By using this site, you agree to the Privacy Policy and Terms of Use.
Accept
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Search
© 2025 Himsanskritam organization. All Rights Reserved.
Reading: संस्कृतभारत्या: आवासीयप्रबोधनवर्ग: सम्पन्नः – संस्कारेण, समर्पणेन च संस्कृतेन राष्ट्रनिर्माणस्य अनुपमदर्शनम्
Share
Sign In
Notification Show More
Font ResizerAa
हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Font ResizerAa
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
  • About us
Search
  • मुखपृष्ठम्
  • E- हिमसंस्कृतवार्तापत्रम्
  • राष्ट्रीयवार्ताः
    • प्रादेशिकवार्ता
    • वित्तीयवार्ता
    • चलचित्रवार्ताः
    • क्रीडावार्ताः
  • हिमाचलवार्ता
  • पहाड़ी गल्लां
  • हिमसंस्कृतज्ञानपरीक्षा
  • विविध
    • लेखकाः पत्रकाराश्च
    • संस्कृतगतिविधयः
    • अन्ताराष्ट्रीयवार्ताः
    • धर्मसंस्कृतिः
    • पञ्चागम्
    • बोधकथा
    • विचारविमर्शः
    • संस्कृतबोधकथा
  • About us
    • Privacy Policy
Have an existing account? Sign In
Follow US
© 2025 Himsanskritam.com All Rights Reserved .
हिमसंस्कृतवार्ताः > Blog > संस्कृतगतिविधयः > संस्कृतभारत्या: आवासीयप्रबोधनवर्ग: सम्पन्नः – संस्कारेण, समर्पणेन च संस्कृतेन राष्ट्रनिर्माणस्य अनुपमदर्शनम्
संस्कृतगतिविधयः

संस्कृतभारत्या: आवासीयप्रबोधनवर्ग: सम्पन्नः – संस्कारेण, समर्पणेन च संस्कृतेन राष्ट्रनिर्माणस्य अनुपमदर्शनम्

डॉ.अमनदीप शर्मा
Last updated: 2025/06/22 at 6:41 AM
डॉ.अमनदीप शर्मा - Editor in chief
Share
2 Min Read
SHARE

संस्कृतभारत्या: आवासीयप्रबोधनवर्ग: सम्पन्नः – संस्कारेण, समर्पणेन च संस्कृतेन राष्ट्रनिर्माणस्य अनुपमदर्शनम्

हिमसंस्कृतवार्ताः- कुलदीपमैन्दोला। मेरठं।
संस्कृतभारती-पश्चिमोत्तरप्रदेशक्षेत्रस्य बालेरामब्रजभूषणसरस्वतीशिशुमन्दिरे, शास्त्रीनगरमेरठमध्ये “आवासीयप्रशिक्षणवर्गस्य” समापनसमारोह: भव्यरूपेण सफलतया सम्पन्नः। अयं वर्ग: केवलं संस्कृतभाषायाः प्रचारप्रसाराय न, अपि तु भारतीयसंस्कृतेः, संगठनकार्यपद्धतेः, च संस्कृत्या राष्ट्रनिर्माणस्य च गम्भीरविषयेभ्यः समर्पित: आसीत्।अस्मिन् सन्दर्भे मेरठ-ब्रज-उत्तराखण्डप्रान्तेभ्यः आगतानां समर्पितकार्यकर्तृणां प्रेरणादायिनी उपस्थिति: सम्पूर्णं वातावरणं हर्षपूर्णं ऊर्जायुतं च कृतवती।
८ जून २०२५ तः आरभ्य २१ जून २०२५ पर्यन्तं चलिते अस्मिन् वर्गे २२ स्थलेभ्यः आगता: १०५ जना: संस्कृतभाषायां संवादं कर्तुं नियमितम् अभ्यासं कृतवन्तः। प्रातःकालचतुर्वादनात् आरभ्य रात्रौ दशवादनपर्यन्तं सततं संस्कृतभाषायां भाषणं शिक्षणं च प्रशिक्षणार्थिभिः कृतम्।
अस्मिन् वर्गे शिक्षकरूपेण प्रभाकरमणित्रिपाठी, गिरीशतिवारी, कुलदीपमैन्दोला, तरुण:, गणशिक्षकः आकाश:, रंगराजन:, विनीत:, रुद्र:, सन्तोष:, अंकित:, वीरेन्द्र:, नीलकमल:, पूनमवर्या, राजमणिः, नीरज:, सन्दीपकुमार:, अर्जुन: इत्येते शिक्षायै च व्यवस्थायै च सहयोगं कृतवन्तः।
वर्गस्य मार्गदर्शनार्थं संस्कृतभारत्याः विभिन्नपदाधिकारिण: समये समये आगत्य विविधेषु विषयेषु स्वविचारं प्रस्तुतवन्त: ।
एकता-विषये श्रीशदेवपुजारी-महोदयः सारगर्भितं भाषणं कृत्वा अवदत् —”एकता एव समाजस्य शक्ति:। संस्कृतभाषा अस्याः एकतायाः आधाररूपेण वर्तते।”
संगठन-कार्यविषये जयप्रकाश-महोदयेन उक्तम् —
“संगठनेनैव समाजस्य उत्थानं साध्यते। यदा वयं संगठिताः भवाम:, तदा राष्ट्रनिर्माणस्य प्रक्रिया सुदृढा भवति।”
योग-विषये प्रेमचन्द्रशास्त्री-महोदयेन उक्तं —
“योगः भारतीयसंस्कृतेः अमूल्यं दानम् अस्ति। सः केवलं शारीरिकव्यायामः न, अपि तु आत्मा-परमात्मन: मिलनस्य मार्गः अपि अस्ति।”
संस्कृतस्य महत्वे श्रीराम-महोदयेन निगदितम् —
“संस्कृतं केवलं भाषा न, अपि तु भारतस्य चेतना च विज्ञानस्य मूलधारा च अस्ति। अस्याम् एव विज्ञानम्, गणितम्, व्याकरणम्, चिकित्सायाः ज्ञानम्, तथा आध्यात्मिकविचाराः अपि समाहिताः सन्ति।”
समापन-सत्रे अखिलभारतीय-शिक्षणप्रमुखः श्रीराम-महोदयः प्रेरणादायकं भाषणं दत्त्वा उक्तवान् —
“संस्कारैः, समर्पणेन च संस्कृतभाषया सह राष्ट्रस्य च विश्वस्य च कल्याणं सम्भाव्यते। एषा भाषा अस्मान् स्वमूलम् उपनयति, जीवनं च सुसंस्कृतं करोति।”
वर्गे क्षेत्रीय-संगठनमन्त्री श्रीदेवेन्द्रपण्ड्या-महोदयेन कार्यकर्तॄन् सम्बोध्य एवमुक्तम् —”संस्कृतभाषा केवलं भाषा न, किन्तु भारतस्य आत्मा एव। अस्याः पुनरुत्थानेन राष्ट्रस्य वास्तविकम् उत्थानम् सम्भवम्।”
कार्यक्रमस्य गरिमावृद्ध्यर्थम् संस्कृतभारत्याः मेरठ-प्रान्त-अध्यक्षः आचार्यः श्रीवाचस्पतिमिश्र-महोदयः, प्रान्त-संगठनमन्त्री (मेरठत:) श्रीयोगेशविद्यर्थी-महोदयः, प्रान्त-संगठनमन्त्री (उत्तराखण्डत:) श्रीगौरवशास्त्री-महोदयः,
व्रजप्रान्तत: गौरव:,वर्गाधिकारी श्रीराजगोपालकात्यायनवर्य:, प्रशिक्षणप्रमुखः श्रीरामः महोदयः च अपि स्वविचारान् प्रस्तुतवान्।अस्मिन् विशेषसन्दर्भे प्रधान-आर्यसमाज-मेरठत:- श्रीराजेशसेठीवर्य:, वरिष्ठ-चिकित्सकः डॉ. विश्वजीत्-बैम्बी, मेरठ-दक्षिण-संयोजकः श्रीराहुलगुप्त-महोदयः, मण्डल-अध्यक्षः श्रीललित-मोरल-महोदयः, श्रीआकाशशर्मा-महोदयः, श्रीनरेन्द्रकुमार-महोदयः, डॉ. अरविन्दनारायण-महोदयः अन्ये च बहवः गणमान्य-नागरिकाः समाजसेविनश्च सादरम् उपस्थिताः आसन्।

You Might Also Like

*श्रीसीतारामवैदिक-आदर्शसंस्कृतमहाविद्यालये पाक्षिकी वाक्यार्थसभा सम्पन्ना*

अन्तर्राष्ट्रियस्तरे प्राप्तं प्रतिष्ठितं सम्मानम्:, अन्तर्राष्ट्रियसंस्कृतरत्नसम्मानेन सम्मानितः डॉ. चिराग हेमन्तकुमार पुरोहितः

संस्कृताध्ययनकेन्द्रस्य सत्रारम्भकार्यक्रमः एवं दशदिवसीयसंस्कृतसम्भाषणशिविरस्य समपानकार्यक्रमः

भारतीयसंस्कृतौ आभूषणानां प्रासङ्गिकता तथा वैज्ञानिकता विषये विशिष्टं व्याख्यानम्

खण्डस्तरीयसंस्कृतप्रतियोगितायां भुवनेश्वरीविद्यालयस्य वर्चस्वम्

Share This Article
Facebook Twitter Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Sleepy0
Angry0
Dead0
Wink0
By डॉ.अमनदीप शर्मा Editor in chief
Follow:
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Previous Article प्रधानमन्त्रिणा ओडिशायां १८,६०० कोटिरूप्यकाणाणां विकासपरियोजनानाम् उद्धाटनं शिलान्यासश्च कृतः
Next Article भारतीयज्ञानपरम्परायां योगस्य महती भूमिका- कुलपतिः
Leave a comment Leave a comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

about us

समाजे सैव भाषा जीवति यस्याः व्यवहारिकता समाजे संदृश्यते, यावत् पर्यन्तं भाषायाः मौखिकपक्षः लिखितपक्षः वाचिकपक्षश्च समाजे वर्तमानकालिकसन्दर्भेषु न प्रयुज्यते तावत् पर्यन्तं भाषायाः विकासः नैव भविष्यति, अतः भाषायाः विकासार्थमेव संस्कृतपत्रकारितायाः क्षेत्रमवलम्ब्य हिमसंस्कृतवार्तायाः सर्वे राजनैतिकाः आर्थिकाः सामाजिकाः च प्रयत्नाः प्रतिदिनं संस्कृतभाषायाः व्यवहारिकं पक्षं सुदृढं कर्तुम् कृतसङ्कल्पाः सन्ति, येषां लाभः भविष्ये संस्कृतक्षेत्राय भविष्यति।

हिमसंस्कृतवार्ताःहिमसंस्कृतवार्ताः
Follow US
© 2023 Himsanskritam.com. All Rights Reserved.
Go to mobile version
Welcome Back!

Sign in to your account

Register Lost your password?