भारतीयज्ञानपरम्परायां योगस्य महती भूमिका- कुलपतिः
स्वस्थे शरीरे एव स्वस्थस्य मनसः वासः इत्युक्तवान्।
संस्कृतविश्वविद्यालये अन्ताराष्ट्रीय- योगदिवसस्य निमित्ते योगसहितं संगोष्ठी सम्पन्ना।
हिमसंस्कृतवार्ता:- अंकुश कुमार:, दरभङ्गा
कर्णसिंहसंस्थानान्तर्गतस्य संस्कृत- विश्वविद्यालयस्य दरबारमण्डपे आयोजिताया योगविषयिकाया संगोष्ठ्याः अध्यक्षतां वहन् कुलपतिः प्रो. लक्ष्मीनिवासपाण्डेयमहोदयः अवदत्- “स्वस्थे शरीरे एव स्वस्थः मनसः वासः भवति।” अस्मिन् अन्ताराष्ट्रीय- योगदिवसस्य विशेषसन्दर्भे सः अवदत् यत् भारतीयज्ञानपरम्परायां योगस्य अत्यन्तं महत्त्वं विद्यमानम् अस्ति। प्राचीनकाले योगः प्रतिदिनं व्यवहारिकजीवने समाहितः आसीत्, परन्तु कालान्तरात् सः जनजीवनात् लुप्तप्रायोऽभवत्। इदानीं पुनरपि योगसाधनस्य लाभदायकत्वेन सर्वे जनाः लाभम् अनुभवन्ति। योगः शरीरे स्थैर्यं, सहिष्णुतां, धैर्यम्, उच्चशक्तिं च वर्धयति। मानसिकपदे एकाग्रता, शान्तिः, सन्तोषः च वृद्धिं प्राप्नुवन्ति। एतेन आत्मबलेन आन्तरिकबाह्यसमंवयः अपि साध्यते। कुलपतिना अपि उक्तं यत् योगः समत्वभावनां विकसितुं प्रेरयति। सः ज्ञानयोगं, कर्मयोगं, भक्तियोगं च विस्तरेण विवृणोत्। पाश्चात्यदेशानां संदर्भे सः अवदत् यत् ते रोगाणां विस्तारं कुर्वन्ति, भारतदेशः तु योगमार्गं जीवनाय जगति प्रदर्शितवान् अस्ति।एतेषु वक्तव्यानां परिप्रेक्ष्ये कुलसचिवः प्रो. ब्रजेशपतित्रिपाठी महोदयः अपि योगमहत्त्वं प्रकाश्य सर्वेभ्यः योगासनेषु, क्रियासु च सहभागस्य आवाहनं कृतवान्। यम- नियमादीन् अपि सः विवृणोत्, विशेषतया सूर्यनमस्कारस्य लाभान् विशदं निरूपितवान्।
पी. आर. ओ. निशिकान्तवर्येण कार्यक्रमवृत्तान्तः प्रदत्तः-
संगोष्ठ्याः विषयप्रवर्तनं धर्मशास्त्रविभागाध्यक्षः प्रो. दिलीपकुमारझामहोदयेन कृतम्। तेन योगं योगासनं च भारतीयसंस्कृतेः दर्शनस्य च अविभाज्यम् अङ्गम् इति प्रतिपादितम्। सः अन्ताराष्ट्रीययोगदिवसस्य अवसरं प्रति शुभाशंसनम् अपि दत्तवान्।संगोष्ठी संचालनं डॉ. यदुवीरस्वरूपशास्त्रिणा सम्पन्नम्। स्वागतवाक्यं डॉ. नवीनकुमारझावर्येण उद्घोषितम्। धन्यवादज्ञापनं राष्ट्रिय- सेवायोजना- संघटनस्य (NSS) समन्वायकः डॉ. सुधीरकुमारझा समर्पितवान्। कार्यक्रमस्य प्रारम्भे योगप्रशिक्षकद्वयं शशिभूषणगुप्तः च शशिरञ्जनकुमारश्च समुपस्थितान् पदाधिकारिणः कर्मिणश्च नानाविधानि योगमुद्राणि अभ्यासार्थं प्रशिक्षणं दत्तवन्तौ।
भारतीयज्ञानपरम्परायां योगस्य महती भूमिका- कुलपतिः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
Leave a comment
