पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च’ विषयक-एकविंशतिदिनात्मकराष्ट्रिय कार्यशालायाः द्वितीयदिवसस्य विधिवत् समापनं जातम्
हिमसंस्कृतवार्ता डॉ .निशिकान्तपाण्डेयः
नलबारी, असम
असमप्रदेशस्य नलबारी जनपदे २४ जून २०२५ तमे दिनांके कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालये केन्द्रीयसंस्कृतविश्वविद्यालयस्य सहकार्ये आयोज्यमाना “पाण्डुलिपिविज्ञानं प्रतिलेखनञ्च” विषयक-एकविंशतिदिनात्मकराष्ट्रिय कार्यशाला अद्य द्वितीयं दिवसं समारभ्य उत्तमरूपेण सम्पन्ना। संस्कृतवाङ्मयस्य भारतीयसंस्कृतिसंरक्षणस्य च दृष्टीकोणतः अतीव महत्त्वपूर्णा एषा कार्यशाला अतिथिवक्तॄणां गहनचिन्तनम्, प्रतिभागिनां सक्रियभागग्रहणं च लक्षीकृत्य ज्ञानवर्धनस्य साधनसम्प्राप्तेः च एकं मञ्चरूपेण विकसितं भवति।
द्वितीयदिनस्य प्रारम्भः विश्वविद्यालयस्य शोधच्छात्रस्य लिराजकाफ्लेमहोदयस्य भावपूर्णेन वैदिकमङ्गलाचरणेन अभवत्। मन्त्रैः शान्तिप्रदायकैः पर्यावरणं पूर्णं पवित्रमिव जातम्। ततः कार्यक्रमस्य संचालनकार्यं विश्वविद्यालयस्य परीक्षानियन्त्रकः सर्वदर्शनविभागाध्यक्षः च डॉ रणजीतकुमारतिवारीमहोदयेन आत्मीयतया समारब्धम्। कार्यक्रमे प्रमुखसाहाय्यं साहित्यविभागस्य सहायकाचार्यः डॉ छबिलाल उपाध्यायमहोदयः तथा च धर्मशास्त्रविभागाध्यक्षा डॉ मैत्रेयी गोस्वामीमहोदया कृतवती।
द्वितीयदिनस्य आकर्षणम् आसीत् डॉ बसन्तकुमारदेवगोस्वामिमहोदयस्य विस्तीर्णज्ञानोपदेशः। सः नलबारीमहाविद्यालयस्य प्राचार्यचरः, पाण्डुलिपिशास्त्रविशारदश्च अस्ति। अद्य चत्वारि सत्राणि जातानि यत्र महोदयेन तात्त्विकम्, व्यावहारिकं च शिक्षणं समर्पितम्।
प्रथमसत्रम् –
प्रथमसत्रे डॉ बसन्तमहोदयेन सांख्यदर्शनस्य सङ्क्षिप्तपरिचयं दत्वा तत्र आप्तवचनस्य स्वरूपं विवेचितम्। तेन ‘एतिह्य’ इति शब्दस्य व्युत्पत्तिमूलकं विवेचनं कृत्वा पाण्डुलिपिसम्बद्धं तस्य प्रयोगः व्याख्यातः। तेनोक्तं यत् यदा वयं पाण्डुलिपीनां पुष्पिकां निरीक्षामहे, तदा तस्य लेखनकालम्, लेखकम्, तदस्य शैलीं च ज्ञातुं शक्यते।
अस्मिन्सत्रे असमप्रदेशस्य प्राचीनमन्दिराणां विवेचनं विशेषरूपेण आहृतम्। महोदयेन तत्र स्थितचित्रलिपीनां विषयमपि आलोकितम्। तेनोक्तं यत् एषाः चित्रलिपयः न केवलं लिपीवर्याः, अपि तु ‘भावलिपयः’ – याः प्रत्यक्षरूपेण भावप्रकाशनाय सहायकाः भवन्ति।
द्वितीयसत्रम् –
द्वितीयसत्रे पाण्डुलिपीनाम् आन्तरिकसंरचनायाः शास्त्रीयविश्लेषणं कृतम्। तेन दर्शितं यत् एकस्याः पाण्डुलिपेः केवलं पाठबन्धः एव न, अपि तु पुष्पिका, लेखशैली, ग्रन्थनामसंकेताः, सम्पुटबन्धनरूपेणापि बहुधा विवरणानि दत्तानि स्युः। एतेषां माध्यमेन पाण्डुलिपीनां कालक्रमे वर्गीकरणं साध्यते।
तृतीयसत्रम् –
तृतीयसत्रे प्रयोगात्मका गतिविधिः आयोजिताभवत्। अत्र पाण्डुलिपिलेखनसामग्रीणां विषये छात्रेभ्यः ज्ञानं प्रदत्तम्। तेन विविधप्रकारेण लेखनविधेः प्रदर्शनं कृत्वा छात्रेभ्यः तस्य अभ्यासः कारितः।
चतुर्थसत्रम् –
दिनस्य अन्त्यसत्रे विश्वविद्यालये स्थितग्रन्थगारे उपलब्धाः विविधप्राचीनपाण्डुलिप्यः प्रतिभागिभ्यः दर्शिताः। डॉ बसन्तमहोदयेन तत्रैव पठनाभ्यासः च कारितः। विभिन्नशैव-वैष्णव-वैदिक-आयुर्वेद शाखासम्बद्धाः दुर्लभग्रन्थाः छात्रेभ्यः दर्शनाय उपस्थापिताः।
सत्रे पाण्डुलिपीनां महत्वं, संरक्षणपद्धतयः, प्रतिलेखनस्य शास्त्रं च विषयगतचर्चायाः माध्यमेन विवेचितम्।
एषः दिवसः केवलं वक्तृत्वप्रधानः न, अपि तु संवादप्रधानः अपि आसीत्। अन्त्यसत्रे पाण्डुलिपिविषये एकं मुक्तचिन्तनमेलनं आयोज्य प्रतिभागिनां जिज्ञासानां समाधानं कृतम्। एषा संवादप्रक्रिया सम्पूर्णकार्यशालायाः हृदयं जातम्।
दिवसस्य समापनं डॉ रणजीत कुमार तिवारी महोदयेन वैदिकशान्तिमन्त्रेण कृतम् –सर्वे सहभागीजनाः उत्साहिताः, प्रेरिताः च जाताः। तेषां नूतनज्ञानं, नूतनानुभवः च कार्यशालायाः प्रभावं व्यञ्जयति।