणिः कृता अस्ति यत् नागरिकतान्वीक्षणम् अधिकृत्य निर्वाचन-निकायेन पूर्वमेव अस्मिन् विषये कार्याचरणं विधातव्यम् आसीत् याचिकाकर्तृभिः विशिष्ट-गहन-संशोधनस्य सत्यापनसूच्याः आयोगेन कृतं आधार कार्ड इत्यस्य निष्कासनम् उद्दिश्य प्रश्नचिह्नम् उत्थापितम् अस्ति । निर्वाचन-निकायेन तर्कं प्रदत्तमस्ति यत् भारते मतदातृणां नागरिकतायाः सत्यापनम् आवश्यकं वर्तते अतएव आधार इत्यस्य उपयोगः नागरिकतायाः प्रमाणत्वेन न कर्तुं शक्यते । अस्मिन् विषये न्यायालयेन टिप्पणी कृता यत् निर्वाचननिकायेन विशिष्ट-गहन-संशोधनस्य अन्तर्गतं नागरिकतायाः सत्यापनं कर्तुं पूर्वमेव कार्यं विधातव्यम् आसीत् । शीर्षन्यायालयेन इदमपि कथितम् यत् नागरिकतायाः विषयः गृह-मंत्रालयाधीनम् अस्ति । अस्मिन् प्रकरणे अग्रिमः न्यायिकश्रवणं आगामि अष्टाविंशति-दिनाङ्के भविष्यति । शीर्षन्यायालयेन बिहारे आयोगस्य विशिष्ट-गहन-संशोधनं विरुध्य प्रख्यापिताः याचिकाः तत्कालरूपेण सूचीबद्धं कर्तुं सहमति व्यक्तीकृता आसीत् । न्यायालयस्य समक्षं विभिन्नाः याचिकाः समानीताः सन्ति यासु कथितम् अस्ति यत् यदि विशिष्ट-गहन-संशोधनं निर्देशितं कुर्वतः निर्वाचन-निकायादेशस्य पृथकीकरणं न क्रियते तर्हि अनेन अनुचितरूपेण अनुचितप्रक्रियया च स्वीकीयैः प्रतिनिधिनिर्वाचनैः वञ्चिताः भवितुं शक्यन्ते ।

बैंकक्षेत्राण्यतिरिच्य (एनबीएफसी) वित्तीय-संस्थानानां ऋण-प्रतिग्रहणस्य प्रथाः निष्पक्षतया, सहानुभूतिपूर्णतया सम्मानजनकरूपेण च संचालिताः कर्तव्याः- केन्द्रीय-वित्त-मंत्री
हिमसंस्कृतवार्ता: – केन्द्रीय-वित्त-मंत्री निर्मला सीतारमण-वर्या अकथयत् यत् बैंकक्षेत्राण्यतिरिच्य (एनबीएफसी) इति वित्तीय संस्थानानां ऋण-प्रतिग्रहणस्य प्रथाः निष्पक्षतया, सहानुभूतिपूर्णतया सम्मानजनकरूपेण च संचालिताः कर्तव्याः । सहैव रिजर्वबैंकस्य निष्पक्ष-व्यवहार-संहिता सबलं रेखांकितं कर्तव्यम् । सा नवदेहल्यां एनबीएफसी इत्यस्य संगोष्ठीं संबोधयन्ती एतद् वक्तव्यं दत्तवती । मन्त्रिवर्या प्रोक्तवती यत् वित्तीय-समावेशनस्य उपयोगः वित्तीय-शोषणस्य रूपेण न विधातुं शक्यते ।
मंत्रिवर्या एनबीएफसी इत्यस्मै शासनं, वित्तीयसङ्कट-प्रबन्धनं, उपभोक्तृणां च सुरक्षां एकीकृतं कर्तुम् अस्य आवश्यकतामपि रेखांकितम् अकरोत् ।

प्रवर्तननिदेशालयः अवैध-द्यूत-क्रीडानुप्रयोगान् यूट्यूब इत्यस्य विविध-वाहिनीनां सञ्चालकान् च विरुध्य धन-प्रवञ्चनस्य आरोपं प्रख्यापितवान्
हिमसंस्कृतवार्ता: – प्रवर्तननिदेशालयः अवैध द्यूत-क्रीडानुप्रयोगान् कथितरूपेण समर्थयितुं नवविंशतिसंख्याकान् अभिनेतृन् प्रभावशालिनः जनान्, यूट्यूब इत्यस्य वविध-वाहिनीनां सञ्चालकान् च विरुध्य धन-प्रवञ्चनस्य आरोपं प्रख्यापितवान् । एतादृशं कृत्यं सार्वजनिक-द्यूताधिनियमस्य उल्लंघनं करोति । चलचित्राभिनेतारः विजय-देवरकोंडा, राणा दग्गुबाती, प्रकाश-राजः, निधि-अग्रवाल, प्रणिता-सुभाषः च तेषु जनेषु सम्मिलिताः सन्ति येषु प्रवर्तननिदेशालयेन आरोपः प्रख्यापितः अस्ति । धन-प्रवञ्चनाधिनियमस्य अन्तर्गतं अन्वीक्षणं तेलंगाना-आन्ध्रप्रदेशयोः प्रख्यापितायाः पञ्च-प्राथमिक्याः आधारे कृतमस्ति । प्रवर्तन-निदेशकेन एषः विषयः तदा समुत्थापितः अस्ति यदा एकः याचिकाकर्ता एतान् व्यक्तिविशिष्टान् प्रदर्शितं कुर्वद्भिः विज्ञापनैः प्रभावितो भूत्वा कोटित्रयं रूप्यकाणां हानेः आरोपः प्रख्यापितः अस्ति ।

ऋतु-विज्ञान-विभागेन मध्यप्रदेश-छत्तीसगढ-विदर्भ-राज्येषु अग्रिमयोः दिवसद्वयोः वज्रपातेन सह प्रचण्डवृष्टेः ऑरेंज-अलर्ट इति नारङ्ग-वर्णीय-सन्चेतना प्रसारिता
हिमसंस्कृतवार्ता: – ऋतु-विज्ञान-विभागेन मध्यप्रदेश-छत्तीसगढ-विदर्भ-राज्येषु अग्रिमयोः दिवसद्वयोः वज्रपातेन सह प्रचण्डवृष्टेः ऑरेंज-अलर्ट इति नारङ्ग-वर्णीय-सन्चेतना प्रसारितास्ति। ऋतु-विभागेन दिल्लीनगरे, तत्समीपस्थे च एनसीआरक्षेत्रे, पञ्जाबे च आगामिषु चतुर्विंशति-होरासु वर्षायाः कृतेऽपि ऑरेंज-अलर्ट सन्चेतना प्रसारिता। आकाशवाण्या सह चर्चायां आईएमडी इत्यस्य वरिष्ठवैज्ञानिकेन आरके-जेनामणि इत्यनेन सूचितं यत् पश्चिम-हिम-राज्याणि समेत्य उत्तर-पश्चिम-भारते अपि प्रचण्डवृष्टिः निरन्तरं भविष्यति। महाराष्ट्रस्य विदर्भक्षेत्रे प्रचण्डवृष्ट्या जलाप्लवम् अभवत् । राज्यसर्वकारः स्थिति: निकटतया निरीक्षते। मानसूनेत्यस्य प्रभावः हिमाचलप्रदेशे निरन्तरं भवति, सामान्यजीवनं मुख्यतया प्रभावितम् अस्ति । राज्यस्य राजधानीं शिमलां समेत्य अधिकांशेषु भागेषु निरन्तरं वृष्टिः भवति। विगतासु चतुर्विंशति-होरासु सिरमौर-मण्डलस्य धौलाकुआं क्षेत्रे अष्टषष्ट्यधिकैकशतं मि.मी. परिमिता, तदनन्तरं बिलासपुर-मण्डले विंशत्यधिकैकशतं मि.मी.-परिमिता वर्षा जाता। ऋतुविभागेन राज्यस्य अधिकांशभागेषु प्रचण्डवृष्टेः येलो-अलर्ट इति पीतवार्णिकी-सञ्चेतना प्रसारिता अस्ति।

गुजरातस्य वडोदरा-जनपदे नद्यः उपरि सेतु-विखण्डन-घटनायां मृतकानां संख्या समेध्य पञ्चदश यावत् सञ्जाता, त्रयः अन्येऽपि शवाः प्राप्ताः
हिमसंस्कृतवार्ता: – गुजरातस्य वडोदरा-जनपदे नद्योपरि सेतु-विखण्डन-घटनायां मृतकानां संख्या समेध्य पञ्चदश यावत् सञ्जाता, त्रयः अन्येऽपि शवाः प्राप्ताः। अवधेयमस्ति यत् पादरा नगरस्य गम्भीरा-ग्रामस्य समीपे दशक-चतुष्टय-पुरातनस्य सेतोः भागः खण्डितः येन अनेकानि वाहनानि महीसागर-नद्यां पतितानि । घटनास्थले अद्यापि उद्धारकार्यं प्रचलति। जनपद-प्रशासनं निरन्तरं उद्धारकार्याणां निरीक्षणं कुर्वन् अस्ति। मुख्यमन्त्रिणा भूपेन्द्रपटेलेन अस्याः घटनायाः अन्वेषणस्य आदेशो प्रदत्तः अस्ति ।

प्रधानमन्त्री नरेन्द्रमोदी घाना, त्रिनिदाद एण्ड टोबैगो, अर्जेन्टिना, ब्राजील, नामिबिया चेत्यादीनां पञ्चराष्ट्राणां सफलयात्रायाः अनन्तरं नवदेहलीं प्रत्यागतवान्
हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्रमोदी घाना, त्रिनिदाद एण्ड टोबैगो, अर्जेन्टिना, ब्राजील, नामिबिया चेत्यादीनां पञ्चराष्ट्राणां सफलयात्रायाः अनन्तरं नवदेहलीं प्रत्यागतवान्। तस्य यात्रायाः अन्तिमे चरणे भारतेन नामिबियादेशेन च प्रधानमन्त्रिणः नरेन्द्रमोदिनः उपस्थितौ, नामिबियादेशे उद्यम-शीलता-विकास-केन्द्रस्य स्थापनायै, स्वास्थ्यचिकित्साक्षेत्रे च सहकार्यस्य विषये द्वयोः सन्धि-ज्ञापन-पत्रयोः हस्ताक्षरं कृतम् । यात्रावधौ अस्मिन् वर्षे डिजिटल पेमेंट सिस्टम इत्यस्य आरम्भावसरे तिस्रः घोषणाः अपि कृताः सन्ति ।

You Might Also Like

President of India – चिकित्सा न केवलं वृत्तिः, अपितु मानवतायाः सेवायाः सङ्कल्पः; ‘एम्स’-संस्थानस्य प्रथमेभ्यः स्नातकेभ्यः राष्ट्रपतेः उपदेशः

क्रीडा-मञ्चानां माध्यमेन बालकान् यूनश्च लक्ष्यीकुर्वन्ति आतङ्किनः; संयुक्तराष्ट्र-प्रतिवेदने प्रकटनम्

भारतीयपुरातत्त्वसर्वेक्षणेन (ASI) तेलङ्गानायाः ‘गोल्लाला गुडी’ मन्दिरं राष्ट्रियधरोहरसूच्यां सम्मिलितम्

सर्वकारेण वर्ष २०२४ कृते तेनज़िङ्ग नोर्गे राष्ट्रिय-साहसिक-पुरस्काराणां घोषणा कृता

नेपाल-विभीषिकातः शिक्षणम् – हिमालीय-टनल-सेतु-परियोजनानां भविष्यति तीक्ष्णं निरीक्षणम्, प्रधानमन्त्रिकार्यालयेन याचितं विवरणम्

TAGGED: राष्ट्रीयवार्ताः
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article कलियाचक-आदर्शसंस्कृतमहाविद्यालये गुरुपूर्णिमोत्सवः परिपालितः
Next Article मण्डी थुनाग- मुख्यमंत्री विपक्षनेत्रा सह आश्रयपुनर्वासकार्यस्य समीक्षां कृतवान्, अधिकारिभ्यः च निर्देशान् दत्तवान्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?