By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: राष्ट्रीयवार्ता:- ईरान-इजरायलयो: युद्धविराम:
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > राष्ट्रीयवार्ताः > राष्ट्रीयवार्ता:- ईरान-इजरायलयो: युद्धविराम:
राष्ट्रीयवार्ताः

राष्ट्रीयवार्ता:- ईरान-इजरायलयो: युद्धविराम:

डॉ.अमनदीप शर्मा
Last updated: 2025/06/25 at 7:01 AM
डॉ.अमनदीप शर्मा - Founder Of Himsanskritam.com
Share
4 Min Read
SHARE

राष्ट्रीयवार्ता:आपरेशन् सिन्दूर् इत्यनेन आतङ्कवादस्य विषये भारतस्य शून्य-सहिष्णुता-नीतेः दृढः वैश्विकसन्देशः प्रेषितोऽस्ति – प्रधानमन्त्री नरेन्द्रमोदी

हिमसंस्कृतवार्ता: – प्रधानमन्त्री नरेन्द्र मोदी अकथयत् यत् आपरेशन् सिन्दूर् इत्यनेन आतङ्कवादेति विषये भारतस्य शून्य-सहिष्णुता-नीतेः प्रबलं वैश्विकं च सन्देशम् प्रेषितमस्ति। सः अवदत् यत् भारतीयनागरिकाणां हानिं जनयितारं कुत्रापि स्थानं सुरक्षितं नास्ति इति भारतं स्पष्टम् अकरोत्। अवधेयं वर्त्तते यत् नवदेहल्यां भारतस्य महान् आध्यात्मिक-नैतिकनेतृभ्यां श्रीनारायणगुरु-महात्मागान्धी-इत्येतयोः मध्ये आयोजितस्य ऐतिहासिक-संवादस्य शतवार्षिक-उत्सवे प्रधानमन्त्री भाषणं कुर्वन् आसीत्। श्रीनारायणगुरुवर्यस्य महात्मागान्धीवर्यस्य च ऐतिहासिकं वार्तालापं भारतस्य स्वातन्त्र्य-आन्दोलनाय नूतनां दिशां अयच्छदिति प्रधानमन्त्री उक्तवान्। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् केरलस्य शिवगिरि-मठे एकशताब्देः पूर्वं श्रीनारायण-गुरु-महात्मा-गान्धी-इत्येतयोः मध्ये जातेन ऐतिहासिकसंवादेन स्वातन्त्र्य-आन्दोलनाय नूतना दिशा दत्ता। सः इत्यपि अवदत् यत् शतवर्षपूर्व, यदा जनाः सामाजिक-दुराचारान् विरुध्य वक्तुं भीतिमनुभवन्ति स्म, तदा श्रीनारायणगुरुः सत्येन, सेवया, सौहार्देन समानतया प्रगाढविश्वासेन च जनानां मार्गदर्शनमकरोत्। श्रीमोदी अवदत् यत् प्रेरणैषा राष्ट्रम् ‘सबका साथ, सबका विकास’ इत्यस्य मार्गे निरन्तरतया प्रेषयन्त्यस्ति।

अमरीकादेशस्य राष्ट्रपतिनः युद्धविरामस्य घोषणायाः अनन्तरम् अपि इरान-देशः क्षिपणि-प्रहारं कृतवान् इति इजराइल-देशः आरोपितवान्।
हिमसंस्कृतवार्ता: – अमरीकादेशस्य राष्ट्रपतिना डॉनल्ड् ट्रम्प् इत्यनेन युद्धविरामस्य घोषणायाः अनन्तरम् अपि इरान-देशः क्षेपास्त्राणां प्रक्षेपणं कृतवान् इति इजराइल-रक्षा-बलम् उदघोषयत्। आई. डी. एफ़. इत्यनेन ईरान-देशात् नूतनं वैलेस्टिक्-क्षिपणि-प्रक्षेपणं प्रक्षिप्तमिति ज्ञातम्, उत्तर-इजराइल-प्रदेशे सैरन् इत्यस्य नादश्चाभवत् इत्यपि तेनोक्तम्। इरानदेशेन सह द्वैपाक्षिक-युद्धविरामाय इजराइलदेशः सहमतः इत्युक्तेः कश्चित्कालानन्तरमेव एतत् जातम्। इजराइल-देशस्य प्रसारमाध्यमाः अवदन् यत् रक्षामन्त्री इजराइल काट्ज़ इत्येषः इरान-देशस्य राजधान्यां तेहरान्-नगरे तीव्र-आक्रमणाय आदेशं दत्तवान्। इरान-देशः अमरीका-कतर-देशयोः मध्यस्थतया कृतस्य युद्धविरामस्य उल्लङ्घनम् अकरोत् इति आरोपं आरोपितवान्। तत्सम्बद्धे विकासे इरानस्य उपविदेशमन्त्री कतार-देशं प्रति कार्तज्ञभावान् प्रकटितवान् यत् सः अस्मिन् क्षेत्रे युद्धं निवारयितुं साहाय्यं कृतवान् । इतः पूर्वं इजराइलदेशः अमरीकायाः राष्ट्रपतिनः डॉनाल्ड ट्रम्प् इत्यस्य ईरानदेशेन सह युद्धविरामस्य प्रस्तावं स्वीकृतवान् आसीत्। प्रधानमन्त्री बेञ्जामिन् नेतन्याहु इत्यस्य कार्यालयात् प्राप्ते वक्तव्ये तेहरान्-क्षेत्रस्य परमाणु-बैलेस्टिक्-क्षिपणि-आपदायाः निवारणस्य लक्ष्यं प्राप्य सः युद्धविरामाय सहमतः अभवत् । वक्तव्ये इरानस्य परमाणु-विभीषिकायाः निर्मूलनार्थं संयुक्तराज्यामरीका-देशस्य समर्थनाय सहभागितायै च अपि आभारभावाः प्रकटिताः। नेतन्याहु-वर्यः अपि अवदत् यत् इजरायलदेशः युद्धविरामस्य कस्यापि उल्लङ्घनस्य प्रबलतया प्रतिकारं करिष्यति। इदानीं इजराइल-इरान-देशयोः मध्ये युद्धविरामः प्रचलन्नस्ति उभावपि देशौ युद्धविरामस्य उल्लङ्घनं मा कुरुताम् इति श्रीट्रम्पः उक्तवान्।

ऑपरेशनसिन्धु इत्यस्य अन्तर्गतं ईरानदेशात् पञ्चनवत्यधिकद्विशतोत्तरद्विसहस्र-भारतीय-नागरिकाः गृहं प्रत्यानीताः ।
हिमसंस्कृतवार्ता: – ऑपरेशनसिन्धु इत्यस्य अन्तर्गतं ईरानदेशात् पञ्चनवत्यधिकद्विशतोत्तरद्विसहस्र-भारतीय-नागरिकाः गृहं प्रत्यानीताः । विदेशमन्त्रालयस्य प्रवक्ता रणधीरजायसवालः उक्तवान् यत् ईरानदेशस्य मशाद-नगरात् विशेषविमानेन द्विनवत्यधिकद्विशतम् भारतीयनागरिकाः नवदेहली-नगरं प्राप्तवन्तः। भारतीय-वायुसेनायाः सी-17 विमानेन अपि ऑपरेशनसिन्धु इत्यस्य अन्तर्गतं इजराइल देशात् पञ्चषष्ट्युत्तरैकशतं भारतीयाः जनाः निष्कासिताः। प्रत्यागतानाम् नागरिकाणां स्वागतम् सूचनाप्रसारणसंसदीय-कार्य-राज्यमन्त्री डॉक्टर एल. मुरूगनः अकरोत्। तेनोक्तञ्च यत् यात्रिण: द्वाविंशति-भिन्नराज्येभ्यः सन्ति, ते च सर्वे अतीव प्रसन्नाः सन्ति।

आर्थिकवृद्धेः दृष्ट्या भारतं शक्तियुत-अर्थव्यवस्थासङ्घस्य एकादशतः चतुर्थस्थानं प्राप्य जगति वृहत्तमां प्रगतिम् अकरोत्- उपराष्ट्रपतिः जगदीप धनखडः
हिमसंस्कृतवार्ता: – उपराष्ट्रपतिः जगदीप धनखडः अवदत् यत्, प्रधानमन्त्रिणः नरेन्द्रमोदिनः सर्वकारस्य गतानि दशवर्षाणि, आर्थिकवृद्धेः, अभूतपूर्वसंरचनायाः च दृष्ट्या ऐतिहासिकानि आसन्। बिहारस्य मुज़फ़्फ़र्-नगरे एकस्मिन् कार्यक्रमे सम्बोधयन् धनखडः अवदत् यत्, आर्थिकवृद्धेः दृष्ट्या भारतं शक्तियुत-अर्थव्यवस्थासङ्घस्य एकादशतः चतुर्थस्थानं प्राप्य जगति वृहत्तमां प्रगतिम् अकरोत्। सः अवदत् यत् अधुना यूनां कृते विकल्पानाम् प्राचुर्यं वर्तते इत्थं इतः पूर्वं कदापि नासीत्। धनखडः एन्. डी. ए. सर्वकारेण प्रवर्तितायाः नूतनशिक्षानीतेरपि प्रशंसाम् अकरोत्।

विनिर्माणस्य समर्थनाय निर्यातस्य प्रोत्साहनाय च शुल्कं न्यूनीकृत्य व्यापारस्य भारम् न्यूनीकर्तुं सर्वकारः अनेकान् उपायान् अकरोत्- निर्मला-सीतारमण:
हिमसंस्कृतवार्ता: – केन्द्रीय-वित्त-मन्त्री निर्मला-सीतारमण: अवदत् यत्, विनिर्माणस्य समर्थनाय निर्यातस्य प्रोत्साहनाय च शुल्कं न्यूनीकृत्य व्यापारस्य भारम् न्यूनीकर्तुं सर्वकारः अनेकान् उपायान् अकरोत्। नवदेहली-नगरे एक्जिम्-ब्याङ्क्-ट्रेड्-कान्क्लेव् इत्येतं सम्बोधयन्ती श्रीमती सीतारमण: अवदत् यत्, देशस्य आहत्य निर्यातराशिः पञ्चविंशत्यधिकाष्टशत-बिलियन् परिमितं यू. एस्. डालर् इति सर्वकालिकं उच्चत्वम् अवाप्नोत्, पूर्ववर्षस्य अपेक्षया षट् प्रतिशतस्य वृद्धिञ्च अवाप्नोत् । मन्त्री अवदत् यत्, वैश्विक-निर्यातस्य वृद्धिः केवलं चतुर्प्रतिशतम् एव अभवत्, परन्तु भारतस्य निर्यातस्य वृद्धिः गत-वित्तीयवर्षे दशमलवत्र्यधिकषट् प्रतिशतम् आसीत् ।

You Might Also Like

प्रधानमन्त्री नरेन्द्रमोदी जर्मन जांसलर फ्रेडरिक मर्ज च गुजरात-राज्ये गांधीनगरे एकं उच्चस्तरीयं सम्मेलनं सहभागितवन्तौ

⁨केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वक्षेत्रीय १५ तमयुवमहोत्सवः श्रीसीताराम- वैदिकादर्श- संस्कृत- महाविद्यालयस्य आयोजकेन सम्पन्नः

स्वामीविवेकानन्दः : व्यक्तित्वं कृतित्वं च-डॉ विमलेश झा

वायब्रेन्ट-गुजरात-क्षेत्रीय-सम्मेलनस्य उद्घाटनानन्तरं सम्बोधितवान् प्रधानमन्त्री नरेन्द्रमोदी

IND vs NZ प्रथमः एकदिवसीयः : वडोदरानगरे भारतस्य रोमाञ्चकारी विजयः, न्यूजीलैण्डं चतुर्भिः स्तोभैः पराजितः

TAGGED: राष्ट्रीयवार्ता:
Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Founder Of Himsanskritam.com
Follow:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Previous Article Himachal News – कांगड़ामण्डी-जनपदयो: चतुर्ण्णां ग्रामसभानां प्रस्तावना निरस्ता
Next Article पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक-एकविंशतिदिनात्मकराष्ट्रियकार्यशालाया: समापनम्
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Lost your password?